अध्यायः 025
द्रौपद्या भीमवचनात्कीचकंप्रति नर्तनशालाया उभयोः समागमे संकेतस्थानत्वनिर्धारणेन रात्रौ तत्रागमनचादना ॥ 1 ॥
भीम उवाच ।
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ॥ 1 ॥
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् ।
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ 2 ॥
यैषा नर्तनशालेह मत्स्यराजेन कारिता ।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं ॥ 3 ॥
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् ।
तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ॥ 4 ॥
संकेतं सूतपुत्रस्य कारयस्व शुभानने ।
यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ॥ 5 ॥
तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत् ।
तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् ॥ 6 ॥
आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति ।
कीचकस्य विनाशाय तथा कुरु नृपात्मजे ॥ 7 ॥
वैशंपायन उवाच ।
तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ ।
रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ॥ 8 ॥
भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा ।
द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ॥ 9 ॥
तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः ।
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥ 10 ॥
यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् ।
न कंचिल्लभसे नाथमभिपन्ना बलीयसा ॥ 11 ॥
प्रवादेन तु मात्स्यानामयं राजेति चोच्यते ।
अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ॥ 12 ॥
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते ।
न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ॥ 13 ॥
अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते ।
दासीशतं च ते दद्यां दासानामपि चापरम् ॥ 14 ॥
रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः ।
सुदासानां सहस्रं च महिषाणां सहस्रकम् ॥ 15 ॥
अन्तःपुरसहस्रं च हेमकूटसहस्रकम् ।
तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ॥ 16 ॥
द्रौपद्युवाच ।
एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक ।
न ते सखा वा भ्राता वा जानीयात्संगमं मया ॥ 17 ॥
अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् ।
अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत ।
एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ॥ 18 ॥
कीचक उवाच ।
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे ।
एकोऽहमागमिष्यामि शून्यमावसथं तव ॥ 19 ॥
समागमार्थं रम्भोरु त्वया मदनदर्पितः ।
यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ॥ 20 ॥
द्रौपद्युवाच ।
यदेतन्नर्तनागारं मात्स्यराजेन कारितम् ।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं ॥ 21 ॥
निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते ।
तत्र दोषः परिहृतो भविष्यति न संशयः ॥ 22 ॥
एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज ।
तत्राहं भविता तुभ्यं वशगा नात्र संशयः ॥ 23 ॥
कीचक उवाच ।
तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि ।
एकः सन्नर्तनागारमागमिष्यामि भामिनि ।
समागमार्थं सुश्रोणि शपे च सुकृतेन मे ॥ 24 ॥
यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि ।
सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम् ।
अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै ॥ 25 ॥
वासांसि च विचित्राणि मनोज्ञानि तवापि च ।
यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ॥ 26 ॥
द्रौपद्युवाच ।
तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम् ।
यन्नानुभूतं भवता जन्मप्रभृति कीचक ॥ 27 ॥
वैशंपायन उवाच ।
तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह ।
क्षणमात्रं तदभवन्मासेनैव समं नृप ॥ 28 ॥
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः ।
सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ॥ 29 ॥
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः ।
अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः ॥ 30 ॥
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् ।
अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥ 31 ॥
आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः ।
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥ 32 ॥
कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः ।
नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ॥ 33 ॥
ततस्तु द्रौपदी गत्वा भीमसेनं महानसे ।
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥ 34 ॥
तमुवाच सुकेशान्ता कीचकस्य कृतो मया ।
सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ॥ 35 ॥
कालेन नियतं बद्धः कामेन च बलात्कृतः ।
शून्यं स नर्तनागारमागमिष्यति कीचकः ।
एको निशि महाबाहो कीचकं तं निषूदय ॥ 36 ॥
तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम् ।
गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥ 37 ॥
गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते ।
स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ॥ 38 ॥
अस्रं दुःखाभिभूताया मम मार्जस्व भारत ।
बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम् ।
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥ 39 ॥
भीम उवाच ।
स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम् ।
नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ॥ 40 ॥
सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे ।
हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ॥ 41 ॥
सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते ।
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥ 42 ॥
प्रसह्य निहनिष्यामि केशवः केशिनं यथा ।
रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ॥ 43 ॥
अहं भद्रे हनिष्यामि कीचकं मदनान्वितम् ।
यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ॥ 44 ॥
अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम् ।
निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ॥ 45 ॥
मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति ।
दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम् ।
कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ॥ 46 ॥
नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम् ।
कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः ।
काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ॥ 47 ॥
त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम् ।
निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ॥ 48 ॥
द्रौपद्युवाच ।
कीचकस्य वधं भीम यदि जानन्ति नागराः ।
त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ॥ 49 ॥
कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो ।
निशि गूढं तथा भीम कीचकं तं निपातय ॥ 50 ॥
अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः ।
पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ॥ 51 ॥
कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत ।
भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ॥ 52 ॥
यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम् ।
तथा कुरुष्व कौरव्य बलवन्नरिमर्दन ।
अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ॥ 53 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