अध्यायः 130

द्रोणदुर्योधनसंवादो दुर्योधनयुद्धं च ॥ 1 ॥

सञ्जय उवाच ।
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते । सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ।
त्वरन्नेकरथेनैव बहु कृत्यं विचिन्तयन् ॥
स रथस्तव पुत्रस्य त्वरया परया युतः ।
तूर्णमभ्यद्रवद्द्रोणं मनोमारुतवेगवान् ॥
`इह दृष्ट इतो नष्टः सरथः प्राद्रवन्नृपः । मुहूर्तादिव पुत्रस्ते द्रोणमासाद्य मारिष' ।
ससम्भ्रमामिदं वाक्यमब्रवीत्कुरनन्दनः ॥
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ।
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः ॥
सम्प्राप्ताः सिन्धुराजस्य समीपमनिवारिताः ।
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः ।
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥
आश्चर्यभूतो लोकेऽस्मिन्समुद्रस्येव शोषणम् । निर्जयस्तव विप्राग्र्य सात्वतेनार्जुनेन च ।
तथैव भीमसेनेन लोकः संवदते भृशम् ॥
कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ।
इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव ॥
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे ।
यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्त्रयो रथाः ॥
द्रोण उवाच ।
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् ।
यद्गतं गतमेवेदं शेषं चिन्तय मानद ॥
दुर्योधन उवाच ।
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् ।
तत्संविधीयतां क्षिप्रं साधु सञ्चिन्त्य नो द्विज ॥
द्रोण उवाच ।
चिन्त्यं बहुविधं तात यत्कृत्यं तच्छृणुष्व मे ।
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥
यावत्तेषां भयं पश्चात्तावदेषां पुरःसरम् ।
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ ॥
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ।
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् ॥
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ।
गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ ॥
सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् । न सभायां जयो वृत्तो नापि तत्र पराजयः ।
इह नो ग्लहमानानामद्य तावज्जयाजयौ ॥
यान्स्म तान्ग्लहते घोराञ्छकुनिः कुरुसंसदि ।
अक्षान्स मन्यमानः प्राक्शरास्ते हि दुरासदाः ॥
यत्र ते बहवस्तात कौरवेया व्यवस्थिताः । सेन्नां दुरोदरं विद्धि शरानक्षान्विशाम्पते ।
ग्लहं च सैन्धवं राजंस्तत्र द्यूतस्य निश्चयः ॥
सैन्धवे तु महद्द्यूंत समासक्तं परैः सह ।
अत्र ते ध्रुवमायत्तो जयो वाऽजय एव वा ॥
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः । सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ।
तत्र नो ग्लहमानानां ध्रुवौ जयपराजयौ ॥
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् ।
तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् ।
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥
सञ्जय उवाच ।
ततो दुर्योधनोऽगच्छत्तूर्णमाचार्यशासनात् ।
उद्यम्यात्मानमुग्राय कर्मणे स पदानुगः ॥
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥
यौ तु पूर्वं महाराज वारितौ कृतवर्मणा ।
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥
पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम् ।
पार्श्वेन सैन्यमायान्तौ कुरुराजो ददर्श ह ॥
ताभ्यां दुर्योधनः सार्धमकरोत्सङ्ख्यमुत्तमम् ।
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥
तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ ।
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥
तमविध्यद्युधामन्युस्त्रिंशता कङ्कपत्रिभिः ।
विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥
दुर्योधनो युधामन्योर्ध्वजमेकेषुणाऽच्छिनत् ।
एकेन कार्मुकं चास्य चकर्त तनयस्तव ॥
सारथिं चास्य भल्लेन रथनीडादपाहरत् ।
ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान् ॥
युधामन्युश्च सङ्क्रुद्धः सरांस्त्रिंशतमाहवे ।
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥
तथोत्तमौजाः सङ्क्रुद्धः शरैर्हेमविभूषितैः ।
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्यौत्तमौजसः ।
जघान चतुरोऽस्याश्चानुभौ तौ पार्ष्णिसारथी ॥
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे ।
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः ।
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा । युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ।
`अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम्' ॥
हताश्वसूतात्सरथादवतीर्य नराधिपः ।
गदामादाय ते पुत्रः पाञ्चल्यावभ्यधावत ॥
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं कुरुपतिं तदा ।
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥
ततः स हेमचित्रं तं गदया स्यन्दनं गती ।
सङ्क्रुद्धः पोथयामास साश्वसूतध्वजं नृप ॥
`एतदीदृशकं पुत्रस्तवाकार्षीज्जनाधिप ।
गदया गदिनां श्रेष्ठः सर्वलोकमहारथः' ॥
भङ्क्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः ।
मद्रराजरथं तूर्णमारुरोह परन्तपः ॥
पाञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ ।
रथावन्यौ समारुह्य बीभत्सुमभिजग्मुतः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥

5-130-17 तान्प्रसिद्धान् यानक्षान् । अक्षान् मन्यमानः प्राग् ग्लहतेस्म इत्यन्वयः ॥ 5-130-18 यत्र सभायाम । दूरोदरं द्यूतकारिणम् ॥ 5-130-20 जयपराजयौ जयः पराजयो वेत्यर्थः ॥ 5-130-130 त्रिंशदधिकशततमोऽध्यायः ॥

श्रीः