अध्यायः 057

संकुलयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
ततो व्यूढेष्वनीकेषु तावकेषु परेषु च ।
धनञ्जयो रथानीकमवधीत्तव भारत ॥
शरैरथिरथो युद्धे दारयन्रथयूथपान् ।
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ॥
धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् ।
प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम् ॥
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।
बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे ॥
द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च ।
पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन ॥
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् ।
न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः ॥
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे ।
अवर्तत तदा युद्धं तत्र तत्र विशांपते ॥
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन ।
रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ॥
तथैव पाण्डवानां च रक्षितः सव्यसाचिना ।
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥
सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः ।
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे ।
ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ॥
रथी रथिनमासाद्य शरैः कनकभूषणैःक ।
पातयामास समरे तस्मिन्नतिभयंकरे ॥
गजारोहा गजारोहान्नाराचशरतोमरैः ।
संसक्तान्पातयामासुस्तव तेषां च सर्वशः ॥
कश्चिदुत्पत्य समरे वस्वारणमास्थितः ।
केशपक्षे परामृश्य जहार समरे शिरः ॥
अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे ।
वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ॥
कश्चित्करिविषाणस्थो वीरो रणविशारदाः ।
प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ॥
पत्तिमङ्घा रणे पक्तीन्भिमन्दिपालपरश्वथैः ।
न्यतापतयन्त संहृष्टाः परस्परकृतागसः ॥
रथी च समरे राजन्नासाद्य गजयूथपम् ।
स गजं पातयामास गजी च रथिनां वरम् ॥
रथिनं च हयारोहः प्रासेन भरतर्षभ ।
पातयामास समरे रथी च हयसादिनम् ॥
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् ।
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥
गजारोहा हयारोहान्पातयांचक्रिरे तदा ।
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥
गजारोहवरैश्चापि तत्रतत्र पदातयः ।
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः ।
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा ।
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि ।
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।
दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
चिह्नभूतानि जगतो विनाशार्थाय भारत ॥
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे ।
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः ।
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ॥
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः ।
पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः ॥
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।
सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत ॥
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः ।
द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।
रक्तोक्षिता घोररूपा विरेर्जुर्दानवा इव ॥
विनिर्जित्य रिपून्वीरा सेकनयोरुभयोरपि ।
व्यदृस्यन्त महामात्रा ग्रहा इव नभस्तले ॥
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव । अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम् ॥ 6-57-38aतथैव पाण्डवाः सर्वे महत्या सेनया सह । द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ॥
किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् ।
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥
ततः प्रववृते भूयः संग्रामो रोमहर्षणः ।
तावकानां परेषां च समरे विजयैषिणाम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे सप्तपञ्चशोऽध्यायः ॥

6-57-3 मृत्युरेव निवर्तनहेतुर्नान्य इत्यर्थः ॥ 6-57-7 अनुमानेन ध्वजादिचिह्नेन । संज्ञाभि संकेतैश्च ॥ 6-57-26 परिकस्तोमैश्चित्रकम्बलैः । कुथाभिस्तैरेव क्षुद्रैः । कम्बलै राङ्कवैः । महाधनैर्महामूल्यैः ॥ 6-57-36 महामात्राः प्रधानाः ॥