अध्यायः 063

सात्यकिभूरिश्रवसोः समागमः ॥ 1 ॥

सञ्जय उवाच ।
हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव ।
भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् ।
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥
तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् ।
आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि ॥
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अनन्तरथपादातं रजसा सर्वतो वृतम् ॥
तं भीमसेनः समरे महोदधिमिवापरम् ।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः ।
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥
उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् ।
असंभ्रमं भीमसेनो गदया समवारयत् ॥
स संवार्य बलौघांस्तन्गदया रथिनां वरः ।
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥
तस्मिन्सुतुमुले घोरे काले परमदारुणे ।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥
द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः ।
न प्राजहन्भीमसेनं भये जाते महाबलम् ॥
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥
पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः ।
कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः ॥
विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः ।
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ॥
बलानि संममर्दाशु नड्वलानीव कुञ्जरः ।
मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ॥
सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः ।
गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा ॥
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले ।
सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च ॥
अदृश्यत महारौद्रा गदा नागाश्वपातनी ।
तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः ॥
रणाङ्गणं समभवन्मृत्योरावाससन्निभम् ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।
बभौ रूपं महाघोरं कालस्येव युगक्षये ॥
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः ।
दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन् ॥
यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः ।
तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥
प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥
तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥
महता रथघोषेण रथेनादित्यवर्चसा ।
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ॥
तस्मिन्क्षणे सात्यकिः सत्यसन्धः शिनिप्रवीरोऽभ्यपतत्पितामहम् ।
निघ्नन्नमित्रान्धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सैन्यम् ॥
तं यान्तमश्वै रजतप्रकाशैः शरान्वपन्तं निशितान्सुपुङ्खान् ।
नाशक्नवन्धारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः ॥
अविध्यदेनं दशभिः पृषत्कैः- रलम्बुसो राक्षसोऽसौ तदानीम् ।
शरैश्चतुर्भिः प्रतिविद्ध्य तं च नप्ता शिनेरभ्यपतद्रथेन ॥
अन्वागतं वृष्णिवरं निशम्य तं शत्रुमध्ये परिवर्तमानम् ।
प्रद्रावयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ ॥
योधास्त्वदीयाः शरवर्षैरवर्ष- न्मेघा यथा भूधरमम्बुवेगैः ।
तथापि तं धारयितुं न शेकु- र्मध्यंदिने सूर्यमिवातपन्तम् ॥
न तत्र कश्चिन्नविषण्ण आसी- दृते राजन्सोमदत्तस्य पुत्रात् ।
स वै समादाय धनुर्महात्मा भिरिश्रवा भारत सौमदत्तिः ॥
दृष्ट्वा रथान्स्वान्व्यपनीयमाना- न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे त्रिषष्टितमोऽध्यायः ॥