अध्यायः 096

कर्णे युधि वर्धमाने कृष्णेनार्जुनप्रोत्साहनम् ॥ 1 ॥ ततोऽर्जुनेन स्वसामर्थ्यप्रकाशनम् ॥ 2 ॥

सञ्जय उवाच ।
अथाब्रवीच्चक्रधरोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान् ।
अमूमुषत्पश्यत एव तेऽद्य ह्यस्त्राणि कर्णोऽस्त्रगणैः किरीटिन् ॥
स पार्थ किं मुह्यसि वेत्सि चैव ता-- न्दृष्ट्वा समेतान्नदतः कुरूस्त्वम् ।
कर्णं पुरस्कृत्य विदुर्हि सर्वे तवास्त्रमस्त्रैर्विनिहन्यमानम् ॥
यया धृत्या तामसं जघ्निवांस्त्वं तत्संयुगे तामसांश्चातिघोरान् ।
दम्भोद्भवं चासुरमाहवे त्वं दर्पोत्सिक्तं वीर्यवन्तं किरीटिन् । तया धृत्या त्वं जहि कर्णमद्य पार्थाहवे त्यक्तुमस्त्रं समर्थः ॥
अनेन चाशु क्षुरनेमिनाद्य मया विसृष्टेन सुदर्शनेन ।
छिन्ध्यस्य मूर्धानमरेः प्रसह्य वज्रेण शक्रो नमुचेरिवारेः ॥
किरातरूपी भगवान्यया च त्वया महात्मा परितोषितोऽभूत् ।
स तां पुनर्वीर धृतिं गृहीत्वा सहानुबन्धं जहि सूतपुत्रम् ॥
ततो महीं सागरमेखलां त्वं सपत्तगा ग्रामवतीं समृद्धाम् ।
प्रयच्छ राज्ञे निहतारिसङ्घां यशश्च पार्थातुलमाप्नुहि त्वम् ॥
कर्णं पुरस्कृत्य नदन्तिं सर्वे तवास्त्रमग्र्यं प्रतिहत्य वीराः ।
कुरु प्रयत्नं भरतप्रवीर द्रवन्त्यमी सृञ्जयाः सोमकाश्च । दृष्ट्वाथ कर्णं समरे प्रहृष्टं त्वां चापि दृष्ट्वा परिहीयमानम् ॥
सञ्जय उवाच ।
सञ्चोदितो भीमजनार्दनाभ्यां स्मृत्वा तदात्मानमवेत्य सर्वम् ।
इहात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच ॥
प्रादुष्करोभ्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः ।
तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा शिवो ब्रह्मविदश्च सर्वे ॥
इति स्मोक्त्वा पाण्डवः सव्यसाची नमस्कृत्वा ब्रह्मणे सोऽमितात्मा ।
अनुत्तमं ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा यद्विधेयम् ॥
ततो दिशश्च प्रदिशश्च सर्वाः समावृणोत्सायकैर्भूरितेजाः ।
गाण्डीवमुक्तैर्भुजगैरिवोग्रै-- र्दिवाकरांशुप्रतिमैर्ज्वलद्भिः ॥
सृष्टास्तु बाणा भरतर्षभेण शतं शतं भीममुखाः सुतीक्ष्णाः ।
प्राच्छादयन्कर्णरथं क्षणेन युगान्तकालार्ककरप्रकाशाः ॥
वैकर्तनेनाशु तदाजिमध्ये सहस्रशो बाणगणा विसृष्टाः ।
ते चाक्षयाः पाण्डवमभ्युपेयुः पर्जन्यसृष्टा इव वारिधाराः ॥
ततः स कृष्णं च किरीटिनं च वृकोदरं चाप्रतिमप्रभावः ।
त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वनेन ॥
ततः स बाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च ।
अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ सममुद्ववर्ष ॥
स केतुमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम् ।
ततः सुमुक्तैर्दशभिर्जघान सेनापतिं काञ्चनवर्मनद्वम् ॥
स राजपुत्रो विशिरा विबाहु-- र्विवाजिसूतो विधनुर्विकेतुः ।
अथो रथाग्रादपतत्प्ररुग्णः परश्वथैः साल इवावकृत्तः ॥
पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्धा ।
चतुश्शतं द्विरदानां निपात्य रथाञ्जघानाष्टरथान्किरीटि । सहस्रमश्वांश्च पुनश्च सादी-- नष्टौ सहस्राणि च पत्तिवीरान् ॥
दृष्ट्वा तु मुख्यावतिविध्यमानौ वरेषुभिः शूरवरावरिघ्नौ ।
कर्णं च पार्थं च नियम्य वाहा- न्सर्वे वरिष्ठाश्च ततोऽवतस्थुः ॥
प्रच्छादयामास ततः पृषत्कैः सघोषमाच्छिद्य च गाण्डिवज्याम् ।
