अध्यायः 160

दुर्योधनेन पृथक्पृथग्युधिष्ठिरादीन्प्रति वक्तव्यसन्देशकथनपूर्वकमुलूकस्य पाण्डवान्प्रति दूत्येन प्रेषणम् ॥ 1 ॥

सञ्जय उवाच ।
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु ।
न्यविशन्त महाराज कौरवेया यथाविधि ॥
तत्र दुर्योधनो राजा निवेस्य बलमोजसा ।
संमानयित्वा नृपतीन्न्यस्य गुल्मांस्तथैव च ॥
आरक्षस्य विधिं कृत्वा योधानां तत्र भारत ।
कर्णं दुःशासनं चैव शकुनिं चापि सौबलम् ॥
आनाय्य नृपतिस्तत्र मन्त्रयामास भारत ।
तत्र दुर्योधनो राजा कर्णेन सह भारत ॥
सौबलेन च राजेन्द्र मन्त्रयित्वा नरर्षभ ।
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ॥
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् ।
गत्वा मम वचो ब्रूहि वासुदेवस्य श्रृण्वतः ॥
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् ।
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् ॥
यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत् ।
वासुदेवसहायस्य गर्जतः सानुजस्य ते ॥
मध्ये करूणां कौन्तेय तस्य कालोयमागतः ।
यथावत्संप्रतिज्ञातं तत्सर्वं क्रियतामिति ॥
ज्येष्ठं तथैव कौन्तेयं ब्रूयास्त्यं वचनान्मम ॥
भ्रातृभिः सहितः सर्वैः सोमकैश्च सकेकयैः । कथं वा धार्मिको भूत्वा त्वमधर्मे मनः कृथाः ।
य इच्छसि जगत्सर्वं नश्यमानं नृशंसवत् ॥
अभयं सर्वभूतेभ्यो पाता त्वमिति मे मतिः ॥
श्रूयते हि पुरा गीतः श्लोकोऽयं भरतर्षभ ।
प्रह्लादेनाथ भद्रं ते हृते राज्ये तु दैवतैः ॥
यस्य धर्मध्वजो नित्यं सुरा ध्वज इवोच्छ्रितः ।
प्रच्छन्नानि च पापानि बैडालं नाम तद्ब्रतम् ॥
अत्र ते वर्तयिष्यामि आख्यानमिदमुत्तमम् ।
कथितं नारदेनेह पितुर्मम नराधिप ॥
मार्जारः किल दुष्टात्मा निश्चेष्टः सर्वकर्मसु ।
ऊर्ध्वबाहुः स्थितो राजन् गङ्गातीर कदाचन ॥
स वै कृत्वा मनःशुद्धिं प्रत्ययार्थं शरीरिणाम् ।
करोमि धर्ममित्याह सर्वानेव शरीरिणः ॥
तस्य कालेन महता विस्त्रम्यं जग्मुरण्डजाः ।
समेत्य च प्रशंसन्ति मार्जारं तं विशांपते ॥
पूज्यमानस्तु तैः सर्वैः पक्षिभिः पक्षिभोजनः ।
आत्मकार्यं कृतं मेने चार्यायाश्च कृतं फलम् ॥
अथ दीर्घस्य कालस्य तं देशं मूषिका ययुः ।
ददृशुस्तं च ते तत्र धार्मिकं व्रतचारिणम् ॥
कार्येण महता युक्तं दम्भयुक्तेन भारत ।
तेषां मतिरियं राजन्नासीत्तत्र विनिश्चये ॥
बहुमित्रा वयं सर्वे तेषां नो मातुलो ह्ययम् ।
रक्षां करोतु सततं वृद्धबालस्य सर्वशः ॥
उपगम्य तु ते सर्वे बिडालमिदमब्रुवन् ।
भवत्प्रसादादिच्छामश्चर्तुं चैव यथासुखम् ॥
भवान्नो गतिरव्यग्रा भवान्नः परमः सुहृत् ।
ते वयं सहिताः सर्वे भवन्तं शरणं गताः ॥
भवान्धर्मपरो नित्यं भवान्धर्मे व्यवस्थितः ।
स नो रक्ष महाप्रज्ञ त्रिदशानिव वज्रभृत् ॥
एवमुक्तस्तु तैः सर्वैर्मूषिकैः स विशांपते ।
प्रत्युवाच ततः सर्वान्मूषिकान्मूषिकान्तकृत् ॥
द्वयोर्योगं न पश्यामि तपसो रक्षणस्य च ।
अवश्यं तु मया कार्यं वचनं भवतां हितम् ॥
युष्माभिरपि कर्तव्यं वचनं मम नित्यशः ।
तपसास्मि परिश्रान्तो दृढं नियमामास्थितः ॥
न चापि गमने शक्तिं कांचित्पश्यामि चिन्तयन् ।
सोस्मि नेयः सदा ताता नदीकूलमितःपरम् ॥
तथेति तं प्रतिज्ञाय मूषिका भरतर्षभ ।
