अध्यायः 026
भीमेन कीचकागमनात्पूर्वमेव नर्तनागारमेत्य शय्यायां शयनम् ॥ 1 ॥ पश्चात्समागतेन कीचकेन भीमंप्रति द्रौपदी बुद्ध्या संस्पर्शनपूर्वकं संभाषणम् ॥ 2 ॥ भीमेन नियुद्धेन कीचकमारणम् ॥ 3 ॥ पश्चाद्द्रौपद्या समाह्वानादुपकीचकानां तत्र समागमनम् ॥ 4 ॥
भीम उवाच ।
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम् ॥ 1 ॥
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः ।
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥ 2 ॥
मया यदुक्तं पाञ्चालि धर्मराजसुतं प्रति ।
कोपादृते किमन्यत्तु नानुवर्तेत को नृपम् ॥ 3 ॥
वैशंपायन उवाच ।
एवमुक्तवा महाबाहुस्तत्र पाण्डवनन्दनः ।
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः ॥ 4 ॥
अवदातेन मृदुना पटेनाच्छादितस्तथा ।
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः ॥ 5 ॥
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत् ।
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥ 6 ॥
कीचकस्तु शिरःस्नातो निशायां समलंकृतः ।
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम् ॥ 7 ॥
तदेव नर्तनागारं पाञ्चाली यदभाषत ।
तां मन्यमानः संकेते सैरन्ध्रीं काममोहितः ॥ 8 ॥
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम् ।
पूर्वागतं भीमसेनं दृप्तमप्रतिमजसम् ॥ 9 ॥
शयानं शयने तत्र मृत्युं मूढः परामृशत् ।
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च ॥ 10 ॥
एकान्ते भीममासाद्य कीचकः कालचोदितः ।
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥ 11 ॥
प्रहितं ते मया भद्रे बहुवित्तं शुचिस्मिते ।
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता ॥ 12 ॥
अकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः ।
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान् ॥ 13 ॥
अहं रूपेण संपन्नः स्नातो गुरुविभूषितः ।
नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः ।
रूपस्य तन्मया प्राप्तं फलं कमललोचने ॥ 14 ॥
भीम उवाच ।
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि ॥ 15 ॥
त्वयाऽपीदृग्गुणा नारी रूपशीलसमन्विता ।
अदृष्टपूर्वा पश्य त्वं यतो जानासि सूतज ।
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्री गुणान्विता ॥ 16 ॥
उपरंस्यसि कामाच्च शीघ्रं त्वं स्प्रष्टुमर्हसि ।
ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥ 17 ॥
स्पर्शं वेत्सि विदग्धस्त्वं कामधर्मविचक्षणः ।
स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुषस्त्विह ॥ 18 ॥
वैशंपायन उवाच ।
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः ।
सहसोत्पत्य कौन्तेयः प्रहस्येदमुवाच ह ॥ 19 ॥
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि ।
द्रक्ष्यतेऽद्रिप्रतीकाशं सिंहेनेव महागजम् ॥ 20 ॥
निराबाधा त्वयि हते सैरन्ध्री विचरिष्यति ।
सुखमेव चरिष्यन्ति सैरन्ध्र्याः पतयः सदा ॥ 21 ॥
ततो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥ 22 ॥
गृहीत्वा कीचकं भीमो विरराज महाबलः ।
गृहीत्वा ग्रासकामस्तु सिंहः क्षुद्रमृगं यथा ॥ 23 ॥
स केशेषु परामृष्टो बलेन बलिनां वरः ।
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥ 24 ॥
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः ।
वसन्ते वासिताहेतोर्बलिनोर्नागयोरिव ॥ 25 ॥
कीचकानां तु मुख्यस्य नराणामुत्तमस्य च ।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ 26 ॥
