अध्यायः 090

अर्जुनेन कर्णसूनोर्वृषसेनस्य वधः ॥ 1 ॥

सञ्जय उवाच ।
ततः किरीटि परवीरघाती हताश्वमालोक्य नरप्रवीरः ।
माद्रीसुतं नकुलं लोकमध्ये समीक्ष्य कृष्णं भृशविक्षतं च । समभ्यधावद्वृषसेनमाहवे स सूतजस्य प्रमुखे स्थितस्तदा ॥
तमापतन्तं नरवीरमुग्रं महाहवे बाणसहस्रधारिणम् ।
अभ्यापतत्कर्णसुतो महारथं यथा महेन्द्रं नमुचिः पुरा तथा ॥
तौ तत्र शूरौ रथकुञ्जरौ रणे परस्परस्याभिमुखौ महारथौ ।
ससर्जतुः शरसङ्घाननेका-- न्सम्भ्रान्तरूपौ सुभृशं तदानीम् ॥
ततो द्रुतं चैकशरेण पार्थं शितेन विद्ध्वा युधि कर्णपुत्रः ।
ननाद नादं सुमहानुभावो विद्ध्वेव शक्रं नमुचिः स वीरः ॥
पुनः स पार्थं वृषसेन उग्रै-- र्बाणैरविद्ध्यद्भुजमूले तु सव्ये ।
तथैव कृष्णं नवभिः समार्दय-- त्पुनश्च पार्थं दशभिर्जघान ॥
पूर्वं यथा वृषसेनप्रयुक्तै-- रभ्याहतः श्वेतहयः शरैस्तैः ।
संरम्भमीषद्गमितो वधाय कर्णात्मजस्याथ मनः प्रदध्रे ॥
ततः किरीटि रणमूर्ध्नि कोपात् कृत्वा त्रिशाखां भ्रुकुटिं ललाटे ।
मुमोच तूर्णं विशिखान्महात्मा वधे धृतः कर्णसुतस्य सङ्ख्ये । आरक्तनेत्रोऽन्तकशत्रुहन्ता उवाच कर्णं भृशमुत्स्मयंस्तदा ॥
दुर्योधनं द्रौणिमुखांश्च सर्वा-- नहं रणे वृषसेनं तमुग्रम् ।
सम्पश्यतः कर्ण तवाद्य सङ्ख्ये नयामि लोकं निशितैः पृषत्कैः ॥
ऊनं च तावद्धि जना वदन्ति सर्वैर्भवद्भिर्मम सूनुर्हतोऽसौ ।
एको रथो मद्विहीनस्तरस्वी अहं हनिष्ये भवतां समक्षम् ॥
संरक्ष्यतां रथसंस्थाः सुतोऽय-- महं हनिष्ये भवतां समक्षम् ॥
पश्चाद्वधिष्ये त्वामपि सम्प्रमूढ-- महं हनिष्येऽर्जुन आजिमध्ये ॥
तमद्य मूलं कलहस्य सङ्ख्ये दुर्योधनापाश्रय जातदर्पम् ।
त्वामद्य हन्ताऽस्मि रणे प्रसह्य अस्यैव हन्ता युधि भीमसेनः । दुर्योधनस्याधमपूरुषस्य यस्यानयादेष महान्क्षयोऽभवत् ॥
स एवमुक्त्वा विनिमृज्य चापं लक्ष्यं हि कृत्वा वृषसेनमाजौ ।
ससर्ज बाणान्विशिखान्महात्मा वधाय राजन्कर्णसुतस्य सङ्ख्ये ॥
विव्याध चैनं दशभिः पृषत्कै-- र्मर्मस्वशङ्कं प्रहसन्किरीटी ।
चिच्छेद चास्येष्वसनं भुजौ च क्षुरैश्चतुर्भिर्निशितैः शिरश्च ॥
स पार्थबाणाभिहतः पपात रथाद्विबाहुर्विशिरा धरायाम् ।
सुपुष्पितो वज्रहतोऽतिमात्रो भग्नो यथा साल इवावकृत्तः ॥
तं पार्थबाणाभिहतं पतन्तं सम्प्रेक्ष्य कर्णः सुतमाशुकारी ।
रथं रथेनाशु जगाम रोषा-- त्किरीटिनः पुत्रवधाभितप्तः ॥ 8-90-1x1 सञ्जय उवाच । 8-90-1a1 तमायान्तमभिप्रेक्ष्य वेलोद्वृत्तमिवार्णवम् । 8-90-1b1 गर्जन्तं सुमहाकायं दुर्निवारं सुरैरपि । 8-90-1c1 अर्जुनं प्राह दाशार्हः प्रहस्य पुरुषर्षभः ॥ 8-90-2a2 अर्य सरथ आयासि श्वेताश्वः शल्यसारथिः । 8-90-2b2 येन ते सह योद्धव्यं स्थिरो भव धनञ्जय ॥ 8-90-3a3 पश्य चैनं समायुक्तं रथं कर्णस्य पाण्डव । 8-90-3b3 श्वेतवाजिसमायुक्तं युक्तं राधासुतेन च ॥ 8-90-4a4 नानापताकाकलिलं किङ्किणीजालमालिनम् । 