अध्यायः 123

स्वर्गे ययातिप्रश्नानुरोधेन पितामहेन तत्पतनकारणकथनम् ॥ 1 ॥ नारदेन ययात्युपाख्यानोपसंहारपूर्वकं दुर्योधनंप्रति गालवययातिदृष्टान्तप्रदर्शनेन निर्बन्धाभिमानत्यागपूर्वकं पाण्डवैः सन्धिकरणविधानम् ॥ 2 ॥

नारद उवाच ।
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः ।
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ॥
अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना ।
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ॥
अचलं स्थानमासाद्य दौहित्रफलनिर्जितम् ।
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ॥
उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः ।
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः ॥
अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः ।
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ॥
प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः ।
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ॥
चतुष्पादस्त्वया धर्मश्रितो लोक्येन कर्मणा ।
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ॥
पुनस्त्वयैव राजर्षे स्वकृतेन विघातितम् ।
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् ॥
येन त्वां नाभिजानन्ति ततोऽज्ञातोसि पातितः ।
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः ॥
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ।
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ॥
ययातिरुवाच ।
भगवन्संशयो मेऽस्ति कश्चितं छेत्तुमर्हसि ।
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ॥
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।
अनेकक्रतुदानौघैरार्जितं मे महत्फलम् ॥
कथं तदल्पकालेन क्षीणं येनास्मि पातितः । भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्मितान् ।
कथं नु मम तत्सर्वं विप्रनष्टं महाद्युते ॥
पितामह उवाच ।
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् ।
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ॥
तदनेनैव दोषेण क्षीणं येनासि पातितः ।
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ॥
नायं मानेन राजर्षे न बलेन न हिंसया ।
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ॥
नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः ।
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित् ॥
पतनारोहणमिदं कथयिष्यन्ति ये नराः ।
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ॥
नारद उवाच ।
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना ।
निर्बध्नताऽतिमात्रं च गालवेन महीपते ॥
श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम् ।
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ॥
तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय ।
सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ॥
स भवान्सुहृदां पथ्यं वचो गृह्णातु माऽनृतम् ।
समर्थैर्विग्रहं कृत्वा विषमस्थो भविष्यसि ॥
ददाति यत्पार्थिव यत्करति यद्वा तपस्तप्यति यञ्जुहोति ।
न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता ॥
इदं महाख्यानमनुत्तमं हितं बहुश्रुतानां गतरोषरागिणाम् ।
समीक्ष्य लोके बहुधा प्रधारितं त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ॥
` एतत्पुण्यतमं राजन्ययातेश्चरितं महत् । यच्छ्रुत्वा श्रावयित्वा च स्वर्गं यान्तीह मानवाः ॥' ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥

5-123-8 स्वकृतेन सम्यक्संपादितेन कर्मणा । मया समोऽन्यो नास्तीति वाक्प्रयोगेण । तमसा क्रोधेन ॥ 5-123-24 प्रधारितं निश्चितम् ॥