अध्यायः 073
युधिष्ठिरेणार्जुनम्प्रत्यभिमन्युनिधनप्रकारकथनम् ॥ 1 ॥ अर्जुनेन
सशपथं जयद्रथवधप्रतिज्ञा ॥ 2 ॥
त्वयि याते महाबाहो संशप्तकबलं प्रति ।
प्रयत्नमकरोत्तीव्रमाचार्यो प्रहणे मम ॥
व्यूढानीकं ततो द्रोणं यतमानं महामृधे ।
प्रतिव्यूह्य सहानीकाः प्रत्यरुध्म वयं बलात् ॥
स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते ।
अस्मानभिजगामाशु पीडयन्निशितैः शरैः ॥
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः ।
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥
ततस्तमप्रतिरथमहं सौभद्रमब्रवम् ।
द्रोणानीकमिदं भिन्द्धि द्वारं सञ्जनयस्व नः ॥
स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् ।
असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥
स तवास्त्रोपदेशेन वीर्येण च समन्वितः ।
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे ।
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः ।
वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥
ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च ।
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः ।
यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् ।
`संशयं परमं प्राप्तं पदातिनमवस्थितम् ।
गदाहस्तोऽभ्ययात्तूर्णं जिघांसुरपराजितम् ॥
गदिनं त्वथ तं दृष्ट्वा वासवस्यात्मजात्मजः ।
स जग्राह गदां वीरो गदायुद्धविशारदः ॥
गदामण्डलमार्गस्थौ सर्वक्षत्रस्य पश्यतः ।
तौ सम्प्रजग्मतुर्वीरावन्योन्यस्यान्तरैषणौ ॥
तावन्योन्यं गदाग्राभ्यां ताडितौ युद्धदुर्मदौ ।
इन्द्रध्वजाविवोत्सृष्टौ गतसत्वौ महींगतौ ॥
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः ।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥
गदावेगेन महता व्यायामेन च मोहितः ।
विमना न्यपतद्भूमौ सौभद्रः परवीरहा ॥
स तु हत्वा सहस्राणि द्विपाश्वरथपत्तिनाम्' ।
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ॥
बृहद्बलं च राजानं स्वर्गेण समयोजयत् ।
`गतः सुकृतिनां लोकान्ये च स्वर्गजितां शुभाः ॥
अदीनस्त्रासयञ्छत्रून्नन्दयित्वा च बान्धवान् ।
असकृन्नाम विश्राव्य पितॄणां मातुलस्य च' ॥
वीरो दिष्टान्तमापन्नः शोचयन्वान्धवान्बहून् ।
`ततः स्म शोकसन्तप्ता भवताऽद्य समेयुषः' ॥
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् ।
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ॥
सञ्जय उवाच ।
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् ।
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ॥
विषण्णवदनाः सर्वे परिवार्य धनञ्जयम् ।
नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन्परस्परम् ॥
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्च्छितः ।
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥
पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाय्य च ।
`त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः' ।
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥
अर्जुन उवाच ।
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ताऽजयद्रथम् ।
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥
न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् ।
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् ।
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन ।
अपि द्रोणकृपौ राजञ्छादयिष्यामि ताञ्छरैः ॥
यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः ।
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसम्मतान् ॥
ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् ।
गुरुदारगतानां ये पिशुनानां च ये सदा ॥
साधूनसूयतां ये च ये चापि परिवादिनाम् ।
ये च निक्षेपहन्तॄणां ये च विश्वासघातिनाम् ॥
भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् ।
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥
पायसं वा यवान्नं वा शाकं कृसरमेव वा ।
संयावापूपमांसानि ये च लोका वृथाश्नताम् ।
तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम् ॥
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् ।