8-90-4b4 उह्यमानमिवाकाशो विमानं पाण्डुरैर्हयैः ॥ 8-90-5a5 ध्वजं च पश्य कर्णस्य नागकक्षं महात्मनः । 8-90-5b5 आखण्डलधनुःप्रख्यमुल्लिखन्तमिवाम्बरम् ॥ 8-90-6a6 पश्य कर्णं समायान्तं धार्तराष्ट्रप्रियैषिणम् । 8-90-6b6 शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ॥ 8-90-7a7 एष मद्रेश्वरो राजा रथाग्रे पर्यवस्थितः । 8-90-7b7 नियच्छति हयानस्य राधेयस्यामितौजसः ॥ 8-90-8a8 शृणु दुन्दुभिनिर्घोषं शङ्खशब्दं च दारुणम् । 8-90-8b8 सिंहनादांश्च विविधाञ्शृणु पाण़्डव सर्वतः ॥ 8-90-9a9 अन्तर्धाय महाशब्दान्कर्णेनामिततेजसा । 8-90-9b9 दोधूयमानस्य भृशं धनुषः शृणु निःस्वनम् ॥ 8-90-10a10 एते दीर्यन्ति सगणाः पाञ्चालानां महारथाः । 8-90-10b10 दृष्ट्वा केसरिणं क्रुद्धं मृगा इव महावने ॥ 8-90-11a11 सर्वयत्नेन कौन्तेय हन्तुमर्हसि सूतजम् । 8-90-11b11 न हि कर्णशरानन्यः सोढुमुत्सहते नरः ॥ 8-90-12a12 सदेवासुरगन्धर्वांस्त्रीँल्लोकान्सचराचरान् । 8-90-12b12 त्वं हि जेतुं रणे शक्तस्तथैव विदितं मम ॥ 8-90-13a13 भीममुग्रं महात्मानं त्र्यक्षं शर्वं कपर्दिनम् । 8-90-13b13 न शक्ता द्रष्टुमीशानं किं पुनर्योधितुं प्रभुम् ॥ 8-90-14a14 त्वया साक्षान्महादेवः सर्वभूतशिवः शिवः । 8-90-14b14 युद्धेनाराधितः स्थाणुर्देवाश्च वरदास्तव ॥ 8-90-15a15 तस्य पार्थ प्रसादेन देवदेवस्य शूलिनः । 8-90-15b15 जहि कर्णं महाबाहो नमुचिं वृत्रहा यथा ॥ 8-90-16a16 श्रेयस्तेऽस्तु सदा पार्थ युद्धे जयमवाप्नुहि ॥ 8-90-16b17x अर्जुन उवाच । 8-90-17a17 ध्रुव एव जयः कृष्ण मम नास्त्यत्र संशयः । 8-90-17b17 सर्वलोकगुरुर्यस्त्वं तुष्टोऽसि मधुसूदन ॥ 8-90-18a18 चोदयाश्वान्हृषीकेश रथं मम महारथ । 8-90-18b18 नाहत्वा समरे कर्णं निवर्तिष्यति फल्गुनः ॥ 8-90-19a19 अद्य कर्णं हतं पश्य मच्छरैः शकलीकृतम् । 8-90-19b19 मां वा द्रक्ष्यसि गोविन्द कर्णेन निहतं शरैः ॥ 8-90-20a20 उपस्थितमिदं घोरं युद्धं त्रैलोक्यमोहनम् । 8-90-20b20 यज्जनाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ॥ 8-90-21a21 एवं ब्रुवंस्तदा पार्थः कृष्णमक्लिष्टकारिणम् । 8-90-21b21 प्रत्युद्ययौ रथेनाशु गजं प्रतिगजो यथा ॥ 8-90-22a22 पुनरप्याह तेजस्वी पार्थः कृष्णमरिन्दम । 8-90-22b22 चोदयाश्वान्हृषीकेश कालोऽयमतिवर्तते ॥ 8-90-23a23 एवमुक्तस्तदा तेन पाण़्डवेन महात्मना । 8-90-23b23 जयेन सम्पूज्य स पाण्डवं तदा 8-90-23c23 प्रचोदयामास हयान्मनोजवान् ॥ 8-90-24a24 स पाण्डुपुत्रस्य रथो मनोजवः 8-90-24b24 क्षणेन कर्णस्य रथाग्रगोऽभवत् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे नवतितमोऽध्यायः*॥ 90 ॥

8-90-9 ऊनमिति । अभिमन्युं साधनैरिति शेषः । साधनैरूनं वदन्तीत्यन्वयः ॥ 8-90-90 नवतितमोऽध्यायः ॥ 8-90-* एतदनन्तरं झ.पुस्तके एकोऽध्यायोऽधिको दृश्यते ।

श्रीः