अध्यायः 095
रणे कर्णस्यार्जुनसाम्यमसहमानेन भीमेन सकोपं पार्थप्रोत्साहनम् ॥ 1 ॥
सञ्जय उवाच ।
तौ शङ्खभेरीनिनदे समृद्धे
समीयतुः श्वेतहयौ नराग्र्यौ ।
वैकर्तनः सूतपुत्रोऽर्जुनश्च
दुर्मन्त्रिते ते ससुतस्य राजन् ॥
`आशीविषावग्निमिवोत्सृजन्तौ
तथा मुखाभ्यामभिनिः श्वसन्तौ ।
यशस्विनौ जज्वलतुर्मृधे तदा
घृतावसिक्ताविव हव्यवाहौ' ॥
यथा गजौ हैमवतौ प्रभिन्नौ
प्रवृद्धदन्ताविव वासितार्थे ।
तथा समाजग्मतुरुग्रवीर्यौ
धनञ्जयश्चाधिरथिश्च वीरौ ॥
बलाहकेनेव महाबलाहको
यदृच्छया वा गिरिणा यथा गिरिः ।
तथा धनुर्ज्यातलनेमिनिःस्वनौ
समीयतुस्ताविषुवर्षवर्षिणौ ॥
शरास्त्रशक्त्यृष्टिगदासिसर्पौ
रोषानिलोद्वूतमहोर्मिमालौ ।
यथाऽचलौ द्वौ चलतस्तथा तौ
यथाऽर्णवौ चाशु चतुर्युगान्ते' ॥
प्रवृद्धशृङ्गद्रुमवीरुदोषधी
प्रवृद्वनानाविधनिर्झरौघौ ।
यथाऽचलौ वा चलितौ महाजलै--
स्तथा महास्त्रैरितरेतरं हतः ॥
स सन्निपातो रथयोर्महानभू--
त्सुरेशवैरोचनयोर्यथा पुरा ।
शरैर्विनुन्नाश्वनियन्तृदेहयोः
सुदुःसहास्त्रैः परिभिन्नदेहयोः ॥
प्रभूतपद्मोत्पलमत्स्यकच्छपौ
महाहदौ पक्षिगणानुनादितौ ।
सुसन्निकृष्टावनिलोद्धतौ यथा
तथा रथौ तौ ध्वजिनौ समीयतुः ॥
उभौ महेन्द्रस्य समानविक्रमा--
वुभौ महेन्द्रप्रतिमौ महारथौ ।
महेन्द्रवज्रप्रतिमैश्च सायकै--
र्महेन्द्रवृत्राविव सम्प्रजघ्नतुः ॥
सनागपत्त्यश्वरथे उभे बले
विचित्रवर्माभरणाम्बरायुधे ।
चकम्पतुश्चोन्नदतुश्च विस्मया--
द्धरा वियच्चार्जुनकर्णसङ्गमे ॥
भुजाः सवस्त्राङ्गुलयः समुच्छ्रिताः
ससिंहनादैर्हृषितैर्दिदृक्षुभिः ।
यदाऽर्जुनं मत्त इव द्विपो द्विपं
समभ्ययादाधिरथिर्जिघांसया ॥
उदक्रोशन्सोमकास्तत्र पार्थं
त्वरस्व याह्यर्जुन भिन्धि कर्णम् ।
छिन्ध्यस्य मूर्धानमलं चिरेण
श्रद्धां च राज्याद्वृतराष्ट्रसूनोः ॥
तथाऽस्माकं बहवस्तत्र योधाः
कर्णं तथा याहि याहीत्यवोचन् ।
जह्यर्जुनं कर्ण ततः सुदीनाः
पुनर्वनं यान्त्वचिराय पार्थाः ॥
कर्णोऽथ पूर्वं दशभिः पृषत्कै--
र्गाण्डीवधन्वानमविध्यदाशु ।
जघान तं चापि ततः किरीटी
शरैस्तदाष्टादशभिः सुमुक्तैः ॥
पुनश्च कर्णस्त्वरितोऽपि पार्थं
रथेषुभिस्तं दशभिर्जघान ।
तं चापि पार्थो दशभिः शिताग्रैः
कक्ष्यान्तरे तीक्ष्णमुखैरविध्यत् ॥
कर्णस्ततो भारत साम्पराये
घोरेऽतिवेलं रणसंविमर्दी ।
जघान पार्थं नवभिः शिताग्रैः
कक्ष्यान्ते नागमिव प्रभिन्नम् ॥