अवमन्यमानो यान्याति वृद्धान्साधून्गुरूंस्तथा ॥
स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत् ।
याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः ।
तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम् ॥
नग्नस्य स्नायमानस्य या च वन्ध्याऽतिथेर्गतिः ।
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ॥
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ।
भृत्यैः सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा ॥
असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम् ।
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥
संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम् ।
न बिभर्ति नृसंसात्मा निन्दते चोपकारिणम् ॥
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च ।
अनर्हेभ्यश्च यो दद्याद्वृषलीपतये तथा ॥
मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः ।
तेषां गतिमियां क्षिप्रं न चेद्धान्यां जयद्रथम् ॥
भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम् ।
पालाशमासनं चैव तिन्दुकैर्दन्तधावनम् ॥
ये चावर्जयतां लोकाः स्वपतां च तथोषसि ।
शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः ॥
एककूपोदकग्रामे वेदध्वनिविवर्जिते ।
षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम् ॥
दिवामैथुनिनां चापि दिवसेषु च शेरते ।
अगारदाहिनां चैव गरदानां च ये मताः ॥
अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः ।
रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः ॥
या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम् ।
आस्यमैथुनिकानां च ये दिवामैथुने रताः ॥
ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न ।
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम् ॥
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः ।
ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम् ॥
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ।
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत ॥
यद्यस्मिन्न हत्ते पापे सूर्योऽस्तमुपयास्यति ।
इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम् ॥
असुरसुरमनुष्याः पक्षिणो वोरगा वा
पितृरजनिचरा वा ब्रह्मदेवर्षयो वा ।
चरमचरमपीदं यत्परं चापि तस्मा--
त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥
यदि विशति रसातलं तदग्र्यं
वियदपि देवपुरं दितेः पुरं वा ।
तदपि शरशतैरहं प्रभाते
भृशमभिमन्युरिपोः शिरोऽभिहर्ता ॥
सञ्जय उवाच ।
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् ।
तस्य सर्वमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ॥
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः ।
प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं च फल्गुनः ॥
स पाञ्चजन्योऽच्युतवक्त्रवायुना
भृशं सुपूर्णोदरनिःसृतध्वनिः ।
जगत्सपातालवियद्दिगीश्वरं
प्रकम्पयामास युगात्यये यथा ॥
ततो वादित्रघोषाश्च प्रादुरासन्सहस्रशः ।
सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥
`प्रानृत्यदिव गाण्डीवं शरास्तूणीगता मुदा ।
निराक्रामन्निव तदा स्वयमेव मृधैषिणः ॥
भीमसेनः सुसंहृष्टः प्रत्यभाषत भारत ।
धनञ्जयमभिप्रेक्ष्य हर्षगद्गदया गिरा ॥
प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च ।
निहतो धार्तराष्ट्रोऽयं सानुबन्धः सुयोधनः ॥
अथ मृदिततमाग्र्यदाममाल्यं
तव सुतशोकमयं च रोषजातम् ।
व्यपनुदति महाप्रभावसेन--
न्नरवर वाक्यमिदं महार्थमिष्टम् ॥
सञ्जय उवाच ।
अथ शङ्ख्यैश्च भेरीभिः पणवैः सैनिकास्तथा ।
ससूतमागधा जिष्णुं स्तुतिभिः समपूजयन् ॥
तदा भीमं बलं सर्वे तेन नादेन मोहितम् ।
तावकं तन्महाराज विषण्णं समपद्यत' ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥
5-73-38 वन्ध्यापतेः इति ङ. पाठः । उत्क्रोशकानृतानां च इति क.
पाठः । उत्कोटिकानृतानां च इति ट.ङ.पाठः ॥ 5-73-39 आत्मापहारिणां आत्मानमन्यथा
प्रकाशयताम् ॥ 5-73-42 वृषली शूद्रा कन्याभावे रजस्वला वा ॥ 5-73-55 दितेरिति ।
कार्ये कारणोपचाराद्दैत्यानामित्यर्थः ॥ 5-73-73 त्रिसप्ततितमोऽध्यायः ॥
श्रीः