अध्यायः 035
युधिष्ठिरेणाभिमन्युम्प्रति पद्मव्यूहभेदनचोदना ॥ 1 ॥
सञ्जय उवाच ।
तदनीकमनाधृष्टं भारद्वाजेन रक्षितम् ।
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् ।
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः ।
उतक्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् ।
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः ।
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ॥
समीपे वर्तमानांस्तान्भारद्वाजोऽतिवीर्यवान् ।
असम्भ्रान्तः शरौघेण महता समवारयत् ॥
महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम् ।
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः ।
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् ।
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः ।
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥
अशक्यं तु तमन्येन द्रोणं मत्त्वा युधिष्ठिरः ।
अविषह्यं गुर भारं सौभद्रे समवासृजत् ॥
वासुदेवादनवरं फल्गुनाच्चामितौजसम् ।
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ॥
युधिष्ठिर उवाच ।
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु ।
द्रोणानीकस्य न वयं विद्मो भेदं कथञ्चन ॥
त्वं वाऽर्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा ।
द्रोणानीकं महाबाहो पञ्चमो नोपपद्यते ॥
अभिमन्यो वरं तात याचे त्वां दातुमर्हसि ।
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥
धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् ।
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥
अभिमन्युरुवाच ।
द्रोणस्य दृढमत्युग्रमनीकप्रवरं युधि ।
पितॄणां जयमाकाङ्क्षन्नवगाहेऽविलम्बितम् ॥
उपदिष्टो हि मे पित्रा योगोऽनीकविशातने ।
नोत्सहे हि विनिर्गन्तुमहं कस्याञ्चिदापदि ॥
युधिष्ठिर उवाच ।
भिन्ध्यनीकं युधांश्चेष्ठ द्वारं सञ्जनयस्व नः ।
वयं त्वाऽनुगमिष्यामो येन त्वं तात यास्यसि ॥
धनञ्जयसमं युद्धे त्वां वयं तात संयुते ।
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥
भीम उवाच ।
अहं त्वाऽनुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः ।
पाञ्चलाः केकया मात्स्यास्तथा सर्वे प्रभद्रकाः ॥
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः ।
वयं प्रध्वंसयिष्यामो निघ्नामाना वरान्वरान् ॥
अभिमन्युरुवाच ।
अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् ।
पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ॥
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः ।
मातुलस्य च यत्प्रीतिं करिष्यति पितुश्च मे ॥
शिशुनैकेन सङ्ग्रमे काल्यमानानि सङ्घशः ।
द्रक्ष्यन्ति सर्वभूतानि द्विषत्सैन्यानि वै मया ॥
नाहं पार्थेन जातः स्यां न च जातः सुभद्रया ।
यदि मे संयुगे कश्चिज्जीवितो नाद्य मुच्यते ॥
यदि चैकरथेनाहं समग्रं क्षत्रमण्डलम् ।
न करोम्यष्टधा युद्धे न भवाम्यर्जुनात्मजः ॥
युधिष्ठिर उवाच ।
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् ।
यत्समुत्सहसे भेत्तुं द्रोणानीकं दुरासदम् ॥
रक्षितं पुरुषव्याघ्रैर्महेष्वासैर्महाबलै ।
साध्यरुद्रमरुत्तुल्यैर्वस्वग्न्यादित्यविक्रमैः ॥
सञ्जय उवाच ।
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् ॥
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोधशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः ॥ 35 ॥
5-35-16 मातुलानां सात्यकिप्रभृतीनाम् ॥ 5-35-19 योग उपायो युक्तिर्वा ॥ 5-35-21 प्रणिधाय प्रविश्य ॥ 5-35-35 पञ्चत्रिंशोःऽध्यायः ॥
श्रीः