अध्यायः 049
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 
					कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष ।
						उलूकः सौबलश्चैव राजा च सह सोदरैः ॥
					सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् ।
						समुज्जह्रुः स्म वेगेन भिन्नां नावमिवार्णवे ॥
					ततो युद्धमतीवासीन्मुहूर्तमिव भारत ।
						भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥
					कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे ।
						सृञ्जयांश्छादयामासुः शलभानां व्रजा इव ॥
					शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ ।
						ववर्ष शरवर्षाणि समन्ताद्द्विजपुङ्गवम् ॥
					कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् ।
						शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥
					ततः शिखण्डी कुपितः शरैः सप्तभिराहवे ।
						कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः ॥
					ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः ।
							`ततः सुनिशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषितैः' ।
						
						व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः ॥
						
					हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
						खङ्गं चर्म तथा गृह्य सत्वरं ब्राह्मणं ययौ ॥
					तमापतन्तं सहसा शरैः सन्नतपर्वभिः ।
						वारयामास समरे तदद्भुतमिवाभवत् ॥
					तत्राद्भुतमपश्याम शिलानां प्लवनं यथा ।
						निश्चेष्टो यद्रणे राजञ्छिखण्डी समतिष्ठत ॥
					कृपेण वारितं दृष्ट्वा शिखण्डिनमथो नृप ।
						प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥
					धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति ।
						प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥
					युधिष्ठिरमथायान्तं शारद्वतरथं प्रति ।
						सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत् ॥
					नकुलं सहदेवं च त्वरमाणौ महारथौ ।
						प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥
					भीमसेनं करूशांश्च केकयान्सह सृञ्जयैः ।
						कर्णो वैकर्तनो युद्धे वारयामास भारत ॥
					शिखण्डिने ततो बाणान्कृपः शारद्वतो युधि ।
						प्राहिणोत्तवरया युक्तो बीभत्सोरथ सन्निधौ ॥
					ताञ्छरान्प्रेषितांस्तेन समन्तात्स्वर्णभूषितान् ।
						चिच्छेद खङ्गमाविध्य भ्रामयंश्च पुनः पुनः ॥
					शतचन्द्रं च तच्चर्म गौतमस्तस्य भारत ।
						व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥
					स विचर्मा महाराज खङ्गपाणिरुपाद्रवत् ।
						कृपस्तं शरसङ्घातैराद्रवन्तमपीडयत् ॥
					शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलः ।
						चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥
					विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः ।
						अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥
					दृष्ट्वा विषक्तं तं चैव ब्राह्मणं च निवारितम् ।
						अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥
					सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः ।
						विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥
					अथास्य सशरं चापं पुनश्चिच्छेद मारिष ।
						सारथिं च शरेणास्य मृशं मर्मस्वताडयत् ॥
					गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् ।
						सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥
					स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे ।
						भूमिकम्पे यथा वृक्षश्चचालाकम्पितो भृशम् ॥
					चलतस्तस्य कायात्तुं शिरो ज्वलितकुण्डलम् ।
						सोष्णीषं सशिरस्त्राणं क्षुरप्रेण त्वपातयत् ॥
					तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् ।
						ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत ॥
					तस्मिन्हते महाराज पुत्रास्तस्य पदानुगाः ।
						गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥
					धृष्टद्युम्नं तु समरे सन्निवार्य महारथः ।
						कृतवर्माऽब्रवीद्वृष्टस्तिष्ठतिष्ठेति भारत ॥
					तदभूत्तुमुलं युद्वं वृष्णिपार्षतयो रणे ।
						आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप ॥
					धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः ।
						आजघानोरसि क्रुद्वः पीडयन्हृदिकात्मजम् ॥
					कृतवर्मा तु समरे पार्षतेन दृढाहतः ।
						पार्षतं सरथं साश्वं छादयामास सायकैः ॥
					सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते ।
						मेघैरिव परिच्छन्नो भास्करो जलधारिभिः ॥
					विधूय तं बाणगणं शरैः कनकभूषणैः ।
						व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥
					ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् ।
						कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥
					तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम् ।
						शरैरनेकसाहस्रैर्हार्दिक्योऽवारयद्युधि ॥
					दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम् ।
						कृतवर्माणमासाद्य वारयामास पार्षतः ॥
					`यथा युग्मरथेनाजौ वाहान्वाहेरमिश्रयत् ।
						गृहीत्वा चर्म खङ्गं च रथं तस्यावपुप्लुवे ॥
					मिलितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते ।
						दृष्ट्वाऽपदानं तस्याशु गदां जग्राह सात्वतः ॥
					गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः ।
						तमदृष्ट्वा रथोपस्थे सारथिं समताडयत् ॥
					खङ्गेन शितधारेण स हतः प्रापतद्रथात् ।
						कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह ॥
					पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनःपुनः ।
						स तं न ममृषे युद्वे तलशब्दं समीरितम् ॥
					अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः ।
						अभ्ययात्स तु तत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥
					ततो राजन्महेष्वासं कृतवर्माणमाशु वै ।
						गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत् ॥
					सोऽतिविद्वो बलवता न्यपतन्मूर्च्छया हतः ।
						श्रुतर्वा रथमारोप्य अपोवाह रणाजिरात्' ॥
					धृष्टद्युम्नस्तु समरे दृष्ट्वा शत्रुं महारथः ।
						कौरवान्समरे तूर्णं वारयामास सायकैः ॥
					ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् ।
						सिंहनादरवांश्चक्रुस्ततो युद्धमवर्तत ॥ ॥
					इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
श्रीः
