अध्यायः 067

पार्थेनाश्वत्थाम्नि पराजिते कर्णेन भार्गवास्त्रप्रयोगात्पाण्डवसेनापीडनम् ॥ 1 ॥

सञ्जय उवाच ।
द्रौणिस्तु रथवंशेन महता परिवारितः ।
अपतत्सहसा राजन्यत्र पार्थो व्यवस्थितः ॥
तमापतन्तं सहसा शूरः शौरिसहायवान् ।
दधार समरे पार्थो वेलेव मकरालयम् ॥
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् ।
अर्जुनं वासुदेवं च च्छादयामास सायकैः ॥
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः ।
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव ।
तदस्त्रं वारयामास ब्राह्मणो युधि भारत ॥
यद्यद्धि व्याक्षिपद्युद्धे फल्गुनोऽस्त्रं जिघांसया ।
तत्तदस्त्रैर्महेष्वासो द्रोणपुत्रो जघान ह ॥
अस्त्रयुद्धे महाराज वर्तमाने महाभये ।
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥
स दिशः प्रदिशश्चैव च्छादयित्वा ह्यजिह्मगैः ।
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥
ततोऽर्जुनो रथान्सर्वान्हत्वा तस्य पदानुगान् । चकार समरे भूमिं शोणितौघपरिप्लुताम् ।
[सर्बलोकवहां रौद्रां परलोकवहां नदीम्] ॥
सरथा रथिनः पेतुः पार्थचापच्युतैः शरैः ॥
[द्रौणेरपहतान्सङ्खे ददृशु स च तां तथा ।
प्रावर्तयन्महाघोरां नदीं परवहां तदा ॥
तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे ।
अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः ॥
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः ।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ॥
पार्थेन समरे राजन्कृतो घोरो जनक्षयः । निहता रथिनः पेतुः पार्थचापच्युतैः शरैः ॥]
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ।
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः ॥
अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान् ।
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥
अवाकिरत्ततो द्रौमिः समन्तान्निशितैः शरैः ।
भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा ॥
वक्षोदेशे भृशं पार्थं ताडयामास निर्दयम् ।
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत ॥
गाण्डीवधन्वा प्रसभं शरवर्षैरुदारधीः ।
सञ्छाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम् ॥
स च्छिन्नधन्वा परिधं वज्रस्पर्शसमं युधि ।
आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने ॥
तमापन्ततं परिघं जाम्बूनदपरिष्कृतम् ।
चिच्छेद सहसा राजन्प्रहसन्निव पाण्डवः ॥
स पपात तदा भूमौ निकृत्तः पार्थसायकैः ।
विकीर्णः पर्वतो राजन्यथा वज्रेण ताडितः ॥
ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः ।
ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत् ॥
तस्येन्द्रजालावततं समीक्ष्य पार्थो राजन्गाण्डिवमाददे सः ।
ऐन्द्रं जालं प्रत्यहरत्तरस्वी वरास्त्रमादाय महेन्द्रसृष्टम् ॥
विदार्य तज्जालमथेन्द्रमुक्तं पार्थस्ततो द्रौणिरथं क्षणेन ।
प्रच्छादयामास ततोऽभ्युपेत्य द्रौणिस्तदा पार्थशराभिभूतः ॥
विगाह्य तां पाण्डवबाणवृष्टिं शरैः परं नाम ततः प्रकाश्य ।
शतेन कृष्णं सहसाभ्यविद्ध्या-- त्त्रिभिः शतैरर्जुनं क्षुद्रकाणाम् ॥
ततोऽर्जुनः सायकानां शतेन गुरोः सुतं मर्मसु निर्बिभेद ।
अश्वांश्च सूतं च तथा धनुर्ज्या-- मवाकिरत्पश्यतां तावकानाम् ॥
स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥
स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छदयच्छरैः ।
तत्राद्भुतमपरश्याम द्रौणेराशु पराक्रमम् ॥
संयच्छंस्तुरगान्यच्च फल्गुनं चाप्ययोधयत् ।
तदस्य समरे राजन्सर्वभूतान्यपूजयन् ॥
`तेनास्य समरे योधास्तुष्टुवुः सर्व एव ते ।
यदा निजगृहे पार्थो द्रोणपुत्रेण धन्विना ॥
तदा प्रहस्य बीभस्तुर्द्रोणपुत्रस्य संयुगे ।
क्षिप्रं रश्मीनथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥
प्राद्रवंस्तुरगास्तस्य शरवेगप्रपीडिताः ।
ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत ॥
पाण्डवास्तु जयं लब्ध्वा तव सैन्यं समाद्रवन् ।
