अध्यायः 075
अर्जुनेन विराटप्रश्नाद्वललादीनां भीमसेनादित्वकथनम् ॥ 1 ॥ उत्तरेण विराटंप्रति तत्तल्लक्षणाभिधानपूर्वकं युधिष्ठिरादीनां निर्देशः ॥ 2 ॥ तथाऽर्जुनपराक्रमवर्णनम् ॥ 3 ॥ ततो विराटेन सप्रणामं युधिष्ठिरादिप्रसादनम् ॥ 4 ॥
विराट उवाच ।
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः ।
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी ।
यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा ॥
अर्जुन उवाच ।
य एष बललोऽभूत्ते सूपकारश्च ते नृप ।
एष भीमो महाभाग भीमवेगपराक्रमः ॥
एष क्रोधवशान्हत्वा पर्वते गन्धमादने ।
सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत् ॥
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् ।
व्याघ्रानृक्षान्गजांश्चैव हतवांश्च पुरे तव ॥
हिडिम्बं च बकं चैव किर्मीरं च जटासुरम् ।
हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम् ॥
यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तप ।
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ ॥
शृङ्गारवेषारणौ रूपवन्तौ मनस्विनौ ।
नानारथसहस्राणां समर्थौ भरतर्षभौ ॥
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी ।
सैरन्ध्री द्रौपदी राजन्यकृते कीचका हताः ॥
द्रुपदस्य प्रिया पुत्री धृष्ट्युम्नस्य चानुजा ।
अग्निकुण्डात्समुद्भूता द्रौपदी त्ववगम्यताम् ॥
भीम उवाच ।
अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु ।
धनुर्भृतामतिश्रेष्ठः कौन्तेयोयं धनंजयः ॥
एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः ।
दग्धं नागवनं चैव सह नागैर्नराधिप ॥
वर्षं च शरवर्षेण वारितं दुर्जयेन वै ।
करमाहारिताः सर्वे पार्थिवाः पृथिवीतले ॥
स्त्रीवेषं कृतवानेष तव राजन्निवेशने ।
बृहन्नलेति यामाहुरर्जुनं जयतांवरम् ॥
उषिताःस्म सुखं सर्वे तव राजन्निवेशने ।
अज्ञातवासे निभृता गर्भवास इव प्रजाः ॥
वैशंपायन उवाच ।
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः ।
पुनरेव च तान्पार्थान्दर्शयामास चोत्तरः ॥
उत्तर उवाच ।
य एष जाम्बूनदशुद्धगौर-
तनुर्महान्सिंह इव प्रवद्धः ।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः ॥
अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः ।
पृथ्वायतांसो गुरुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतैनम् ॥
यस्त्वेव पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपोपमः ।
सिंहोन्नतांसो गजराजगामी
पद्मायताक्षोऽर्जुन एष वीरः ॥
राज्ञः समीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकलौ ।
मनुष्यलोके सकले समोऽस्ति
ययोर्न रूपे न बले न शीले ॥
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी
यैषा प्रभा मूर्तिमतीव गौरी ।
नीलोत्पलाभा सुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥
वैशंपायन उवाच ।
एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः ।
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम् ॥
अयं स द्विषतां मध्ये मृगाणामिव केसरी ।
अचरद्रथबृन्देषु निघ्नंस्तेषां परावरान् ॥
अनेन विद्धा मातङ्गा महामेघोपमास्तदा ।
हिरण्यकक्ष्याः संग्रामे दन्ताभ्यामगमन्महीम्
अनेन विजिता गावो निर्जिताः कुरवो युधि ।
अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ ॥
जायते रोमर्षो मे संस्मृत्यास्य धनुर्ध्वनिम् ।
ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः ॥
नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान् ।
न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे ॥
एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः ।
नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः ॥
तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम् ।
कलेबराणि दृश्यन्ते योधानां साश्वसादिनां ॥
अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी ।
प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः ।
प्रकम्पते चण्डवायुकम्पिता कदली यथा ॥
अनेन राजन्वीरेण भीष्मद्रोणमुखा रथाः ।
दुर्योधनेन सहिता निर्जिता भीमकर्मणा ॥
अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् ।
यस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुरम् ॥
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा मात्स्यराजः प्रतापवान् ।
धनंजयं परिष्वज्य पाण्डवानथ सर्वशः ॥
धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम् ।
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ॥
संप्रीयमाणो राजानां युधिष्ठिरमथाब्रवीत् ।
दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् ।
दिष्ट्या विचरितं कृच्छ्रमज्ञातं च दुरात्मभिः ॥
इदं राज्यं च वः सर्वं यच्चापि वसु किंचन ।
विभक्तमेतद्भवतां नोत्कण्ठां कर्तुमर्हथ ।
अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि पञ्चसप्ततितमोऽध्यायः ॥