अध्यायः 077
श्रीकृष्णेन सुभद्रासमाश्वासनम् ॥ 1 ॥
सञ्जय उवाच ।
तां निशां दुःखशोकार्तौ निःश्वसन्ताविवोरगौ ।
निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ॥
नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः ।
व्यथिताश्चिन्तयामासुः किंस्विदेतद्भविष्यति ॥
ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः ।
सकबन्धस्तथाऽऽदित्ये परिघः समदृश्यत ॥
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः ।
चचाल चापि पृथिवी सशैलवनकानना ॥
चुक्षुभुश्च महाराज सागारा मकरालयाः ।
प्रतिस्रोतःप्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् ।
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह ।
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ॥
सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभा ।
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥
अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः ।
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥
स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव ।
साम्ना सत्येन युक्तेन वचसाऽऽश्वासय प्रभो ॥
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः ।
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥
वासुदेव उवाच ।
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा ।
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥
कुले जातस्य वीरस्य क्षत्रियस्य विशेषतः ।
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ॥
दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः ।
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥
जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे ।
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ॥
तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च ।
सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः ॥
वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा ।
मा शुचस्तनयं भद्रे गतःस परमां गतिम् ॥
`स्वाध्याययुक्तं ब्राह्ममी याचितारं
`स्वाध्याययुक्तं ब्राह्मणी याचितारं
गौर्बोढारं क्षिप्रगन्तारमश्वा ।
दासं शूद्रा कर्मकारं तु वैश्या
शूरं सूते त्वद्विधा राजपुत्री' ॥
प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः ।
अधर्मस्यास्य तु फलं ससुहृद्गणबान्धवः ॥
व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् ।
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ॥
श्वः शिरः पादमूलं ते सैन्धवस्याहृतं ध्रुवम् ।
पद्ध्यां प्रमथितासि त्वं विशोका भव मा रुदः ॥
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् ।
वयं च प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥
व्यूढोरस्को महाबाहुरनिवर्ती रिपुव्रजात् ।
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥
अनुयातश्च पितरं मातृपक्षं च वीर्यवान् ।
सहस्रशो रिपून्हत्वा हतः शूरो महारथः ॥
आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् ।
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥
यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा ।
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥
यदि च मनुजपन्नगाः पिशाचा
रजनिचचाराः पतगाः सुरासुराश्च ।
रणगतमभियान्ति सिन्धुराजं
न स भविता सह तैरपि प्रभाते ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥
5-77-27 अभियान्ति रक्षिष्यन्ति ॥ 5-77-77 सप्तसप्ततितमोऽध्यायः ॥
श्रीः