अध्यायः 011
धृतराष्ट्रेण प्रसङ्गाद्भक्त्युद्रेकेण--श्रीकृष्णचरित्रानुकीर्तनम् ॥ 1 ॥ धृतराष्ट्रेण बहुधा विचिन्त्य सञ्जयम्प्रति युद्धकथनचोदना ॥ 2 ॥
धृतराष्ट्र उवाच । 
					शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय ।
						कृतवान्यानि गोविन्दो यथा नान्याःपुमान्क्वचित् ॥
					संवर्धता गोपकुले बालेनैव महात्मना ।
						विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय ॥
					पूतनां शकटं हत्वा केशिनं चैव वाजिनम् ।
						ऋषभं धेनुकं चैव अरिष्टं च महाबलम् ॥
					दावान्मुक्त्वा महाबाहुर्धृत्वा गोवर्धनं निगिम् ।
						चाणूरं मुष्टिकं चैव रङ्गमध्ये निहत्य च ॥
					प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् ।
						मुरुं चान्तकसङ्काशमवधीत्पुष्करेक्षणः ॥
					तथा कंसो महातेजा जरासन्धेन पालितः ।
						विक्रमेणैव कृष्णेन सगणः पातितो रणे ॥
					सुनामा रणविक्रान्तः समग्राक्षौहिणीपतिः ।
						भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥
					बलदेवद्वितीयेन कृष्णेनामित्रघातिना ।
						तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥
					दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः ।
						आराधितः सदारेण स चास्मै प्रददौ वरान् ॥
					तथा गान्धारराजस्य सुतां वीरः स्वयंवरे ।
						निर्जित्य पृथिवीपालानावहत्पुष्करेक्षणः ॥
					अमृष्यमाणा राजानो यस्य जात्या हया इव ।
						रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥
					जरासन्धं महाबाहुमुपायेन जनार्दनः ।
						परेण घातयामास समग्राक्षौहिणीपतिम् ॥
					चेदिराजं च विक्रान्तं राजसेनापतिं बली ।
						अर्घे विवदमानं च जघान पशुवत्तदा ॥
					सौभं दैत्यपुरं खस्थं शाल्वगुप्तं दुरासदम् ।
						समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥
					अङ्गान्वङ्गान्कलिङ्गंश्च मागधान्काशिकोसलान् ।
						वात्स्यगार्ग्यकरूषांश्च पौण्ड्रांश्चाप्यजयद्रणे ॥
					आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् ।
						काश्मीरकानौरसिकान्पिशाचांश्च समुद्गलान् ॥
					काम्भोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय ।
						त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥
					नानादिग्भ्यश्च सम्प्राप्तान्खशांश्चैव शकांस्तथा ।
						जितवान्पुण्डरीकाक्षो यवनं च सहानुगम् ॥
					प्रविश्य मकरावासं यादोगणनिषेवितम् ।
						जिगाय वरुणं सङ्ख्ये सलिलान्तर्गतं पुरा ॥
					युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम् ।
						पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥
					खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् ।
						आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥
					वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम् ।
						महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥
					तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् ।
						राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम ॥
					यच्च तन्महदाश्चर्यं सभायां मम सञ्जय ।
						कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ॥
					यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम् ।
						तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमम् ॥
					नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः ।
						कर्मणां शक्यते गन्तुं हृषीकेशस्य सञ्जय ॥
					तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः ।
						अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः ॥
					उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान् ।
						पृथुश्च विपृथुश्चैव शमीङ्कोऽथारिमेजयः ॥
					एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः ।
						कथंचित्पाण्जवानीकं श्रयेयुः समरे स्थिताः ॥
					आहूता वृष्णिवीरेण केशवेन महात्मना ।
						ततः संशयितं सर्वे भवेदिति मतिर्मम ॥
					नागायुतबलो वीरः कैलासशिखरोपमः ।
						वनमाली हली रामस्तत्र यत्र जनार्दनः ॥
					यमाहुः सर्वपितरं वासुदेवं द्विजातयः ।
						अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय ॥
					स यदा तात सन्नह्येत्पाण्डवार्थाय सञ्जय ।
						न तदा प्रतिसंयोद्धा भविता तत्र कश्चन ॥
					यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान् ।
						वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥
					ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे ।
						कौरवांश्च महाबाहुःकुन्त्यै दद्यात्स मेदिनीम् ॥
					यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः ।
						रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः ॥
					न केनचिदुपायेन कुरूणां दृश्यते जयः ।
						तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥
					अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः ।
						अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ॥
					सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः ।
						प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणाः ॥
					मोहाद्दुर्योधनः कृष्णं यो न वेत्तीह केशवम् ।
							मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः ।
						
					न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ।
						पूर्वदेवौ महात्मानौ नरनारायणावुभौ ॥
					एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ।
						मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ ॥
					नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः ।
						युगस्येव विपर्यासो लोकानामिव मोहनम् ॥
					भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ।
						न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च ॥
					न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निर्वायते ।
						लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ ॥
					भीष्मद्रोणौ हतौ श्रुत्वा किन्नु जीवामि सञ्जय ।
						यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे ॥
					अद्य तामनुजानीमो भीष्मद्रोणवधेन ह ।
						मत्कृते चाप्यनुप्राप्तः कुरूणामेष सङ्क्षयः ॥
					पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत ।
						अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः ॥
					यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ ।
						प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान्प्रति ॥
					क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते ।
							अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः ।
						
						अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम ॥
						
					तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे ।
						अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशोऽध्यायः ॥ 11 ॥
5-11-6 विक्रमेणैव अस्त्रं चिना ॥ 5-11-12 परेण भीमेन ॥ 5-11-11 एकादशोऽध्यायः ॥
श्रीः