वृद्धबालमथो सर्वं मार्जाराय न्यवेदयन् ॥
ततः स पापो दुष्टात्मा मूषिकानथ भक्षयन् ।
पीवरश्च सुवर्णश्च दृढबन्धश्च जायते ॥
मूषिकाणां गणश्चात्र भृशं संक्षीयतेऽथ सः ।
मार्जारो वर्धते चापि तेजोबलसमन्वितः ॥
ततस्ते मूषिकाः सर्वे समेत्यान्योन्यमब्रुवन् ।
मातुलो वर्धते नित्यं वयं क्षीयामहे भृशम् ॥
ततः प्राज्ञतमः कश्चिड्डिण्डिको नाम मूषिकः ।
अब्रवीद्वचनं राजन्मूषिकाणां महागणम् ॥
गच्छतां वो नदीतीरं सहितानां विशेषतः ।
पृष्ठतोऽहं गमिष्यामि सहैव मातुलेन तु ॥
साधु साध्विति ते सर्वे पूजयाञ्चक्रिरे तदा ।
चक्रुश्चैव यथान्यायं डिण्डिकस्य वचोऽर्थवत् ॥
अविज्ञानात्ततः सोऽथ डिण्डिकं ह्युपभुक्तवान् ।
ततस्ते सहिताः सर्वे मन्त्रयामासुरञ्जसा ॥
तत्र वृद्धतमः कश्चित्कोलिको नाम मूषिकः ।
अब्रवीद्वचनं राजञ्ज्ञातिमध्ये यथातथम् ॥
न मातुलो धर्मकामश्छद्ममात्रं कृता शिखा ।
न मूलफलभक्षस्य विष्ठा भवति लोमशा ॥
अस्य गात्राणि वर्धन्ते गणश्च परिहीयते ।
अद्य सप्ताष्टदिवसान्डिण्डिकोपि न दृश्यते ॥
एतच्छ्रुत्वा वचः सर्वे मूषिका विप्रदुद्रुवुः ।
बिडालोपि स दुष्टात्मा जगामैव यथागतम् ॥
तथा त्वमपि दुष्टात्मन्बैडालं व्रतमास्थितः ।
चरसि ज्ञातिषु सदा बिडालोमूषिकेष्विव ॥
अन्यथा किल ते वाक्यमन्यथा कर्म दृश्यते ।
दम्भनार्थाय लोकस्य वेदाश्चोपशमश्च ते ॥
त्यक्त्वा छद्म त्विदं राजन्क्षत्रधर्मं समाश्रितः ।
कुरु कार्याणि सर्वाणि धर्मिष्ठोऽसि नरर्षभ ॥
बाहुवीर्येण पृथिवीं लब्ध्वा भरतसत्तम ।
देहि दानं द्विजातिभ्यः पितृभ्यश्चयथोचितम् ॥
क्लिष्टाया वर्षपूगांश्च मातुर्मातृहिते स्थितः ।
प्रमार्जाश्रु रणे जित्वा संमानं परमावह ॥
पञ्चग्रामा वृता यत्नात्रास्माभिरपवर्जिताः ।
युध्यामहे कथं सङ्ख्ये कोपयेम च पाण्डवान् ॥
त्वत्कृते दुष्टभावस्य संत्यागो विदुरस्य च ।
जातुषे च गृहे दाहं स्मर तं पुरुषो भव ॥
यच्च कृष्णमवोचस्त्वमायान्तं कुरुसंसदि ।
अयमस्मि स्थितो राजञ्शमायसमराय च ॥
तस्यायमागतः कालः समरस्य नराधिप ।
एतदर्थं मया सर्वं कृतमेतद्युधिष्ठिर ॥
किं नु युद्धात्परं लाभं क्षत्रियो बहु मन्यते ।
किंच त्वं क्षत्रियकुले जातः संप्रथितो भुवि ॥
द्रोणादस्त्राणि संप्राप्य कृपाच्च भरतर्षभ ।
तुल्ययोनौ समबले वासुदेवं समाश्रितः ॥
ब्रूयास्त्वं वासुदेवं च पाण्डवानां समीपतः ।
आत्मार्थं पाण्डवार्थं च यत्तो मां प्रतियोधय ॥
सभामध्ये च यद्रूपं मायया कृतवानसि ।
तत्तथैव पुनः कृत्वा सार्जुनो मामभिद्रव ॥
इन्द्रजालं च मायां वै कुहका वापि भीषणा ।
आत्तशस्त्रस्य सङ्ग्रमे वहन्ति प्रतिगर्जनाः ॥
वयमप्युत्सहेम द्यां खं च गच्छेम मायया ।
रसातलं विशामोपि ऐन्द्रं वा पुरमेव तु ॥
दर्शयेम च रूपाणि स्वशरीरे बहून्यपि ।
न तु पर्यायतः सिद्धिर्बुद्धिमाप्नोति मानुषीम् ॥
मनसैव हि भूतानि धातैव कुरुते वशे ।
यद्ब्रवीषि च वार्ष्णेय धार्तराष्ट्रानहं रणे ॥
घातयित्वा प्रदास्यामि पार्थेभ्यो राज्यमुत्तमम् । आचचक्षे च मे सर्वं सञ्जयस्तव भाषितम् ।
मद्द्वितीयेन पार्थेन वैरं वः सव्यसाचिना ॥
स सत्यसङ्गरो भूत्वा पाण्डवार्थे पराक्रमी ।
युद्ध्यस्वाद्य रणे यत्तः पश्यामः पुरुषो भव ॥
यस्तु शत्रुमभिज्ञाय शुद्धं पौरुषमास्थितः ।
करोति द्विषतां शोकं स जीवति सुजीवितम् ॥
