अध्यायः 065
नारदेन सृञ्जयम्प्रति शशिबिन्दुयशोनुवर्णनम् ॥ 1 ॥
नारद उवाच ।
शशिबिन्दुं च राजानं मृतं सृञ्जय शुश्रुम ।
य ईजे विविधैर्यज्ञैः श्रीमान्सत्यपराक्रमः ॥
तस्य भार्यासहस्राणां शतमासीन्महात्मनः ।
एकैकस्यां च भार्यायां सहस्रं तनयाभवन् ॥
ते कुमाराः पराक्रान्ताः सर्वे नियुतयाजिनः ।
राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः ॥
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ।
सर्वेऽश्वमेधैरीजानाः कुमाराः शाशिबिन्दवाः ॥
तानश्वमेधे राजेन्द्रो ब्राह्मणेभ्योददत्पिता ।
शतंशतं रथगजा एकैकं पृष्ठतोऽन्वयुः ॥
राजपुत्रं तदा कन्यास्तपनीयस्वलङ्कृताः ।
कन्याङ्कन्यां शतं नागा नागेनागे शतं रथाः ॥
रथेरथे शतं चाश्वा बलिनो हेममालिनः ।
अश्वेअश्वे गोसहस्रं गवां पञ्चाशदाविकाः ॥
एतद्धनमपर्याप्तमश्वमेधे महामस्वे ।
शशिबिन्दुर्महाभागो ब्राह्मणेभ्यो ह्यमन्यत ॥
वार्क्षाश्च यूपा यावन्त अश्वमेधे महामखे ।
ते तथैव पुनश्चान्ये तावन्तः काञ्चनाभवन् ॥
भक्ष्यान्नपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः ।
तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास्त्रयोदश ॥
तुष्टपुष्टजनाकीर्णां शान्तविघ्नामनामयाम् ।
शशिबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चषष्टितमोऽध्यायः ॥ 65 ॥
5-65- त्रयोदशास्त्र निचयाः शिष्टाः ॥ 5-65- पञ्चषष्टितमोऽध्यायः ॥ 65 ॥
श्रीः