अध्यायः 105

युधिष्ठिरादियुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम् ।
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥
दुर्योधनो महाराज दुःशासनमभाषत ।
एष शूरो महेष्वासो भीष्मः शूरनिषूदनः ॥
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ ।
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः ।
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥
तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् ।
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः ॥
स भवान्सर्वसैन्येन परिवार्य पितामहम् ।
समरे कर्म कुर्वाणं दुष्करं परिरक्षतु ॥
सञ्जय उवाच ।
स एवमुक्तः समरे पुत्रो दुःशासनस्तव ।
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥
ततः शतसहस्राणां हयानां सुबलात्मजः ।
विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् ।
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥
नकुलं सहदेवं च धर्मराजं च पाण्डवम् ।
न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः ॥
ततो दुर्योधनो राजा शूराणां हयसादिनाम् ।
अयुतं प्रेषयामास पाण्डवानां निवारणे ॥
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे ।
खुराहता धरा राजंश्चकम्पे च ननाद च ॥
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा ।
महावंशवनस्येव दह्यमानस्य पर्वते ॥
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः ।
दिवाकररथं प्राप्य च्छादयामास भास्करम् ॥
वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः ।
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ॥
हेषतां चैव शब्देन न प्राज्ञायत किंचन । `अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः ॥'
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ।
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥
उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः ।
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥
ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः ।
न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम् ॥
ते निपेतुर्महाराज निहता दृढधन्विभिः ।
नागैरिव महानागा यथावद्गिरिगह्वरे ॥
तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः ।
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥
अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ ।
अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः ॥
समादिनो हया राजंस्तत्रतत्र निषूदिताः ।
पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः ॥
वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः ।
यथा सिंहं समासाद्य मृगाः प्राणपरायणाः ॥
पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे ।
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् ।
अब्रवीद्रतश्रेष्ठ मद्रराजमिदं वचः ॥
एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे ।
पश्यतां वो महाबाहो सेनां द्रावयति प्रभो ॥
तं वारय महाबाहो वेलेव मकरालयम् ।
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥
सञ्जय उवाच ।
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् ।
स ययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् ।
महौघवेगं समरे वारयामास पाण्डवः ॥
मद्रराजं च समरे धर्मराजो महारथः । दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ।
नकुलः सहदेवश्च तं सप्तभिरजिह्नगैः ॥
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः ।
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ॥
माद्रीपुत्रौ च संभ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत् ।
ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे ॥
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ।
अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित् ॥
`आपतन्नेव भीमस्तु मद्रराजमताडयत् ।' सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः ॥
ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ ।
राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ ॥
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् ।
अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः ॥

6-105-8 तत इति । सैन्येनेति पूर्वस्मादनुकृष्यते । हयानां सैन्येन परिवार्य न्यवारयदिति तृतीयेनान्वयः ॥