अध्यायः 057

नारदेन सृञ्जयम्प्रति अङ्गराजगुणवर्णनम् ॥ 1 ॥

नारद उवाच ।
अङ्गं च पौरवं वीरं मृतं सृञ्जय शुश्रुम ।
सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत् ॥
तस्याश्वमेधे राजर्षेर्देशाद्देशात्समीयुषाम् ।
शिक्षाक्षरविधिज्ञानां नासीत्सङ्ख्या विपश्चिताम् ॥
वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः ।
सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः ॥
नटनर्तकगन्धर्वैः पूर्णकैर्वर्धमानकैः ।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः ॥
यज्ञे यज्ञे यथाकालं दक्षिणाः सोऽत्यकालयत् ।
द्विपान्दशसहस्राख्यानदात्काञ्चनसंवृतान् ॥
यः सहस्रं सहस्राणि कन्या हेमविभूषिताः ॥ धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः ।
शतं शतसहस्राणि स्वर्णमालानथर्षभान् ॥ गवां सहस्रानुचरान्दक्षिणामत्यकालयत् ।
हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः ॥ दासीदासखरोष्ट्रांश्च प्रादादाजाविकं बहु ।
रत्नानां विविधानां च विविधांश्चान्नपर्वतान् ॥ तस्मिन्संवितते यज्ञे दक्षिणामत्यकालयत् ।
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ॥ `अङ्गस्य यजमानस्य अपि विष्णुपदे वयम् ।
अमाद्यदिन्द्रुः सोमेन दक्षिणाभिर्द्विजातयः ।
देवमानुषगन्धर्वांश्चात्यरोचन्त दक्षिणाः' ॥
अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः ।
गुणोत्तरास्तु क्रतवस्तस्यासन्सार्वकामिकाः ॥
स चेन्ममार सृञ्जय चतुर्भद्रतस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥

5-57-2 राजर्षेः सर्वे देवाः समाययुः इति ढ.पाठः ॥ 5-57-4 पूर्णकैः स्वर्णचूडैः । वर्धमानकैः आरार्तिकहस्तैः ॥ 5-57-7 धूर्युजा रथाः ॥ 5-57-57 सप्तपञ्चाशत्तमोऽध्यायः ॥

श्रीः