अध्यायः 083
पार्थचोदनया कृष्णेन कर्णसमीपम्प्रति रथप्रापणम् ॥ 1 ॥ शल्येन कर्णप्रोत्साहनम् ॥ 2 ॥ कर्णेन पार्थप्रशंसनपूर्वकं तद्वधप्रतिज्ञा ॥ 3 ॥ सङ्कुलयुद्धम् ॥ 4 ॥
सञ्जय उवाच ।
हत्वा तु फल्गुनः सेनां कौरवाणां पृथक्पृथक् ।
सूतपुत्रस्य संरम्भं दृष्ट्वा चैव महारणे ॥
शोणितोदां नदीं कृत्वा मांसमज्जास्थिपङ्किलाम् ।
मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम् ॥
शूरास्थित्तयसङ्कीर्णां काकगृध्रानुनादिताम् ।
छत्रहंसप्लुवोपेतां वीरवृक्षापहारिणीम् ॥
हारपद्माकरवतीमुष्णीषवरफेनिलाम् ।
धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम् ॥
चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम् ।
जयैषिणां च सुतरां भीरूणां च सुदुस्तराम् ॥
नदीं प्रावर्तयित्वा च बीभत्सुः परवीरहा ।
वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभः ॥
अर्जुन उवाच ।
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते ।
भीमसेनादयश्चैते योधयन्ति महारथम् ॥
एते द्रवन्ति पाञ्चालाः कर्मत्रस्ता जनार्दन ।
एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यते ॥
कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥
एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ।
अवध्यमानास्तेऽस्माभिर्योधयिष्यन्ति सोमकान् ॥
एष शल्यो रथोपस्थे रश्मिसङ्ग्राहकोविदः ।
सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥
तत्र मे बुद्धिरुत्पन्ना वाहयात्र रथं मम ।
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ॥
मा स्म कर्णो रणे पार्थान्सृञ्जयांश्च महारथान् ।
निःशेषान्समरे कुर्यात्पश्यतां नो जनार्दन ॥
सञ्जय उवाच ।
ततः प्रायाज्जवेनाशु केशवस्तव वाहिनीम् ।
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिनः ॥
स प्रयातो रथेनाशु कृष्णो राजन्महाहवे ।
आश्वासयन्रणे चाशु पाण्डुसैन्यानि सर्वशः ॥
रथघोषस्ततस्तस्य पाण्डवस्य बभूव ह ।
वासवास्त्रनिपातेन पर्वतेष्विव मारिष ॥
महता रथघोषेण पाण्डवः सत्यविक्रमः ।
अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम् ॥
तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् ।
मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः ।
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥
एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः ।
तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥
धनुर्ज्या चन्द्रताराङ्का पताकाकिङ्किणीयुता ।
पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा ॥
एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः ।
दृश्यते वानरो भीमो वीक्षतां भयवर्धनः ॥
एतच्चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो ।
दृश्यते पाण्डवरथे वाहयानस्य वाजिनः ॥
एतत्कूजति गाण्डीवं विसृष्टं सव्यसाचिना ।
एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः ॥
विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः ।
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् ॥
एते परिघसङ्काशाः पुण्यगन्धानुलेपनाः ।
उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः ॥
निरस्तजिह्वा नेत्रान्ता वाजिनः सह सादिभिः ।
पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते ॥
एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः ।
सञ्छिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा ॥
गन्धर्वनगराकारा रथा हतनरेश्वराः ।
विमानादिव पुण्यान्ते स्वर्गिणो निपतन्त्यमी ॥
व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना ।
नानामृगसहस्राणां यूथं केसरिणा यथा ॥
त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्वरान्रथान् ।
असज्जमानो राधेय तं याहि प्रति भारत ॥
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः ।
अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥
वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः ।
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥
न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित्सह ।
त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥
विरथं धर्मराजं तु दृष्ट्वा सुदृढविक्षतम् ।
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥
द्रौपदेयान्युधामन्युमुत्तमौजसमेव च ।
नकुलं सहदेवं च वशगांस्ते समीक्ष्य तु ॥
सहसैकरथः पार्थस्त्वामभ्येति परन्तपः ।
क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वपार्थिवान् ॥
त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् ।
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥
न तं पश्यामि लोकेऽस्मिंस्त्वत्तो ह्यन्यं धनुर्धरम् ।
अर्जुनं समरे क्रुद्धं यो वेलामिव वारयेत् ॥
न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः ।
एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥
त्वं हि कृष्णौ रणे शक्तो योद्धुमेतौ परन्तपौ ।
तवैव भारो राधेय प्रत्युद्याहि धनञ्जयम् ॥
समानो ह्यसि भीष्मेण द्रोमद्रौणिकृपेण च ।
सव्यसाचिनमायान्तं निवारय महारणे ॥
लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा ।
वनस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ॥
एते द्रवन्ति समरान्निरपेक्षा नराधिपाः ।
अर्जुनस्य भयत्रस्ता धार्तराष्ट्रा महाबलाः ॥
द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः ।
भयहा यो भवेद्वीरस्त्वामृते सूतनन्दन ॥
एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे ।
धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥
वैदेहाम्बष्ठकाम्भोजास्तथा नग्नजितस्त्वया ।
गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः ।
तां धृतिं कुरुराधेय ततः प्रत्येहि पाण्डवम् ॥
वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ।
प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः ॥
कर्ण उवाच ।
प्रकृतिस्थोऽसि मे शल्य इदानीं सम्मतस्तथा ।
प्रतिभासि महाबाहो अभीतश्च धनञ्जयात् ॥
पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे ।
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥
कृष्णौ च पुरुषव्याघ्र ततः सत्यं ब्रवीमि ते ।
नाहत्वा युधि तौ वीरौ व्यपयास्ये कथञ्चन ॥
शिश्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः ।
कृतार्थोऽद्य भविष्यामि हत्वा वाप्यथ वा हतः ॥
शल्य उवाच ।
अजय्यमेनं प्रवदन्ति युद्धे
महारथाः कर्ण रथप्रवीरम् ।
एकाकिन किमु कृष्णाभिगुप्तं
विजेतुमेनं क इहोत्सहेत ॥
कर्ण उवाच ।
नैतादृशो जातु बभूव लोके
रथोत्तमो यावदुपश्रुतं नः ।
तमीदृशं प्रतियोत्स्यामि पार्थं
महाहवे पश्य च पौरुषं मे ॥
