अध्यायः 066
कर्णबाणपीडितस्य युधिष्ठिरस्य विश्रमाय स्वशिबिरप्रवेशः ॥ 1 ॥
सञ्जय उवाच । 
					कर्णोऽपि शरजालेन केकयानां महारथान् ।
						व्यधमत्परमेष्वासानग्रानीके व्यवस्थितान् ॥
					तेषां प्रयतमानानां राधेयस्य निवारणे ।
						रथान्पञ्चशतान्कर्णः प्राहिणोद्यमसादनम् ॥
					अविषह्यतमं दृष्ट्वा राधेयं युधि योधिनः ।
						भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः ॥
					रथानीकं विदार्यैव शरै राजन्ननेकधा ।
						कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत् ॥
					सेनानिवेशं गच्छन्तं मार्गणैर्भृशपीडितम् ।
						यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम् ॥
					स समासाद्य राजानं दुर्योधनहितेप्सया ।
						सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः ॥
					तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे ।
						शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान् ॥
					चक्ररक्षौ नृपसुतौ माद्रीपुत्रौ परन्तपौ ।
						तावप्यधावतां कर्णं राजानं मा वधीदिति ॥
					तौ पृथक्शरवर्षाभ्यां राधेयं समवर्षताम् ।
						नकुलः सहदेवश्च परमं यत्नमास्थितौ ॥
					तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान् ।
						भल्लाभ्यां शितधाराभ्यां महात्मानावरिन्दमौ ॥
					दन्तवर्णांस्तु राधेयो निजघान मनोजवान् ।
						युधिष्ठिरस्य सङ्ग्रामे कालवालान्हयोत्तमान् ॥
					ततोऽपरेण भल्लेन शिरस्त्राणमपातयत् ।
						कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः ॥
					तथैव नकुलस्यापि हयान्हत्वा महारथः ।
							ततोऽपरेण भल्लेन भृशं तीक्ष्णेन भारत ।
						
						धनुश्चिच्छेद वीरस्य माद्रीपुत्रस्य धीमतः ॥
						
					तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ ।
						भ्रातरावारुरुहतुः सहदेवरथं तदा ॥
					तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा ।
						अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया ॥
					मार्गितव्यस्त्वया कर्ण कुन्तीपुत्रो धनञ्जयः ।
						अतस्त्वं धर्मराजेन किमर्थमिह युध्यसे ॥
					[क्षीणशस्त्रास्त्राकवचः क्षीणबाणो विबाणधिः ।
							श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा ।
						
						पार्थमासाद्य राधेय उपहास्यो भविष्यसि ॥] 
					तथापि कर्णः संरब्धो युधिष्ठिरमपीडयत् ।
						शरैस्तीक्ष्णैर्महावीर्यैर्माद्रीपुत्रौ च पाण्डवौ ॥
					ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह ।
						रथस्थमतिसंरब्धं युधिष्ठिरवधे स्थितम् ॥
					यदर्थं धार्तराष्ट्रेण सततं मानितो भवान् ।
							तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम् ।
						
						`हते यस्मिन्ध्रुवं पार्थः सर्वाञ्जेष्यति नो रथान् ॥
						
					तस्मिन्हि धार्तराष्ट्रस्य निहते तु ध्रुवो जयः ।
							ध्वजोऽसौ दृश्यते तस्य रोचमानोंऽशुमानिव ।
						
						सारो ह्येष महाबाहो किं ते हत्वा युधिष्ठिरम् ॥' 
					शङ्खयोर्ध्मातयोः शब्दः सुमहानेष कृष्णयोः ।
						श्रूयते चापघोषश्च प्रावृषीवाम्बुदस्य ह ॥
					असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः ।
						सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे ॥
					पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ ॥
						
					उत्तरं चास्य वै शूरश्चक्रं रक्षति सांत्यकिः ।
						धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम् ॥
					भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते ।
							यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम् ।
						
						कुरु राधेय वै राजा यथा मुच्येत तत्तथा ॥
						
					xxxx भीमसेनेन ग्रस्तमाहवशोभिना ।
						यदि नामाद्य मुच्येत विस्मयः सुमहान्भवेत् ॥
					परित्राह्येनमभ्येत्य संशयं परमं गतम् ।
						किं नु माद्रीसुतौ हत्वा राजानं वा युधिष्ठिरम् ॥
					इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते ।
						दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे ॥
					राजगृध्नुर्भृशं चैव शल्यवाक्यप्रचोदितः ।
						अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ ॥
					तव पुत्रं परित्रातुमभ्यधावत वीर्यवान् ।
						मद्रराजप्रणुदितैरश्वैराकाशगैरिव ॥
					गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
						अपायाज्जवनैरश्वैः सहदेवस्य मारिष ॥
					[ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः] ।
						प्राप्य सेनानिवेशं स्वं मार्गणैर्भृशविक्षतः ॥
					अवतीर्य रथात्तूर्णमाविशच्छयनं शुभम् ।
						अपेतशल्यो राजा तु हृच्छल्येनाभिपीडितः ॥
					सोऽब्रवीद्धातरौ राजा माद्रीपुत्रौ महारथौ ।
						गच्छन्त त्वरितौ वीरौ यत्र भीमो व्यवस्थितः ॥
					`ततस्ते पाण्डवाः सर्वे समाभाष्य परस्परम् ।
							अनीकं भीमसेनस्य पाण्डवावभ्यगच्छताम्' ।
						
						जीमूत इव नर्दंस्तु युध्यते स वृकोदरः ॥
						
					ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः ।
						सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ ॥
					तुरगैरग्र्यरंहोभिर्यत्र भीमस्तरस्विनौ ।
						अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ ॥ ॥
					इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट््षष्टितमोऽध्यायः ॥ 66 ॥
श्रीः
