अध्यायः 067

सञ्जयेन धृतराष्ट्रंप्रति सारभूतात्सर्वस्मादपि श्रीकृष्णस्य सारतरत्वकथनम् ॥ 1 ॥

सञ्जय उवाच ।
अर्जुनो वासुदेवश्च धन्विनौ परमार्थितौ ।
कामादन्यत्र संभूतौ सर्वभावाय संमितौ ॥
व्यामान्तरं समास्थय यथामुक्तं मनस्विनः ।
चक्रं तद्वासुदेवस्य मायया वर्तते विभो ॥
सापह्नवं कौरवेषु पाण्डवानां सुसंमतम् ।
सारासारबलं ज्ञातुं तेजःपुञ्जावभासितम् ॥
नरकं शम्बरं चैव कंसं चैद्यं च माधवः ।
जितवान्घोरसङ्काशान्क्रीडन्निव महाबलः ॥
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः ।
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ॥
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति ।
सारासारबलं ज्ञातुं तत्समासेन मे शृणु ॥
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः ।
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ॥
भस्म कुर्याञ्जगदिदं मनसैव जनार्दनः ।
न तु कृत्स्नं जगच्छक्तं किञ्चित्कर्तुं जनार्दने ॥
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः ।
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ॥
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः ।
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ॥
स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव ।
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ॥
कालचक्रं जगच्चक्रं युगचक्रं च केशवः ।
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ॥
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च ।
ईष्टे हि भगवानेकः सत्यमेतद्ब्रवीमि ते ॥
ईशन्नपि महायोगी सर्वस्य जगतो हरिः ।
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥
तेन वञ्चयते लोकान्मायायोगेन केशवः ।
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्तषष्टितमोऽध्यायः ॥

5-67-2 व्यामान्तरं प्रसारितयोर्हस्तयोर्यावान्विस्तारः पञ्चहस्तमितः तावत् अन्तरं मध्यप्रमाणं यस्य तद्व्यामान्तरम् । यथामुक्तं यथा यथारूपं यावत्प्रमाणं चिन्तितं तावत्प्रमाणं भूत्वा यत् मुक्तं भवति । मायया दुर्लक्ष्यरूपेणेत्यर्थः ॥ 5-67-3 सापह्नवं ससंहारम् । अत एव पाण्डवानां सुसंमतम् ॥ 5-67-11 सत्रं व्याजम् । सत्रमाच्छादने यज्ञे सदादाने च कैतवे इति विश्वः ॥ 5-67-14 ईसन्नपि ईशानोपि । कीनाश कर्षकः ॥