अध्यायः 064

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
ततः सरथनागाश्वाः पाञ्चालाः पाण्डुसृञ्जयाः ।
सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव ॥
ततः प्रववृते युद्वं तावकानां परैः सह ।
घोरं प्राणभृतां काले भीमरूपं परन्तप ॥
नकुलो वृषसेनं तु विद्ध्वा पञ्चभिरायसैः ।
पितुः समीपे तिष्ठन्तं त्रिभिरन्त्यैरविध्यत ॥
नकुलं तु ततः शूरो वृषसेनो हसन्निव ।
नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम्' ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शन ।
शत्रुं विव्याध विंशत्या सूतं चैवास्य सप्तभिः ॥
ततः शरसहस्रेण तावुभौ पुरुषर्षभौ ।
अन्योन्यमाच्छादयतां तवाभज्यत वाहिनी ॥
स दृष्ट्वा प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः ।
निवारयामास बलादनुपत्य विशाम्पते ॥
`एतस्मिन्नन्तरे युद्धं कष्टमासीद्विशाम्पते' ।
निवृत्ते तु ततः सैन्ये नकुलः कौरवान्ययौ ॥
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु ।
जुगोप चक्रं त्वरितो राधेयस्यैव मारिष ॥
उलूकस्तु रणे क्रुद्धः सहदेवेन मारिष ।
`निवारितः शरशतैः क्रुद्धेन रणमूर्धनि ॥
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥
उलूकस्तु ततो यानादवप्लुत्य विशाम्पते ।
त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः ॥
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः ।
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥
सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् ।
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥
तथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत ।
सारथिं च महाराज त्रिभिरेव समार्पयत् ॥
अथास्य वाहांस्त्वरितः शरैर्नित्ये यमक्षयम् ।
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ ॥
आरुरोह रथं तूर्णमुलूकस्य महात्मनः ।
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥
सात्यकिस्तु रण राजंस्तावकानामनीकिनीम् ।
अभिदुद्राव वेगेन ततोऽनीकमभज्वत ॥
शैनेयशरसञ्छन्नं तव सैन्यं विशाम्पते ।
भेजे दशा दिशस्तूर्णं न्यपतच्च गतासुवत् ॥
भीमसेनं तव सुतो वारयामास संयुगे ॥
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ।
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त वै जनाः ॥
ततोऽपायान्नृपस्तस्माद्भीमसेनभयार्दितः । कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ।
तत्र नादो महानासीद्धीमसेनं जिघांसताम् ॥
युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छदे । अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ।
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ ॥
ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥
उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम् ।
छादयामास सहसा मेघो वृष्ट्येव पर्वतम् ॥
तद्युद्धमासीत्सुमहद्धोररूपं परन्तप ।
तादृशं न मया युद्धं दृष्टपूर्वं विशाम्पते ॥
कृतवर्मा ततो राजन्नुत्तमौजसमाहवे ।
हृदि विव्याध सहसा रथोपस्थ उपाविशत् ॥
सारथिस्तमपोवाह रथेन रथिनां वरम् ।
ततस्तु सात्वतो राजन्पाण्डुसैन्यमभिद्रवत् ॥
[दुःशासनः सौबलश्च गजानीकेन पाण्डवम् ।
महता परिवार्यैव क्षुद्रकैरभ्यताडयत् ॥
ततो भीमः शरशतैर्दुर्योधनममर्षणम् ।
विमुखीकृत्य तरसा गजानीकमुपाद्रवत् ॥
तमापतन्तं सहसा गजानीकं वृकोदरः ।
दृष्ट्वैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत् ॥
गजैर्गजानभ्यहनद्वज्रेणेन्द्र इवासुरान् ॥
ततोऽन्तरिक्षं बाणौघैः शलभैरिव पादपम् ।
छादयामास समरे गजान्निघ्नन्वृकोदरः ॥
ततः कुञ्जरयूथानि समेतानि सहस्रशः ।
व्यधमत्तरसा भीमो मेघसङ्घानिवानिलः ॥
सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः ।
रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः ॥
ते वध्यमाना भीमेन गजा राजन्विदुद्रुवुः ।
केचिद्विभिन्नहृदयाः कुञ्जरा न्यपतन्भुवि ॥
पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः ।
अशोभत मही तत्र विशीर्णैरिव पर्वतैः ॥
दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः ।
रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः ॥
ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा ।
दुद्रुवुः शतशः संख्ये भीमसेनशराहताः ॥
केचिद्वमन्तो रुधिरं भयार्ताः पर्वतोपमाः ।
व्यद्रवञ्छरविद्धाङ्गा धातुचित्रा इवाचलाः ॥
महाभुजगसङ्काशौ चन्दनागुरुरूषितौ ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ ॥
तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम् ।
विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर्भृशम् ॥
भीमसेनस्य तत्कर्म राजन्नेकस्य धीमतः । निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ ॥] ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुःषष्टितमोऽध्यायः ॥ 64 ॥

श्रीः