रणे चरत्येष रथप्रवीरः
सितैर्हयैः कौरवराजपुत्रः ।
स वाऽद्य मां नेष्यति कृच्छ्रमेत--
त्कर्णोऽस्यान्तेऽप्यत्र भवेत्समर्थः ॥
अस्वेदिनौ राजपुत्रस्य हस्ता--
ववेपमानौ जातकिणौ बृहन्तौ ।
दृढायुधः कृतिमान्क्षिप्रहस्तो
न पाण्डवेयेन समोऽस्ति योधः ॥
गृह्णात्यनेकानपि कङ्कपत्रा--
नेकं यथा तान्प्रतियोज्य चाशु ।
ते क्रोशमात्रे निपतन्त्यमोधाः
कस्तेन योधोऽस्ति समः पृथिव्याम् ॥
अतोषयत्स्वाण्डवे यो हुताशं
कृष्णद्वितीयोऽतिरथस्तरस्वी ।
लेभे चक्रं यत्र कृष्णो महात्मा
धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥
श्वेताश्वयुक्तं च सुघोषमुग्रं
रथं महाबाहुरदीनसत्वः ।
महेषुधी चाक्षये दिव्यरूपे
शस्त्राणि दिव्यानि च हव्यवाहात् ॥
यस्त्विन्द्रलोके निजघान दैत्या--
नसङ्ख्येयान्कालकेयांश्च सर्वान् ।
लेभे शङ्खं देवदत्तं स्म तत्र
को नाम तेनाभ्यधिकः पृथिव्याम् ॥
महादेवं तोषयामास योऽस्त्रैः
साक्षात्सुयुद्धेन महानुभावः ।
लेभे ततः पाशुपतं सुघोरं
त्रैलोक्यसंहारकरं महास्त्रम् ॥
पृथक्पृथग्लोकपालाः समेता
ददुर्महास्त्राण्यप्रमेयाणि सङ्ख्ये ।
यैस्ताञ्जघानाशु रणे नृसिंहः
सकालकेयानसुरान्समेतान् ॥
तथा विराटस्य पुरे समेता--
न्सर्वानस्मानेकरथेन जित्वा ।
जहार तद्रोधनमाजिमध्ये
वस्त्राणि चादत्त महारथेभ्यः ॥
तमीदृशं वीर्यगुणोपपन्नं
कृष्णद्वितीयं परमं नृपाणाम् ।
तमाह्वयन्साहसमुत्तमं वै
जाने स्वयं सर्वलोकस्य शल्य ॥
अनन्तवीर्येण च केशवेन
नारायणेनाप्रतिमेन गुप्तः ।
वर्षायुतैर्यस्य गुणा न शक्या
वक्तुं समेतैरपि सर्वलोकैः ॥
महात्मनः शङ्खचक्रासिपाणे--
र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ।
भयं न मे जायते साध्वसं च
दृष्ट्वा कृष्णावेकरथे समेतौ ॥
अतीवायं धनुषि राजपुत्रे--
ष्वतीवान्यान्केशवश्चक्रयुद्धे ।
एवंविधौ पाण्डववासुदेवौ
चलेत्स्वदेशाद्विमवान्न कृष्णौ ॥
उभौ हि शूरौ बलिनौ दृढायुधौ
महारथौ संहननोपपन्नौ ।
एतौ वीरौ नरवीरौ समेतौ
स्थानाच्च्युतौ देवकुमाररूपौ ॥
अग्र्यादित्याविन्द्रवृहस्पती वा
यमान्तकौ वा शत्रिपूषणौ वा ।
भगांशमित्रावरुणावश्विनौ वा
मरुद्गणौ वा वसवः समेताः ।
व्यस्ताः समस्ताश्च युधा न शक्ता
जेतुं प्रसह्यार्जुनं चाच्युतं च ॥
एतौ हि तावर्जुनवासुदेवौ
कोऽन्यः प्रतीयान्मदृते तु शल्य ॥
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता ।
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ॥
तावुभौ पुरुषव्याघ्रौ समाने स्यन्दने स्थितौ ।
मामेकमभियोद्धारौ सुजातं बत शल्य मे ॥
नैतच्चिरं क्षिप्रमिमं रथं मे
प्रवर्तयैतावभियामि चैवम् ।
अस्मिन्मुहूर्ते निहतौ पश्य कृष्णौ
ताभ्यां हतं वा युधि मां रिपुभ्याम् ॥
एवं ब्रुवाणः सहसा महारथ--
स्त्वभ्यद्रवत्पाण्डवं सूतपुत्रः ॥
अभ्येत्य पुत्रेण तवाभिनन्दिताः
समेत्य चोक्ताः कुरुवीरसत्तमाः ।
कृपश्च भोजश्च महारथावुभौ
तथैव गान्धारपतिः सहानुजः ।
गुरोः सुतस्तस्य तवात्मजास्तथा
पदातिसङ्घा द्विरदास्तथा तदा ॥
निरुध्यताभिद्रवताच्युतार्जुनौ
श्रमेण संयोजयताशु सर्वशः ।
यथा भवद्भिर्भृशविक्षतावुभौ
सुखेन हन्यान्मम वाहिनीपतिः ॥
तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं
जिघांसवो वीरतराः समाययुः ।
शरैश्च जघ्नुर्युधि तं महारथा
धनञ्जयं कर्णनिदेशकारिणः ।
नदीनदं भूरिजलो महार्णवो
यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥
