अध्यायः 072
श्रीकृष्णेन युधिष्ठिरंप्रति युद्धपक्षस्थिरीकरणपूर्वकं
लोकसंशयनिरासाय शमार्थं प्रयतनकथनम् ॥ 1 ॥
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया ।
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः ।
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥
न चैवं नैष्ठिकं कर्म क्षत्रियस्य विशांपते ।
आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत् ॥
जयो वधो वा सङ्ग्रामे धात्राऽऽदिष्टः सनातनः ।
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशत्यते ॥
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर ।
विक्रमस्व महाबाहो जहि शत्रून्परन्तप ॥
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः ।
कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप ॥
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशांपते ।
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि ।
तावदेते हरिष्यन्ति तव राज्यमरिन्दम ॥
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् ।
अलं कर्तुं धार्तराष्ट्रस्तव काममरिन्दम ॥
एतदेव निमित्तं ते धार्तराष्ट्रो यथा त्वयि ।
नान्वतप्यत कोपेन तव कृत्वाऽपि दुष्करम् ॥
पितामहस्य द्रोणस्य विदुरस्य च धीमतः ।
ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च ॥
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ।
दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम् ॥
यत्त्वामुपधिना राजन्द्यूते वञ्चितवांस्तदा ।
न चापत्रपते तेन नृशंसः स्वेन कर्मणा ॥
तथाशीलसमाचरे राजन्मा प्रणयं कृथाः ।
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥
वाग्भिस्त्वप्रतिरूपाभिरतुदत्त्वां सहानुजम् ।
श्लाघमानः प्रहृष्टः सन्भ्रातृभिः सह भाषते ॥
एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् ।
नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥
कालेन महता चैषां भविष्यति पराभवः ।
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि ॥
दुःशासनेन पापेन तदा द्यूते प्रवर्तिते ।
अनाथवत्तदा देवी द्रौपदी सुदुरात्मना ॥
आकृष्य केशे रुदती सभायां राजसंसदि ।
भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः ॥
भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः ।
धर्मपाशनिबद्धाश्च न किंचित्प्रतिपेदिरे ॥
एताश्चान्याश्च परुषा वाचः स समुदीरयन् ।
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् ।
अश्रुकण्ठा रुदन्तश्च सभायामासते सदा ॥
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह ।
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥
कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन ।
महागुणो वधो राजन्नु तु निन्दा कुजीविका ॥
तदैव निहतो राजन्यदैव निरपत्रपः ।
निन्दितश्च महाराज पृथिव्यां सर्वराजभिः ॥
ईषत्करो वधस्तस्य यस्य चारित्रमीदृशम् ।
प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः ।
जह्येन त्वममित्रघ्न मा राजन्विचिकित्सिथाः ॥
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ ।
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् ।
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ॥
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् ।
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् ।
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥
त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति ।
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि ।
वृद्धबालानुपादाय चातुर्वर्ण्ये समागते ॥
शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे ।
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥
तस्मिंल्लोकपरित्यक्ते किं कार्यमवशिष्यते ।
हते दुर्योधने राजन्यदन्यत्क्रियतामिति ॥
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् ।
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् ।
निशम्य विनिवर्तिष्ये जयाय तव भारत ॥
सर्वथा युद्धमेवाहमाशंसापि परैः सह ।
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ॥
मृगाः शकुन्ताश्च वदन्ति घोरं
हस्त्यश्वमुख्येषु निशामुखेषु ।
घोराणि रूपाणि तथैव चाग्नि-
र्वर्णान्बहून्पुष्यति घोररूपान् ॥
मनुष्यलोकक्षयकृत्सुघोरो
नो चेदनुप्राप्त इहान्तकः स्यात् ।
शस्त्राणि यन्त्रं कवचान्रथांश्च
नागान्हयांश्च प्रतिपादयित्वा ॥
योधाश्च सर्वे कृतनिश्चयास्ते
भवन्तु हस्त्यश्वरथेषु यत्ताः ।
साङ््ग्रामिकं ते यदुपार्जनीयं
सर्वं समग्रं कुरु तन्नरेन्द्र ॥
दुर्योधनो न ह्यलमद्य दातुं
जीवंस्तवैतन्नृपते कथंचित् ।
यत्ते पुरस्तादभवत्समृद्धं
द्यूते हृतं पाण्डवमुख्य राज्यम् ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्विसप्ततितमोऽध्यायः ॥
5-72-3 नैष्ठिकं कर्म यावज्जीवं ब्रह्मचर्यं पारिव्राज्यं च ।
विहितमिति शेषः ॥ 5-72-4 कार्पण्यं ग्रामपञ्चकं देहीति दीनवचनम् ॥ 5-72-5
वृत्तिः जीविका कर्तुमिति शेषः ॥ 5-72-6 अतिगृद्धाः अत्यन्तलुब्धाः ॥ 5-72-7
पर्याय उपायः । यद्येन बलवत्तां स्वस्येति शेषः ॥ 5-72-9 अनुक्रोशात् भवत्सु
कृपातः । कार्पण्यात् स्वस्य दैन्यात् । अलं कर्तुं पूर्णं कर्तुं न समर्थाः ॥ 5-72-10 निमित्तं अशमे कारणम् ॥ 5-72-17 प्रकृतिं पञ्चताम् । मयि मत्समीपे
नष्टा प्रकृतिः शौर्यादिरूपः स्वभावो येषाम् ॥ 5-72-19 गौरिव
सर्वभोज्येत्युपहासो गौर्गौरिति ॥ 5-72-26 प्रस्कृन्देन चक्राकारया वेदिकया ॥ 5-72-29 द्विधाभावः अयं साधुरसाधुर्वेति संशयः ॥ 5-72-30 प्रातिपौरुषिकान्
सर्वपुरुषसाधारणान् ॥ 5-72-35 हते निन्द्यतया नष्टप्राये ॥ 5-72-36 यात्वा
गत्वा ॥ 5-72-37 निशम्य आलोच्य ॥ 5-72-40 तर्हि एतन्न स्यादिति शेषः ।
प्रतिपादयित्वा सञ्जीकृत्य ॥