अकस्माच्चैव ते कृष्ण ख्यातं लोके महद्यशः ।
अद्येदानीं विजानीमः सन्ति षण्डाः शश्रृङ्गकाः ॥
मद्विधो नापि नृपतिस्त्वयि युक्तः कथंचन ।
सन्नाहं संयुगे कर्तुं कंसभृत्ये विशेषतः ॥
तं च तूबरकं बालं बह्वाशिनमविद्यकम् ।
उलूक मद्वचो ब्रूहि असकृद्भीमसेनकम् ॥
विराटनगरे पार्थ यस्त्वं सूदो ह्यभूः पुरा ।
बल्लवो नाम विख्यातस्तन्ममैव हि पौरुषम् ॥
प्रतिज्ञातं सभामध्ये न तन्मिथ्या त्वया पुरा ।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥
यद्ब्रवीषि च कौन्तेय धार्तराष्ट्रानहं रणे ।
निहनिष्यामि तरसा तस्य कालोऽयमागतः ॥
त्वं हि भोज्ये पुरस्कार्यो भक्ष्ये पेये च भारत ।
क्व युद्धं क्व च भोक्तव्यं युध्यस्व पुरुषो भव ॥
शयिष्यसे हतो भूमौ गदामालिङ्ग्य भारत ।
तद्वृथा च सभामध्ये वल्गितं ते वृकोदर ॥
उलूक नकुलं ब्रूहि वचनान्मम भारत ।
युध्द्यस्वाद्य स्थिरो भूत्वा पश्यामस्तव पौरुषम् ॥
युधिष्ठिरानुरागं च द्वेषं च मयि भारत ।
कृष्णायाश्च परिक्लेशं स्मरेदानीं यथातथम् ॥
ब्रूयास्त्वं सहदेवं च राजमध्ये वचो मम ।
युद्ध्येदानीं रणे यत्तः क्लेशान्स्मर च पाण्डव ॥
विराटद्रुपदौ चोभौ ब्रूयास्त्वं वचनान्मम । न दृष्टपूर्वा भर्तारो भृत्यैरपि महागुणैः ।
तथार्थपतिभिर्भृत्या यतः सृष्टाः प्रजास्ततः ॥
अश्लाघ्योऽयं नरपतिर्युवयोरिति चागतम् ॥
ते यूयं संहता भूत्वा तद्वधार्थं ममापि च ।
आत्मार्थं पाण्डवार्थं च प्रयुद्ध्यध्वं मया सह ॥
धृष्टद्युम्नं च पाञ्चाल्यं ब्रूयास्त्वं वचनान्मम ।
एष ते समयः प्राप्तो लब्धव्यश्च त्वयापि सः ॥
द्रोणमासाद्य समरे ज्ञास्यसे हितमुत्तमम् ।
युद्ध्यस्व समुहृत्पापं कुरु कर्म सुदुष्करम् ॥
शिखण्डिनमथो ब्रूहि उलूक वचनान्मम ।
स्त्रीति मत्वा महाबाहुर्न हनिष्यति कौरवः ॥
गाङ्गेयो धन्विनां श्रेष्ठो युद्ध्येदानीं सुनिर्भयः ।
कुरु कर्म रणे यत्तः पश्यामः पौरुषं तव ॥
एवमुक्त्वा ततो राजा प्रहस्योलूकमब्रवीत् ।
धनञ्जयं पुनर्ब्रूहि वासुदेवस्य श्रृण्वतः ॥
अस्मान्वा त्वं पराजित्य प्रसाधि पृतिवीमिमाम् ।
अथवा निर्जितोस्माभी रणे वीर शयिष्यसि ॥
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव ।
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥
यदर्थं क्षत्रिया सूते सर्वं तदिदमागतम् ।
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ॥
पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् । परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च ।
हृदयं कस्य न स्फोटेदैश्वर्याद्धंशितस्य च ॥
कुले जातस्य शूरस्य परिवित्तेष्वगृध्यतः ।
आस्थितं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ॥
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् ।
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥
अमित्राणां वशे स्थानं राज्यं च पुनरुद्धर ।
द्वावर्थौ युद्धकामस्य तस्मात्तत्कुरु पौरुषम् ॥
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।
शक्योऽमर्षो मनुष्येण कर्तु पुरुषमानिना ॥
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः ।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥
राष्ट्रान्निर्वासनक्लेशं वनवासं च पाण्डव ।
