अध्यायः 043
जयद्रथेन रुद्रवरात् व्यूहपथं पिधाय पाण्डवादिनिरोधः ॥ 1 ॥
सञ्जय उवाच ।
यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् ।
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥
तमूहुर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः ।
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपरंहसः ॥
गन्धर्वनगराकारं विधिवत्कल्पितं रथम् ।
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥
श्वेतश्चत्रपताकाभिश्चामरव्यजनेन च ।
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥
मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् ।
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥
स विष्फार्य महच्चापं किरन्निषुगणान्बहून ।
तत्कण्डं पूरयामास यदार्जुनिरदारयत् ॥
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् ।
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥
द्रुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम् ।
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥
युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत् ।
इषुजालेन महता तदद्भुतमिवाभवत् ॥
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् ।
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।
विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥
तत्तस्य लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिस्त्रिभिः ।
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत् ॥
सोऽन्यदादाय बलवान्सज्जं कृत्वा च कार्मुकम् ।
भीमस्यापातयत्केतुं धनुरश्वांश्च मारिष ॥
स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात् ।
सोत्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥
ततस्त्वदीयाः संहृष्टाः साधुसाध्विति वादिनः ।
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमद्भुतम् ॥
सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा ।
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥
सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः ।
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥
यतमानास्तु ते वीरा मात्स्यपाञ्चालकेकयाः ।
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम् ॥
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः ।
तत्तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि अभमन्युवधपर्वणि त्रयोदशदिवसयुद्धे त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥
5-43-5 वरूथं रथवेष्टनम् ॥ 5-43-10 आदिश्य एष च्छिनद्मीत्युद्दिश्य ॥ 5-43-43 त्रिचत्वारिंशोऽध्यायः ॥
श्रीः