अध्यायः 067
नारदेन सृञ्जयम्प्रति रन्तिदेवचरित्रकीर्तनम् ॥ 1 ॥
साङ्कृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम ।
यस्य द्विशतसाहस्रा आसन्सूदा महात्मनः ॥
गृहानभ्यागतान्विप्रानतिथीन्परिवेषकाः ।
पक्वंपक्वं दिवारात्रं वरान्नममृतोपमम् ॥
न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्यमन्यत ।
वेदानधीत्य धर्मेण यश्चक्रे द्विषतो वशे ॥
उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम् ।
बहवः स्वर्गमिच्छन्तो विधिवत्सत्रयाजिनम् ॥
नदी महानसाद्यस्य प्रवृतक्ता चर्मराशितः ।
तस्माच्चर्मण्वती नाम ख्याता पुण्या सरिद्वरा ॥
ब्राह्मणेभ्यो ददन्निष्कान्सौवर्णान्स प्रभावतः ।
तुभ्यं निष्कं तुभ्यं निष्कमिति ह स्म प्रभाषते ॥
तुभ्यन्तुभ्यमिति प्रादान्निष्कान्निष्कान्सहस्रशः ।
तत पुनः समाश्वास्य निष्कानेव प्रयच्छति ॥
अल्पं दत्तं मयाऽद्येति निष्ककोटिं सहस्रशः ।
एकाह्ना ताम्यति ततः क्वाद्य विप्रा इति ब्रुवन् ॥
द्विजपाणिवियोगेन दुःखं मे शाश्वतं महत् ।
भविष्यति न सन्देह एवं राजाऽददद्वसु ॥
सहस्रशश्च सौवर्णान्वृषभान्गोशतानुगान् ।
साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तथा ॥
अध्यर्धमासमददद्ब्राह्मणेभ्यः शतं समाः ।
अग्निहोत्रोपकरणं यज्ञोपकरणं च यत् ॥
ऋषिभ्यः करकान्कुम्भान्स्थालीः पिठरमेव च ।
शयनासनायानानि प्रासादांश्च गृहाणि च ॥
वृक्षांश्च विविधान्दद्यादन्नानि च धनानि च ।
सर्वं सौवर्णमेवासीद्रन्तिदेवस्य धीमतः ॥
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ।
रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम् ॥
नैतादृशं दृष्टपूर्वं कुबेरसदनेष्वपि ।
धनं च पूर्यमाणं नः किं पुनर्मनुजेष्विति ॥
व्यक्तं वस्वोकसारेयमित्युचुस्तत्र विस्मिताः ।
साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत् ॥
आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः ।
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ॥
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ।
रन्तिदेवस्य यत्किञ्चित्सौवर्णमभवत्तदा ॥
तत्सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ।
प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः ॥
कव्यानि पितरः काले सर्वकामान्द्विजोत्तमाः ।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥
पुत्रात्पुण्डतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये
सप्तषष्टितमोऽध्यायः ॥ 67 ॥
5-67-3 न्यायेनाधिगतं वित्तं येनाक्षय्यं इति क.ङ. पाठः ॥ 5-67-8 एकान्हा दास्यति पुनः कोऽन्यस्तत्सम्प्रदास्यति इति घ.झ.पाठः ॥ 5-67-10
पारिभाषिकं निष्कमाह सहस्रश इति ॥ 5-67-11 अध्यर्धमासं पक्षे पक्षे इत्यर्थः ।
शतं समा इति वाक्यशेषात् ॥ 5-67-15 धनं च पूर्णमासाद्य इति घ.ङ.पाठः ॥ 5-67-16
वस्वोकसारा सलोप आर्षः । कनकमयानि ओकांसि सारो यस्याः सा तथा ॥ 5-67-18
नाद्याश्नीत यथा पुरा इति क. पाठः ॥ 5-67-67 सप्तषष्टितमोऽध्यायः ॥
श्रीः