अध्यायः 065
धृतराष्ट्रेण दुर्योधनंप्रति अर्जुनस्य श्रीकृष्णपरमप्रेमास्पदतया दुर्जयत्वभिधानपूर्वकं पाण्डवैः सह सन्धिविधानम् ॥ 1 ॥
धृतराष्ट्र उवाच ।
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ॥
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि ।
पञ्चानामिव भूतानां महतां लोकधारिणाम् ॥
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् ।
परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि ॥
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले ।
रणान्तकं तर्जयसे महावातमिव द्रुमः ॥
सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव ।
युधि गाण्डिवधन्वानं को नु युध्येत बुद्धिमान् ॥
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् ।
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ॥
सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु ।
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ॥
यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते ।
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान् ॥
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः ।
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ॥
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ॥
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् ।
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ॥
मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् ।
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ॥
एते ह्यपि यतैवाहं मन्तुमर्हसि तांस्तथा ।
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ॥
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः ।
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ॥
यच्चैव नगरे तस्मिञ्श्रूयते महदद्भुतम् ।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते ।
स भ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चषष्टितमोऽध्यायः ॥
5-65-1 उत्पथं अमार्गमेव मार्गं त्वन्यसे ॥ 5-65-6 न शातयेत् न छिन्द्यात् ॥ 5-65-8 प्रतिमानेन तुल्यत्वेन ॥ 5-65-11 भीष्मं तितिक्षस्य तद्वाक्यं गृहाणेत्यर्थः ॥ 5-65-16 वृत्त्या राज्यार्धदानेन प्रतिपादय संभावय ॥