अध्यायः 031
अश्वत्थाम्ना नीलस्य वधः ॥ 1 ॥
धृतराष्ट्र उवाच । 
					तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय । 5-31-1bचलितानां
								द्रुतानां च कथमासीन्मनांसि वः ॥ 
					आनीकानां प्रभग्नानामवस्थानमपश्यताम् ।
						दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय ॥
						सञ्जय उवाच । 
					तथापि तव पुत्रस्य प्रियकामा विशाम्पते ।
						यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ॥
					समुद्यतेषु चास्त्रेषु सम्प्राप्ते च युधिष्ठिरे ।
						अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ॥
					अन्तरं भीमसेनस्य प्रापतन्नमितौजसः ।
						सात्यकेश्चैव वीरस्य धृष्टद्युम्नस्य वा विभो ॥
					द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् ।
						मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ॥
					द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे ।
						कुरूणां पाण्डवानां च द्रोणद्यूतमवतेत ॥
					यंयं प्रमथते द्रोणः पाञ्चालानां रथव्रजम् ।
						तत्रतत्र तु पाञ्चाल्यो धृष्टद्युम्नोऽभ्यवर्तत ॥
					तेषां भाग्यविपर्यासैः सङ्ग्रामे भैरवे सति ।
						वीराः समासदन्वीरान्कुर्वन्तो भैरवं रवम् ॥
					अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः ।
						अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः ॥
					ते त्वमर्षवशं प्राप्ता हीमन्तः सत्वचोदिताः ।
						त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ॥
					अयासमिव सम्पातः शिलानामिव चाभवत् ।
						दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ॥
					नानुस्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् ।
						ये पूर्वदेवैर्देवानामपश्यन्युद्धमद्भुतम् ॥
					प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने ।
						निवर्तता बलौघेन महता भारपीडिता ॥
					घूर्णतोऽपि बलौघस्य दिवं स्तब्ध्वेव निःस्वनः ।
						अजातशत्रोस्तत्सैन्यमाविवेश सुभैरवः ॥
					समासाद्य तु पाण्डूनामनीकानि सहस्रशः ।
						द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ॥
					तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा ।
						पर्यवरायदासाद्य द्रोणं सेनापतिः स्वयम् ॥
					तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तथा ।
						नैव तस्योपमा काचिदिति मे निश्चिता मतिः ॥
					ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् ।
						शरस्कुलिङ्गश्चापार्चिर्दिहन्कक्षमिवानलः ॥
					तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् ।
						पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ॥
					नील किं बहुभिर्दग्धैस्तव योधैः सरार्चिषा ।
						मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशु माम् ॥
					तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् ।
						व्याकोशपद्माभमुखो नीलो विव्याध सायकैः ॥
					तेनापि विद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः ।
						धनुर्ध्वजं च च्छत्रं च द्विषतः सन्न्यकृन्तत ॥
					स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत् ।
						द्रौणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्त्रिवत् ॥
					तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् ।
						भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ॥
					सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः ।
						प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि ॥
					ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला ।
						आचार्यपुत्रेण हते नीले ज्वलिततेजसि ॥
					अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः ।
						कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ॥
					दक्षिणेन तु सेनायाः कुरुते कदनं बली ।
						संशप्तकावशेषस्य नारायणबलस्य च ॥ ॥
					इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकत्रिंशोऽध्यायः ॥ 31 ॥
5-31-5 अन्तरं छिद्रम् । प्रापतन्सृतवन्तः ॥ 5-31-7 पाण्डवान्याम इत्येव मा द्रोणमिति चापरे इति कः पाठः ॥ 5-31-9 समासदन्प्रतिगतवन्तः ॥ 5-31-11 न्यवर्तन्त भयेभ्यो निवृत्ताः । सत्यचोदिताः इति क.घ.ङ. पाठः ॥ 5-31-31 एकत्रिंशोऽध्यायः ॥
श्रीः