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ॥
अप्रियाणां च वचनं प्रब्रुवत्सु पुनः पुनः ।
अमर्षं दर्शयस्व त्वममर्षो ह्येव पौरुषम् ॥
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् ।
इह ते दृश्यतां पार्थ युद्ध्यस्व पुरुषो भव ॥
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् ।
पुष्टास्तेऽश्वा भृता योधाः श्वो युद्ध्यस्व सकेशवः ॥
असमागम्य भीष्मेण संयुगे किं विकत्थसे ।
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥
एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव ।
सूतपुत्रं सुदुर्धर्षं शल्यं च बलिनां वरम् ॥
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि ।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः ।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा ।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।
युगं वा रिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥
को ह्यस्ति जीविताकाङ्क्षी पराप्येममरिमर्दनम् ।
पार्थो वा इतरो वापि कोन्यः स्वस्ति गृहान्व्रजेत् ॥
कथमाभ्यामभिध्यातः संस्पृष्टो दारुणेन वा ।
रणे जीवन्प्रमुच्येत पदा भूमिपुमस्पृशन् ॥
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम् ।
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै- रुदीच्यकाम्भोजशकैः खशैश्च ।
साल्वैः समत्स्यैः कुरुमध्यदेश्यै- र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥
नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमपारणीयम् ।
मां च स्थितं नानाबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥
अक्षय्याविषुधी चैव अग्निदत्तं च ते रथम् ।
जानीमो हि रणे पार्थ केतुं दिव्यं च भारत ॥
अकत्थमानो युद्ध्यस्व कत्थसेऽर्जुन किं बहु ।
पर्यायात्सिद्धिरेतस्य नैतत्सिध्याति कत्थनात् ॥
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय ।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥
जनामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् ।
जानाम्यहं त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि ॥
न तु पर्यायधर्मेम सिद्धिं प्राप्नोति मानवः ।
मनसैवानुकूलानि धातैव कुरुते वशे ॥
त्रयोदशसमा भुक्तं राज्यं विलपतस्तव ।
भूयश्चैव प्रशासिष्ये त्वां निहत्य सबान्धवम् ॥
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः ।
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुन ॥
सगदाद्भीमसेनाद्वा फाल्गुनाद्वा सगाण्डिवात् ।
न वै मोक्षस्तदा यो भूद्विना कृष्णमनिन्दितां ॥
सा वो दास्ये समापन्नान्मोचयामास पार्षती ।
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ॥
अवोचं यत्षण्डतिलानहं वस्तथयमेव तत् ।
धृता हि वेमी पार्थेन विराटनगरे तदा ॥
सूदकर्मणि च श्रान्तं विराटस्य महानसे ।
भीमसेनेन कौन्तेय यत्तु तन्मम पौरुषम् ॥
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः ।
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ॥
न भयाद्वासुदेवस्य न चापि तव फल्गुन ।
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥
न माया हीन्द्रजालं वा कुहका वापि भीषणा ।