ततोऽपराभ्यां युधि सूतपुत्रो
द्वाभ्यां क्षुराभ्यां हरिमाशुकारी ।
समाजघान त्वरया महात्मा
यथा सुरेन्द्रं नमुचिः प्रसह्य ॥
तं पाण़्डवः पञ्चभिरायसाग्रै--
राकर्णपूर्णैर्निजघान कर्णम् ।
ते शोणितं तस्य पपुस्तदानीं
कालस्य दूता इव पार्थबाणाः ॥
कर्णोऽपि पार्थं सह वासुदेवं
समाचिनोद्भारत वत्सदन्तैः ।
परस्परं तौ विशिखैः प्रमुक्तै--
स्ततक्षतुः सूतपुत्रोऽर्जुनश्च ॥
परस्परं छिद्रदिदृक्षया च
सुभीममभ्याययतुः प्ररुष्टौ ॥
ततोऽस्त्रमाग्नेयममित्रतापनं
मुमोच कर्णाय सुरेश्वरात्मजः ।
धनञ्जयात्संयुगमूर्ध्नि निःसृतं
तदा प्रजज्वाल तदस्त्रमुत्तमम् ॥
समीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं
स वारुणं तत्प्रशमार्थमाहवे ।
समुत्सृजत्सूतपुत्रः प्रतापवान्
स तेन वह्निं शमयाञ्चकार ॥
वलाहकास्त्रेण दिशस्तरस्वी
चकार सर्वास्तिमिरेण संवृताः ।
अपावहन्मेघगणांस्ततस्तान्
समीरणास्त्रेण समीरितेन ॥
ततः सोऽस्त्रं दयितं देवराज्ञः
प्रादुश्चक्रे वज्रममित्रतापनः ।
गाण्डीवज्या विमृशंश्चातिमन्यु--
र्धनञ्जयः शत्रुसङ्घप्रमाथी ॥
नाराचनालीकवराहकर्णा
गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः ।
सहस्रशो वज्रसमानवेगा--
स्ते सर्वतः पर्यधावन्त घोराः ॥
पार्थेषवः कर्णरथं विलग्ना
अधोमुखाः पक्षिगणा दिनान्ते ।
निशानिकेतार्थमिवाशु वृक्षं
जग्राह तान्सूतपुत्रः पृषत्कैः ॥
क्षिप्तांस्तथा पाण्डवबाणसङ्घा--
नमृष्यमाणस्य धनञ्जयस्य ।
रणाजिरे त्वन्तकतुल्यकर्मा
वैकर्तनो रोषपरीतचेताः ॥
ज्योतिष्प्रभां यद्वदुपागतः स--
न्दिवाकरो नाशयते क्षणेन ।
पार्थस्य तान्बाणगणान्समग्रा--
न्व्यनाशयद्युध्यत एव कर्णः ॥
रोषात्प्रदीप्तः सुमहाविमर्दे
भीमस्ततोऽक्रुध्यददीनसत्वः ।
पाणिं स्वपाणौ स विनिष्पिष्य रोषा--
दमर्षितो वाक्यमुवाच पार्थम् ॥
त्वां सूतपुत्रो नु कथं किरीटि--
न्रथेषुभिर्हन्ति शिताग्रधारैः ।
धृत्या हि भूतानि ययाऽजयस्त्वं
ग्रासं ददत्खाण्डवे पावकाय ॥
धृत्या तया सूतपुत्रं जहि त्व--
महं वैनं गदया पोथयिष्ये ।
समेत्य पार्थं सुनृशंसवादी
जीवन्नायं यास्यति कालपक्वः ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे म़ञ्जनवतितमोऽध्यायः ॥ 95 ॥
8-95-6 हतः जघ्नतुरित्यर्थः ॥ 8-95-7 सुदुःसहान्यैः परिशोणितोदकैः इति क.ट.पाठः ॥ 8-95-31 मा जीवनं यास्यति सूतपुत्र इति क.पाठः ॥ 8-95-95 पञ्चनवतितमोऽध्यायः ॥
श्रीः