अध्यायः 047
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच ।
क्षत्रियास्ते महाराज परस्परवधैषिणः ।
अन्योन्यं समरे जघ्नुः कृतवैरा महौजसः ॥
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः ।
गजौघाश्च महाराज संसक्ताश्च परस्परम् ॥
गदानां परिघाणां च शक्तीनां च परस्परम् ।
प्रासानां भिण्डिपालानां मुसुण्ठीनां च सर्वशः ॥
सम्पातं चानुपश्याम सङ्ग्रामे भृशदारुणे ।
शलभा इव सम्पेतुः शरवृष्ट्यः समन्ततः ॥
नागान्नागाः समासाद्य व्यधमन्त परस्परम् ।
हया हयांश्च समरे रथिनो रथिनस्तथा ॥
पत्तयः पत्तिसङ्घांश्च हयसङ्घांश्च पत्तयः ।
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च ।
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥
वध्यतां तत्र शूराणां क्रोशतां च परस्परम् ।
घोरमायोधनं जज्ञे पशूनां घातने यथा ॥
रुधिरेण समास्तीर्णा बभौ भारत मेदिनी ।
शक्रगोपगणाकीर्णा प्रावृषीव वसुन्धरा ॥
यथा वा वाससी शुक्ले महारजनरञ्जिते ।
बिभ्रती युवती श्यामा तद्वदासीद्वसुन्धरा ॥
`बद्वचूडामणिधरैः शिरोभिश्चारुकुण्डलैः ।
उज्झितैर्वृषभाक्षाणां भ्राजते स्म वसुन्धरा' ॥
शशशोणितदिग्धेव शातकुम्भमयीव च ।
`भूर्बभौ भरतश्रेष्ठ शान्तार्चिर्भिरिवानलैः ॥'
छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह ।
कुण्डलानां पिनद्धानां भूषणानां च भारत ॥
निष्काणां हेमसूत्राणां शरीराणां च धन्विनाम् ।
चर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि ।
`अगम्यकल्पा पृथिवी सर्वतो भृशकर्दमा' ॥
गजा गजान्समासाद्य विषाणैरार्दयन्नृप ।
विषाणाग्रहतास्तत्र भ्राजन्ते द्विरदोत्तमाः ।
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव ।
`प्रावृट््काले महाराज मेघा इव सविद्युतः' ॥
स्यन्दमाना यथा भान्ति पर्वता धातुमण्डिताः ।
`तथा रेजू रणे नागा रुधिरेण समाप्लुताः' ॥
तोमरान्सादिभिर्मुक्तान्प्रतिमानस्थितान्बहून् ।
हस्तैरुद्धृत्य तान्नागा बभञ्जुश्चापरे रणे ॥
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः ।
हिमागमे यथा राजन्व्यभ्रा इव महीधराः ॥
शरैः कनकपुङ्खैश्च चिता रेर्जुर्गजोत्तमाः ।
उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव भारत ॥
केचिदभ्याहता नागैर्नागा नगवरोपमाः ।
न चेलुः समरात्तस्माच्छिन्नपक्षा इवाद्रयः ॥
अपरे प्राद्रवन्नागाः शरार्ता व्रणपीडिताः ।
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् ।
वेमुश्च बहवो राजंश्चुक्रुशुश्चापरे गजाः ॥
हयाश्च निहता बाणैर्हेमभाण्डविभूषिताः ।
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥
अपरे क्लिश्यमानाश्च व्यवेष्टन्त महीतले ।
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिप ।
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥
धावमानान्परांश्चान्ये दृष्ट्वान्ये तत्र भारत ।
ख्यातानि गोत्रनामानि शशंसुरितरेतरम् ॥
तेषां छिन्ना महाराज भुजाः कनकभूषणाः ।
उद्वेष्टन्ते विवेष्टन्ते भ्रमन्ति ह्युत्पतन्ति च ॥
निपतन्ति तथैवान्ये स्फुरन्ति च सहस्रशः ।
वेगांश्चान्ये रमे चक्रुः पञ्चास्या इव पन्नगाः ॥
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशाम्पते ।
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥
वर्तमाने तथा घोरे सङ्कुले सर्वतो दिशम् ।
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥
भौमेन रजसाकीर्णे शस्त्रसम्पातसङ्कुले ।
नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृताः ॥
तथा तदभवद्युद्धं घोररूपं भयानकम् ।
लोहितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥
शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः ।
अस्थिमीनसमाकीर्णा धनुःशरगदोडुपाः ॥
मांसशोणितपङ्किन्यो घोररूपाः सुदारुणाः ।
नदीः प्रवर्तयामासुः सोणितौघविवर्धिनीः ॥
भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः ।
ता नद्यो घोररूपास्तु नयन्त्यो यमसादनम् ॥
अवगाढान्मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ।
क्रव्यादानां नरव्याघ्र नर्दतां तत्रतत्र ह ॥
घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ।
उत्थितान्यगणेयानि कबन्धानि समन्ततः ॥
नृत्यन्ति वै भूतगणाः सुतृप्ता मांसशोणितैः ।
पीत्वा च शोणितं तत्र वसां भुक्त्वा च भारत ॥
मेदोमज्जावसामत्तास्तृप्ता मांसस्य चैव ह ।
धावमानाः स्म दृश्यन्ते काकगृघ्रबकास्तथा ॥
शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् ।
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥
शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले ।
व्यचरन्त रणे शूराः ख्यापयन्तः स्वपौरुषम् ॥
अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत ।
पितृनामानि च रणे गोत्रनामानि वा विभो ॥
श्रावयाणाश्च बहवस्तत्र योधा विशाम्पते ।
अन्योन्यमवमृद्रन्तः शक्तितोमरपट्टसैः ॥
वर्तमाने तथा युद्धे घोररूपे सुदारुणे ।
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
8-47-4 वृष्ट्यः वृष्टयः ॥ 8-47-47 सप्तचत्वारिंशोऽध्यायः ॥
श्रीः