आत्तशस्त्रस्य सङ्ग्रामे वहन्ति प्रतिगर्जनाः ॥
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा ।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥
संयुगं गच्छ भीष्मेण भिन्धि वा शिरसा गिरिम् ।
तरस्व वा महागाधं बाहुभ्यां पुरुषोदधिम् ॥
शारद्वतमहामीनं विविंशतिमहोरगम् ।
बृहद्बलमहोद्वेलं सौमदत्तितिमिङ्गिलम् ॥
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरसदम् ।
कर्णशल्यझषावर्तं काम्भोजबडबामुखम् ॥
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् ।
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥
शश्त्रौघमक्षय्यमभिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः ।
भविष्यसि त्वं हतसर्वबान्धव- स्तदा मनस्ते परितापमेष्यति ॥
तदा मनस्ते त्रिदिवादिवाशुचे- र्निवर्तिता पार्थ महीप्रशासनात् ।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि षष्ट्यधिकशततमोऽध्यायः ॥

5-160-3 आरक्षस्य रक्षणीयस्य द्रव्यादेः विधिं रक्षाविधानम् ॥ 5-160-11 भ्रातृभिः सहितः कथमधर्मे मनः कृथा इति संबन्धः ॥ 5-160-14 भो सुरा इति देवान् प्रह्लादः सबोधयति । यस्य व्रतस्य धर्मध्वजो धर्मचिह्नं दर्भपवित्रपाणित्वादि । उच्छ्रितः सर्वलोकविदितः ॥ 5-160-17 मनःशुद्धिं हिंसातो निवृत्तिम् ॥ 5-160-18 विस्रम्भं विश्वासम् ॥ 5-160-39 शिखा जटाधारणमितियत् तच्छद्ममात्रम् ॥ 5-160-44 धर्मिष्ठोऽसीत्युपाहसः ॥ 5-160-55 कुहका कृत्या प्रतिगर्जनाः विपरीतान्कोपान् वहन्ति प्रापयन्ति नतु भयं जनयन्तीत्यर्थ गर्जनं निनदे कोपे इति मेदिनी ॥ 5-160-57 पर्यायतः पर्यायो भयप्रदर्शनादिरूपः प्रकारस्तेन सिद्धिः स्वस्य नतु भवति । तथा परोपि तेन बुद्धिं मानुषी भयात्मिकां न प्राप्नोति ॥ 5-160-62 सश्रृङ्गका शृङ्गं पुंस्त्वचिह्नं श्मश्रुलत्वलिङ्गवत्त्वादिकं तत्सहिताः षण्डाः निर्वीर्याः सन्ति । येषु तव शौर्यं प्रख्यातमिति भावः ॥ 5-160-64 तूबरकं अश्मश्रुपुरुषम् । अविद्यकं मूढम् ॥ 5-160-73 अर्थपतिभी राजभिः यतः कालात् तत आरम्भेत्यर्थः ॥ 5-160-74 मूढां यूयं मयि गुणवति स्वामिनि न संतुष्टाः स्थेति भावः ॥ 5-160-75 तत्तस्माद्धेतोर्मम वधार्थं च प्रयुध्द्यध्वमिति संबन्धः ॥ 5-160-77 पापं कर्म कुरुगुरुवाधाख्याम् । 5-160-85 राज्यमाक्रम्य मादृश इति शेषः । 5-160-87 स्थानं स्थितिम् । तत् स्थानराज्ययोरुद्धरणम् । पौरुषं पुरुषकर्म कुरु ॥ 5-160-89 धिष्ण्यात् गृहात् ॥ 5-160-93 लोहाभिसारः शस्त्राणां नीराजनादिकं तेषु मन्त्रेण देवतावाहनादिकं च ॥ 5-160-97 वेदयोः श्रुतिधनुर्वेदयोः । अन्तगं पारगम् ॥ 5-160-99 युगं कालचक्रम् ॥ 5-160-101 आभ्यां द्रोणभीष्माभ्यां अभिध्यातो हन्तव्यत्वेन निश्चितः ॥ 5-160-102 दुर्दुरो मण्डूकः ॥ 5-160-106 पर्यायात् युद्धप्रकारात् ॥ 5-160-109 पर्यायधर्मेम उपधर्मेण मायादिना । अथवा राजपुत्रोऽयं राज्यार्ह इति क्रमधर्मस्तेन न किंतु शौर्येणैव सिद्धिमाप्नोतीत्यर्थः । मनसा संकल्पेन धातैव कुरुते नतु मनुष्यः ॥ 5-160-113 अमानुष्यं नीचमनुष्यत्वम् । अल्पार्थोऽत्र नञ् ॥ 5-160-121 उद्वेलो वृद्धिः ॥ 5-160-125 निवर्तिता निवर्तिष्यति । बुभूषितः प्राप्तुमिष्टः ॥