न सन्दधानो न तथा शरोत्तमान्
प्रमुञ्चमानो रिपुभिः प्रदृश्यते ।
धनञ्जयास्तैः स्म शरैर्विदारिता
हता निपेतुर्नरवाजिकुञ्जराः ॥
शरार्चिषं गाण्डिवचारुमण्डलं
युगान्तसूर्यप्रतिमानतेजसम् ।
न कौरवाः शेकुरुदीक्षितुं जयं
यथा रविं व्याधितचक्षुषो जनाः ॥
शरोत्तमान्सम्प्रहितान्महारथै
श्चिच्छेद पार्थः प्रहसञ्छरौधैः ।
भूयश्च तानहनद्बाणसङ्घान्
गाण्डीवधन्वायतपूर्णमण्डलम् ॥
यथोग्ररश्मिः शुचिशुक्रमध्यगः
सुखं विवस्वान्हरते जलौघान् ।
तथार्जुनो बाणगणान्निरस्य
ददाह सेनां तव पार्थिवेन्द्र ॥
तमभ्यधावद्विसृजन्कृपः शरां--
स्तथैव भोजस्तव चात्मजः स्वयम् ।
महारथो द्रोणसुतश्च सायकै--
रवाकिरंस्तोयधरा यथाऽचलम् ॥
जिघांसुभिस्तान्कुशलैः शरोत्तमान्
महात्मभिः सम्प्रहितान्प्रयत्नतः ।
शरैः प्रतिच्छेद स पाण्डवस्त्वरन्
परान्विनिर्भिद्य च तांस्त्रिभिस्त्रिभिः ॥
स गाण्डिवव्यायतपूर्णमण्डल--
स्तपन्रिपूनर्जुनभास्करो वभौ ।
शरोग्रश्मिः शुचिशुक्रमध्यगो
यथैव सूर्यः परिवेयवांस्तथा ॥
अथाग्र्यबाणैर्दशभिर्धनञ्जयं
पराभिनद्दोणसुतोऽच्युतं त्रिभिः ।
चतुर्भिरश्वांश्चतुरः कपिं ततः
शरैश्च नाराचवरैरवाकिरत् ॥
तथा ततः प्रस्फुरदस्य कार्मुकं
त्रिभिः शरैर्यन्तृशिरश्चकर्त ह ।
हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं
धनञ्जयो द्रौणिरथादपातयत् ॥
स रोषपूर्णो ह्मतिवज्रहाटकै---
रलङ्कृतं तक्षकभोगवर्चसम् ।
स तद्वधे कार्मुकमन्यदाददे
यथा महाहिप्रवरं तथैव च ॥
स्वमायुधं चापि विकीर्य भूतले
धनुश्च कृत्वा सगुणं गुणाधिकः ।
समानयंसल्तावजितौ नरोत्तमौ
शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥
कृपश्च भोजश्च तवात्मजश्च ते
शरैरनेकैर्युधि पाण्डवर्षभम् ।
महारथाः संयुगमूर्धनि स्थिता--
स्तमोनुदं वारिधरा इवापतन् ॥
कृपस्य पार्थः शरं शरासनं
हयान्ध्वजान्सारधिमेव पत्रिभिः ।
[समार्पयद्वाहुसहस्रविक्रम--
स्तथा यथा वज्रधरः पुरा बलेः ॥
स पार्थबाणैर्विनिपातितायुधो
ध्वजावमर्दे च कृते महाहवे ।
कृतः कृपो बाणसहस्रयनितो
यथापगेयः प्रथमं किरीटिना ॥]
शरैः प्रचिच्छेद तवात्मजस्य
ध्वजं धनुश्च प्रचकर्त नर्दतः ।
जघान चाश्वान्कृतवर्मणः शुभान्
ध्वजं च चिच्छेद तवात्मजस्य ह ॥
सवाजिसूतेष्वसनान्सकेतना--
ञ्जयान नागाश्वरथांश्च स त्वरन् ।
ततः प्रकीर्णं सुमहद्वलं तव
प्रपीडितं सवितुरिवौजसा भृशम् ॥
ततोऽर्जुनस्वाशु रथेन केशव--
श्चकार शत्रूनपसव्यमातुरान् ।
ततः प्रयातं त्वरितं धनञ्जयं
शतक्रतुं वृत्रनिजघ्रुषं यथा ।
समन्वधावन्पुनरुत्थितैर्ध्वजै
रथैः सुयुक्तैरपरे युयुत्सवः ॥
अथाभिसृत्य प्रतिवार्य चाहितान्
धनञ्जयस्यानुचरान्महारथाः ।
शिखण्डिशैनेययमाः शितैः शरै---
र्विदारयन्तो व्यनदन्सुभैरवम् ॥
ततोऽभिजघ्नुः कुपिताः परस्परं
शरैस्तदाञ्चोगतिभिः सुतेजनैः ।
कुरुप्रवीराः सह पृञ्जयैर्यथा
सुरारयो देवपतिं यथा तथा ॥
जयेप्सवः स्वर्गमनाय चोत्सुकाः
पतन्ति नागाश्वरथाः परन्तप ।
तथैव सर्वे बहवश्च विव्यधुः
शरैः सुमुक्तैरितरेतरं पृथक् ॥
शरान्धकारे तु महात्मभिः कृते
महामृधे योधवरैः परस्परम् ।
चतुर्दिशो वै विदिशश्च पार्थिव
प्रभा च सूर्यस्य तमोवृताऽभवत् ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥
8-83-81 शुचिशुकयोः आषाढज्येष्ठयोर्मध्ये गतः ॥ 8-83-94 तथार्जुनस्याविरथेन केशव इति ख.ट.पाठः । अथार्जुनस्याधिरथेश्च केशव इति क.ङ.पाठः ॥ 8-83-83 त्र्यशीतितमोऽध्यायः ॥
श्रीः