अध्यायः 054

सञ्जयेन पाण्डवेषु जयसाधनसामग्रीमभिधाय तेषु धार्तराष्ट्रकृतापकारनुस्मारणपूर्वकं धृतराष्ट्रगर्हणम् ॥ 1 ॥

सञ्जय उवाच ।
एवमेतन्महाराज यथावदसि भारत ।
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ॥
इदं तु नाभिजानामि तव धीरस्य नित्यशः ।
यत्पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः ॥
नैष कालो महाराज तव शश्वत्कृतागसः ।
त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् ।
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् ।
द्यूतकाले महाराज स्मरसे स्म कुमारवत् ॥
परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे ।
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः ।
अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः ॥
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता ।
मयेदं कृतमित्येव मन्यसे राजसत्तम ॥
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि ।
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् ।
पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः ॥
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् ।
अप्यर्णवा विशुष्येयुः किं पुनर्मासयोनयः ॥
अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् । केशवः सर्वभूतानामायुधानां सुदर्शनम् ।
वानरो रोचमानश्च केतुः केतुमतां वरः ॥
एवमेतानि स रथो वहते सह यो रणे ।
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ॥
तस्याद्य वसुधा राजन्निखिला भरतर्षभ ।
यस्य भीमार्जिनौ योधौ स राजा राजसत्तम ॥
तथा भीमहतप्रायां मञ्जन्तीं तव वाहिनीम् ।
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥
न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो ।
तव पुत्रा महाराज राजानश्चानुसारिणः ॥
मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः ।
साल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ॥
पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ।
भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते ॥
अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा ।
योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनापि वै ॥
सर्वोपायैर्नियन्तव्यः सानुगः पापपुरुषः ।
तव पुत्रो महाराज नानुशोचितुमर्हसि ॥
अपरोहं महाराज साक्षाच्चैनं ब्रवीम्यहम् ।
द्यूतकाले मया चोक्तं विदुरेण च धीमता ॥
यदिदं ते विलपितं पाण्डवान्प्रति भारत ।
अनीशेनैव राजेन्द्र सर्वमेतन्निरर्थकम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि चतुःपञ्चाशोऽध्यायः ॥

5-54-3 एष कालः कलनावुद्धिस्तव नैव स्थास्यति ॥ 3 ।