अध्यायः 156

भीमेन दुर्मददुष्कर्णादिवधः ॥ 1 ॥

धृतराष्ट्र उवाच ।
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि ।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम ।
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥
निहते सैन्धवे वीरे भूरिश्रवसि चैव ह ।
यदाऽभ्यगान्महातेजाः पाञ्चालानपराजितः ॥
किममन्यत दुर्धर्षे प्रविष्टे शत्रुतापने ।
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत ॥
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् । के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः ।
के पुरस्तादवर्तन्त निघ्नन्तः शास्त्रवान्रणे ॥
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् ।
शिशिरे कम्पमाना वै कृशा गाव इव प्रभो ॥
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः ।
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥
सर्वेषु योधेषु च सङ्गतेषु रात्रौ समेतेषु महारथेषु ।
संलोड्यमानेषु पृथग्बलेषु के वस्तदानीं मतिमन्त आसन् ॥
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि । रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ 5-156-10 तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम् । अन्धे तमसि मग्नानामभवत्का मतिस्तदा ॥
प्रहृष्टांश्चाप्युदग्रांश्च सन्तुष्टांश्चैव पाण्डवान् ।
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान् ॥
कथमेषां तदा तत्र पार्थानामपलायिनाम् ।
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय ॥
सञ्जय उवाच ।
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रवन्सर्वे पाण्डवाः सह सोमकैः ॥
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् ।
सम्प्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः ॥
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः ।
तान्सर्वान्प्रेषयामास पितृलोकं स भारत ॥
प्रमथ्नन्तं तदा वीरान्भारद्वाजं महारथम् ।
अभ्यवर्तत सङ्क्रुद्धः शिबी राजा प्रतापवान् ॥
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् ।
विव्याध दशभिर्द्रोणः सर्वपारशवैः शितैः ॥
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः ।
सारथिं चास्य भुल्लेन स्मयमानो न्यपातयत् ॥
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः ।
अथाऽस्य सशिरस्त्राणं शिरः कायादपाहरत् ॥
ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत् ।
स तेन सङ्गृहीताश्वः पुनरभ्यद्रवद्रिपून् ॥
कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे ।
पूर्वं पितृवधात्क्रुद्धौ भीमसेनमुपाद्रवत् ॥
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।
विशोकं त्रिभिरानर्च्छद्वजमेकेन पत्रिणा ॥
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः ।
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह ॥
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा ।
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥
`तस्मिन्हते तदा तेन सिंहनादो महानभूत् ।
पाञ्चालानां महाराज साधुसाध्विति पाण्डवम्' ॥
तं कर्णो भ्रातरश्चास्य नामृष्यन्त परन्तप ।
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥
ततः शत्रुरथं त्यक्त्वा भीमो द्रुमरथं गतः ।
द्रुमं चास्यन्तमनिशं मुष्टिना समपोथयत् ॥
`यथा काचमणिर्न्यस्तो मुष्टिनैकेन लीलया ।
स हतः सर्वथा चूर्णो रक्तमेवोदपद्यत ॥
तथा चूर्णमभूत्तत्र कर्णभ्राता द्रुमस्तथा' ।
स तदा पाण़्डुपुत्रेण बलिनाऽभिहतोऽपतत् ॥
तं निहत्य महाराज भीमसेनो महाबलः ।
जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥
जयरातं तु चरणे गृह्य भीमो महाबलः ।
सूतं चास्य महाबाहुर्गृह्य राजंस्तथैव च ॥
पादयोर्गृह्य तौ वीरौ भीमः कर्णस्य पश्यतः ।
भूमावाविद्ध्य जघ्ने स तौ च प्राणैर्व्ययुज्यताम् ॥
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् ।
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः ।
तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना ॥
एतत्कृत्वा महत्कर्म रणेऽद्भुतपराक्रमः ।
पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम् ॥
तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम् । न्यवारयन्महाबाहुं तव पुत्रा विशाम्पते ।
महता शरवर्षेण च्छादयन्तो महारथाः ॥
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे ।
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ॥
दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे । तावेकरथमारूढौ भ्रातरौ परतापनौ ।
सङ्ग्रामशिरसो मध्ये भीमं द्वावप्यधावताम् ।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ ।
रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् ।
पादप्रहारेण धरां प्रावेशयदरिन्दमः ॥
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ ।
मुष्टिनाऽऽहत्य सङ्क्रुद्धौ ममर्द चरणेन ह ॥
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन् ।
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति ॥
एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः ।
विसंज्ञा वाहयन्वाहान्न च द्वौ सह धावतः ॥
ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः ।
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली ॥
ततो यमौ द्रुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः ।
वृकोदरं भृशमनुपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः ॥
ततः सुतास्ते वरुणात्मजोपमा रुपान्विताः सह गुरुणा महात्मना ।
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन् ॥
`ततो यमौ द्रुपदसुताः ससैनिका युधिष्ठिरद्रुपदविराटसात्वताः ।
घटोत्कचो जयविजयौ द्रुमो वृकः ससृञ्जयास्तव तनयानवारयन्' ॥
ततोऽभवत्तिमिरघनैरिवावृते महाभये भयदमतीव दारुणम् ।
निशामुखे वृकबलगृध्रमोदनं महात्मना नृपवर युद्धमद्भुतम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षट््पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

5-156-1 गावः गाः ॥ 5-156- कमलविबुद्धलोचनो विलसत्पद्मनेत्रः ॥ 5-156- गुरुणा द्रोणेन ॥ 5-156- तिमिराण्येव घनास्तैः ॥ 5-156- षट््पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

श्रीः