अध्यायः 068
भगवद्वेदनसाधनं पृष्टेन सञ्जयेन धृतराष्ट्रंप्रति तत्कथनम् ॥ 1 ॥ श्रीव्यासेन धृतराष्ट्रंप्रति सञ्जयाद्भगद्वेदनाभ्यनुज्ञा ॥ 2 ॥
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् ।
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
श्रृणु राजन्न ते विद्या मम विद्या न हीयते ।
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ॥
विद्यया तात जानामि त्रियुगं मधुसूदनम् ।
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ॥
धृतराष्ट्र उवाच ।
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने ।
यया त्वमभिजानासि त्रियुगं मधुसूदनम् ॥
सञ्जय उवाच ।
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे ।
शुद्धभावं गतो भक्त्या शास्त्रद्वेद्मि जनार्दनम् ॥
धृतराष्ट्र उवाच ।
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् ।
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ॥
दुर्योधन उवाच ।
भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति ।
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ॥
धृतराष्ट्र उवाच ।
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः ।
ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः ॥
गान्धार्युवाच ।
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग ।
ऐश्वर्यजीतिते हित्वा पितरं मां च बालिश ॥
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् ।
निहतो भीमसेनेन स्मर्ताति वचनं पितुः ॥
व्यास उवाच ।
प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे ।
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ॥
जानात्येष हृषीकेशं पुराणं यच्च वै परम् ।
शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात् ॥
वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः ।
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ॥
यमस्य वशमायान्ति काममूढाः पुनः पुनः ।
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ॥
एष एकायनः पन्था येन यान्ति मनीषिणः ।
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सञ्जति ॥
धृतराष्ट्र उवाच ।
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम् ।
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम् ॥
सञ्जय उवाच ।
नाकृतात्मा कृतात्मानं जातु विद्याञ्जनार्दनम् ।
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ॥
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः ।
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ॥
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः ।
बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः ॥
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् ।
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ॥
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः ।
आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टषष्टितमोऽध्यायः ॥
5-68-4 भक्तिः आराध्यत्वेन ज्ञानं एच्च कीदृशम् ॥ 5-68-5
वृथाधर्मं भगवदर्पणं विना न चरामि । शुद्धभावं मनसः कामक्रोधादिराहित्येन
नैर्मल्यम् ॥ 5-68-12 ऐकाग्र्यं शुश्रूषमाणं सेवमानं त्वां मोक्ष्यते
मोचयिष्यति ॥ 5-68-13 सिताः बद्धाः । पाशैः कामादिभिः ॥ 5-68-14 अन्धनेत्रा
अन्धश्चासौ नेता च तेन ॥ 5-68-17 आत्मनः स्वस्य इन्द्रियनिग्रहादन्यत्र
इन्द्रियनिग्रहंविना क्रियायागादिरूपा उपायः प्राप्त्युपायो नास्ति ॥ 5-68-21
योगात् चित्तवृत्तिनिरोधात् । वशी ईश्वरः । तत्त्वे स्वयाथात्म्ये विषये ।
प्रसीदति ज्ञानदानेन अनुगृह्णाति ॥