अध्यायः 062
					 नारदेन सृञ्जयम्प्रति मान्धातृचरिताभिधानम् ॥ 1 ॥ 
					
					
						मान्धतारं यौवनाश्वं मृतं सृञ्जय शुश्रुम ।
						यं देवावश्विनौ गर्भे पितुः पार्श्वे चकर्षतुः ॥
					 
					
						मृगयां विचरन्राजा तृषितः क्लान्तवाहनः ।
						धूमं दृष्ट्वाऽगमत्सत्रं पृषदाज्यमवाप सः ॥
					 
					
						तं दृष्ट्वा युवनाश्वस्य जठरे रविसन्निभम् ।
						गर्भं निरूहतुर्देवावश्विनौ भिषजां वरौ ॥
					 
					
						तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम् ।
						अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥
					 
					
						मामेवायं धयत्वङ्ग इति ह स्माह वासवः ।
						ततोङ्गुलिभ्यो हीन्द्रस्य प्रादुरासीत्पयोऽमृतम् ॥
					 
					
						मां धास्यतीति कारण्याद्यदिन्द्रो ह्यन्वकम्पयत् ।
						तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम् ॥
					 
					
						ततस्तु धारां पयसो घृतस्य च महात्मनः ।
						तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥
					 
					
						अपिबत्पाणिमिन्द्रस्य स चाप्यह्गाऽभ्यवर्धत ।
						सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान् ॥
					 
					
						इमां च पृथिवीं कृत्स्नामेकाह्ना स व्यजीजयत् ।
						धर्मात्मा धृतिमान्वीरः सत्यसन्धो जितेन्द्रियः ॥
					 
					
						जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम् ।
						असितं च नृगं चैव मान्धाता मानवोऽजयत् ॥
					 
					
						उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति ।
						तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥
					 
					
						सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च ।
						अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते ॥
					 
					
						हैरण्यान्योजनोत्सेधानायताञ्शतयोजनम् ।
						बहुप्रकारान्सुस्वादून्भक्ष्यभोज्यान्नपर्वतान् ॥
					 
					
						अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः ॥
						
					 
					
						भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः ।
						घृतहदाः सूपपङ्का दधिफेनां गुडोदकाः ॥
					 
					
						रुरुधुः पर्वतान्नद्यो मधुक्षीरवहाः शुभाः ।
						देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः ॥
					 
					
						विप्रास्तत्रागताश्चासन्वेदवेदाङ्गपारगाः ।
						ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः ॥
					 
					
						समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः ।
						स तां ब्राह्मणसात्कृत्वा जगाम स्वान्गृहान्प्रति ॥
					 
					
						`राजाऽपि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः' ।
						गतः पुण्यकृतां लोकान्व्याप्य स्वयशसा दिशः ॥
					 
					
						स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
							पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
						
						अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये
						द्विषष्टितमोऽध्यायः ॥ 62 ॥ 
					 5-62-6 तस्मान्मान्धातरित्येवं इति क.पाठः ॥ 5-62-8 द्वादशसमो
						द्वादशवार्षिकः । शय इति पाठे द्वादशहस्तः । व्यजीजयद्विजितवान् ॥ 5-62-13
						रोहितान् लोहितभूप्रदेशान्पद्मरागखनिमतो वा मत्स्यान्देशविशेषान् । हैरण्यान्
						स्वर्णाकरयुक्तान् । जनोत्सेधान् जनेषु उत्सेध उच्छ्रायो येषां तान् ।
						मत्स्यदेशोत्पन्ने हि नद्यावद्यापि परम्परया पूर्वापरौ समुद्रौ गच्छत इति
						तेषामुच्छ्रितत्वं प्रसिद्धम् । रोहितानश्वान् इति क.ङ.पाठः ॥ 5-62-14
						अतिरिक्तमवशिष्टं भुञ्जानो जन एव हीयते तत्वन्नमित्यर्थः ॥ 5-62-62
						द्विषष्टितमोऽध्यायः ॥ 
					
					
					
					
					श्रीः