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥
तावकी चतुरङ्गैषा पाण्डवैस्तु महाचमूः ।
पुनःपुनरथो वीरैः प्रभग्ना जितकाशिभिः ॥
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् ।
शकुनेः सौबलेयस्य कर्णस्य च विशाम्पते ॥
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर ।
न चातिष्ठत सङ्ग्रामे पीड्यमाना समन्ततः ॥
ततो योधैर्महाराज पलायद्भिः समन्ततः ।
अभवद्य्वाकुलं भीतं पुत्राणां ते महद्बलम् ॥
तिष्ठतिष्ठेति सततं सूतपुत्रस्य जल्पतः ।
नावतिष्ठति सा सेना वध्यमाना महात्मभिः ॥
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः ।
धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः ॥
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव ।
पश्य कर्ण महासेनां पाण्डवैरर्दितां भृशम् ॥
त्वयि तिष्ठति सन्त्रासात्समन्तात्प्रपलायते ।
एतज्ज्ञत्वा महाबाहो कुरु प्राप्तमरिन्दम ॥
सहस्राणि च योधानां त्वामेव पुरुषोत्तम ।
क्रोशन्ते समरे वीर द्राव्यमाणानि पाण्डवैः ॥
सञ्जय उवाच ।
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् ।
मद्रराजमिदं वाक्यमब्रवीत्प्रहसन्निव ॥
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर ।
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ॥
वाहयाश्वान्नरव्याघ्र मद्राधिप न संशयः ।
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् ॥
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ।
सज्यं कृत्वा महाराज सम्मृज्य च पुनः पुनः ॥
सन्निवार्य च तान्योधान्सत्येन शपथेन च ।
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ॥
तस्माद्राजन्सहस्राणि प्रयुतान्यर्बुदानि च ।
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥
ज्वलितैस्तैः शरैर्घोरैः कङ्कबर्हिणवाजितैः ।
सञ्चन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन ॥
हाहाकारो महानासीत्पाण्डवानां विशाम्पते ।
पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥
निपतद्भिर्गजै राजन्नश्वैश्चापि सहस्रशः ।
रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः ॥
प्राकम्पत मही राजन्निहतैस्तैः समन्ततः ।
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः ।
दहञ्शत्रून्नरव्याघ्रः शुशुभे स परन्तपः ॥
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह ।
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ॥
चुक्रुशुश्च नरव्याघ्र यथाप्राणं नरोत्तमाः ।
तेषां तु क्रोशतां दीनं भीतानां रणमूर्धनि ॥
धावतां च ततो राजंस्त्रस्तानां च समन्ततः ।
आर्तनादो बभूवात्र भूतानामिव सम्प्लुवे ॥
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष ॥
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥
ते वध्यमाताः समरे सूतपुत्रेण सृञ्जयाः । अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्मुहुः ।
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥
श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः । अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धऩञ्जयः ।
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम् ॥
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् ।
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ॥
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे ।
अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम् ॥
अभीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः ।
नच शक्ष्यामि कर्णस्य संयुगेऽहं पलायितुम् ॥
जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ ।
मृतस्य तु हृपीकेश भङ्ग एव कुतो जयः ॥
एष कर्णो रणे भाति मध्याह्न इव भास्करः ।
निवर्तय रथं कृष्ण जीवन्भद्राणि पश्यति ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तद्वशदिवसयुद्धे सप्तषष्टितमोऽध्यायः ॥ 67 ॥

श्रीः