अध्यायः 037
दुर्योधनेन भीष्मद्रोणादिभिः सह विराटनगरमेत्य उत्तरभागे गवां ग्रहणम् ॥ 1 ॥ गोपालेन केनचित्पुरमेत्योत्तरंप्रति कुरुभिर्गोग्रहणस्य निवेदनम् ॥ 2 ॥
वैशंपायन उवाच ।
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति ।
दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ॥ 1 ॥
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् ।
द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ॥ 2 ॥
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।
दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ॥ 3 ॥
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः ।
गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ 4 ॥
गवां शतसहस्राणि कुरवः कालयन्ति च ।
महता रथवंशेन परिगृह्य समन्ततः ॥ 5 ॥
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।
आरावः सुमहानासीत्संप्रहारे भयंकरे ॥ 6 ॥
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः ।
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ॥ 7 ॥
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः ।
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ 8 ॥
दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् ।
तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ 9 ॥
गवां शतसहस्राणि कुरबः कालयन्ति ते ।
प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ॥ 10 ॥
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ 11 ॥
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः ।
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ 12 ॥
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः ।
समर्थः समरे योद्धुं कौरवैः सह तादृशै ॥ 13 ॥
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ।
जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ॥ 14 ॥
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा ।
निर्दर्हषामनीकानि भीमेन शरतेजसा ॥ 15 ॥
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः ।
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ 16 ॥
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ 17 ॥
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते ।
श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः ।
ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ॥ 18 ॥
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया ।
छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ॥ 19 ॥
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।
यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ॥ 20 ॥
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः ।
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ 21 ॥
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः ।
एवमेव गतिर्नूनं भवान्विपयवासिनाम् ॥ 22 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥
4-37-17 पाशोपधानां पाशौ मौर्वीप्रान्तद्वयगतौ तावेव उपाधाने वीणायां तन्त्रीसंधानार्थं कीलविशेषौ यस्यां सा ताम् । शरवर्णां शरास्ततो निःसरन्तस्त एव वर्णाः शब्दवत्त्वसामान्यात्स्वरस्पर्शादयो यस्याम् ॥ 17 ॥