अस्मिन्क्षणे फल्गुनं सूतपुत्रः समाचिनोत्क्षुद्रकाणां शतेन ॥
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै-- स्तैलप्रघौतैः खगपत्रवाजैः ।
षष्ट्या बिभेदाशु च वासुदेवं तदन्तरे प्रात्वरन्सोमकाश्च ॥
ततो नवज्यां सुदृढां किरीटि स्वबाहुविक्षेपसहां प्रगृह्य ।
समादधे गाण्डिवे क्षिप्रकारी निमेषमात्रेण महाधनुष्मान् ॥
ज्याछेदनं ज्याविधानं च तस्य नैवावबुध्यत्सूतपुत्रो लघुत्वात् ।
पार्थस्य सङ्ख्ये द्विषतां निहन्तु-- स्तदद्भुतं तत्र बभूव राजन् ॥
पार्थोऽपि तां ज्यामवधाय तूर्णं शरासनज्यामाधिरथेर्विहत्य ।
सुसंरब्धः कर्णशरैः क्षताङ्गो रणे योधांस्तावकान्प्रत्यगृह्णात् ॥
नैवापत्पक्षिगणोऽन्तरिक्षे पार्थेन चास्त्रेण कृतेऽन्धकारे ॥
शल्यं तु पार्थो दशभिर्निमेषा-- द्भृशं तनुत्रे प्रहसन्नविध्यत् ।
ततः कर्णं द्वादशभिः पृषत्कै-- र्विद्ध्वा पुनः सप्तभिरप्यविध्यत् ॥
स पार्थबाणासनवेगनुन्नै-- र्दृढाहतः पत्रिभिरुग्रवेगैः ।
विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवान्तकाले ॥
ततस्त्रिभिस्तं त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनञ्जयम् ।
शरांश्च पञ्च ज्वलनानिवोरगा-- न्प्रवेशयामास जिघांसुरच्युते ॥
सुवर्णचित्रं पुरुषोत्तमस्य वर्माथ भित्त्वाभ्यपतन्सुपुङ्खाः ।
वेगेन गां ते विविशुश्च राज-- न्स्नात्वा कर्णाऽभिमुखाः प्रतीयुः ॥
तान्पञ्चभल्लैर्दशभिः सुमुक्तै-- स्त्रिधात्रिधैकैकमथोच्चकर्त ।
धनञ्जयस्ते न्यपतन्पृथिव्यां यथाऽहयस्तार्क्ष्यमुखेन कृत्ताः ॥
ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः ।
स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैर्ज्वलद्भिः । मर्मस्वविध्यत्स चचाल दुःखा-- द्धैर्यात्तुं तस्थावतिमात्रधैर्यः ॥
प्रादुश्चकाराथ शरान्महात्मा देहं विचिन्वन्निव सूतजस्य ।
शरास्तु ते काञ्चनचित्रपुङ्खाः सम्पेतुरुर्व्यां शतशो महान्तः ॥
ततः शरौघैः प्रदिशो दिशश्च रविप्रभाः कर्णरथश्च राजन् ।
अदृश्य आसीत्कुपिते धनञ्जये तुषारनीहारवृतो गिरिर्यथा ॥
सचक्ररक्षा अपि पृष्ठगोपाः कर्णस्य ये चापि पुरःसराश्च ।
भीता द्रवन्ति स्म निहन्यमाना महेषुभिः पार्थकरप्रणुन्नैः ॥
ततोऽर्जुनो वै भरतप्रवीरो महानुभावः समरे निहन्ता ।
सुयोधनेनानुमतान्विनिघ्न-- न्समुच्छ्रितान्सरथान्सारभूतान् ॥
गाण्डीवधन्वा द्विगुणं सहस्रं कुरुप्रवीरानृषभः कुरूणाम् ।
क्षणेन सर्वान्सरथान्ससूता-- न्निनाय राजन्क्षयमेकवीरः ॥
अथो पलायन्त विहाय कर्णं तवात्मजा ये कुरवश्च शिष्टाः ।
एतानवाकीर्य शरक्षतांश्च विलप्यमानांस्तनयान्विमृद्गन् ॥
सर्वे प्रणेशुः कुरवो विभग्नाः पार्थेषुभिः सम्परितप्यमानाः ।
सुयोधनेनाथ पुनर्वरिष्ठाः प्रचोदिताः कर्णरथानुयाने ॥
भोः क्षत्रियाः शूरतमास्तु सर्वे क्षत्रे च धर्मे निरताः स्थ यूयम् ।
न युक्तरूपं भवतां समीपा-- त्पलायनं कर्णमतिप्रहाय ॥
तवात्मजेनापि तथोच्यमाना नैवावतिष्ठन्त भयाद्विवर्णाः ।
क्षणेन नष्टाः प्रदिशो दिशश्च सर्वे ततः प्रेक्ष्य दिशो विशून्याः ॥
भयावदीर्णः कुरुभिर्विहीनः पार्थेषुभिः सम्परितप्यमानः ।
न विव्यधे भारत तत्र कर्णः
प्रतीपमेवार्जुनमभ्यधावत् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षण्णवतितमोऽध्यायः ॥ 96 ॥

श्रीः