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ ।
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ ॥ 27 ॥
गजाविव मदोन्मत्तौ नदन्तौ पतितौ क्षितौ ।
वृषभाविव वल्मीकं मृद्गन्तौ समविक्रमौ ॥ 28 ॥
ईषदागलितं चापि क्रोधाच्चावाङ्मुखं स्थितम् ।
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि ॥ 29 ॥
पातितो भीमसेनस्तु कीचकेन बलीयसा ।
उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥ 30 ॥
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ ।
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये ॥ 31 ॥
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम् ।
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः ॥ 32 ॥
तलाभ्यां भीमसेनेन वक्षस्यभिहतो बली ।
कीचको रोषरक्ताक्षो न चचाल पदात्पदम् ॥ 33 ॥
मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः ।
कीचको भीमसेनेन पश्चात्पश्चादहीयत ॥ 34 ॥
तं हीयमानं विज्ञाय भीमसेनो महाबलः ।
वक्षस्यानीय वेगेन प्रममाथ विचेतसम् ॥ 35 ॥
क्रोधाविष्टो विनिश्चस्य पुनश्चैनं वृकोदरः ।
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा ॥ 36 ॥
गृहीत्वा कीचकं भीमो विरराज महाबलः ।
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम् ॥ 37 ॥
पुनश्चातिबलस्तत्र कीचको बलदर्पितः ।
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन तरस्विना ॥ 38 ॥
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम् ।
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि ॥ 39 ॥
आस्ये पाणी च पादौ च शिरोग्रीवां सकुण्डलाम् ।
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः ॥ 40 ॥
स तं मथितसर्वाङ्गं मांसपिण्डमथाकरोत् ॥ 41 ॥
तत्राग्निं स्वयमुज्ज्वाल्य पाणिसंघर्षजं बली ।
कष्णायै दर्शयामास भीमसेनो महाबलः ॥ 42 ॥
उवाच च महातेजा द्रौपदीं योषितां वराम् ।
त्वयि कामुकमत्यन्तं पापिनं पारदारिकम् ।
पश्यैनमेहि पाञ्चालि कामुकोऽयं मया हतः ॥ 43 ॥
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम् ।
एवं स्वपन्ति ते भीरु शेतेऽयं कीचको यथा ।
यस्त्वामभ्यहनद्भद्रे पदा भूमौ निपात्य च ॥ 44 ॥
एवमुक्त्वा महाबाहुर्गन्धर्वेण हतं तदा ।
विज्ञापनार्थमन्येषां विरराम महाहवम् ॥ 45 ॥
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम् ।
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम् ॥ 46 ॥
स्नात्वाऽनुलेपनं कृत्वा व्यापूर्य च मनोरथम् ।
सुखोपविष्टः शयने भीमो भीमपराक्रमः ॥ 47 ॥
ततः कृष्णा यदा मेने गतं भीमं महानसम् ।
कीचकं घातयित्वा च द्रौपदी योषितां वरा ।
प्रहृष्टा गतसंत्रासा सभापालानुवाच ह ॥ 48 ॥
कीचको निहतः शेते गन्धर्वैः पतिभिर्मम ।
परस्त्रीकामसंतप्तं समागच्छन्त पश्यत ॥ 49 ॥
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः ।
सहसैव समुत्तस्थुरुल्कामादाय सर्वशः ॥ 50 ॥
तस्यास्तं निहतं श्रुत्वा कीचकस्य सहोदराः ।
ततो गत्वा तु तद्वेश्म कीचकं विनिपातितम् ।
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥ 51 ॥
पार्ष्णिपामिशिरोहीनं दृष्ट्वा ते विस्मिताऽभवन् ॥ 52 ॥
क्वास्य ग्रीवा क्व चरमौ क्व पामी क्व शिरः क्व दृक् ।
इति स्म ते परीक्षन्ते गन्धर्वेण हतं तदा ॥ 53 ॥
अमानुषं कृतं कर्म तं दृष्ट्वा विनिपातितम् ।
निरीक्षन्ते ततः सर्वे परं विस्मयमागताः ॥ 54 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