अध्यायः 097
रणे हीयमानेन कर्णेनार्जुनस्य शिरो लक्षीकृत्य नागास्त्रप्रयोगः ॥ 1 ॥ कृष्णेन पार्थरथे पादनिपीडनेन धरण्यां किञ्चिन्निमज्जिते तदस्त्रेण
शिरोवर्जं पार्थकिरीटमात्रापहारः ॥ 2 ॥ कर्णस्य रथचक्रे विप्रशापात् धरण्यां
निमग्ने तदुद्दिधीर्षया तेनपार्थंप्रति मुहूर्तमयुद्धप्रार्थनम् ॥ 3 ॥
ततोऽपयाताः शरपातमात्र--
मवस्थिता वै कुरवो नरेन्द्र ।
विद्युत्प्रकाशं ददृशुः समन्ता--
द्वनञ्जयास्त्रं समुदीर्यमाणम् ॥
ततोऽग्रसत्सूतपुत्रोऽर्जुनस्य
वियद्गतं घोरतरं शरैस्तत् ।
क्रुद्धेन पार्थेन शरं विसृष्टं
वधाय कर्णस्य महाविमर्दे ॥
[उदीर्यमाणं स्म कुरून्दहन्तं
सुवर्णपुङ्खैर्विशिखैर्ममर्द ।
कर्णस्त्वमोघेष्वसनं दृढज्यं
विस्फारयित्वा विसृजञ्छरोघान् ॥]
रामादुपात्तेन महामहिम्ना
ह्याथर्वणेनारिविनाशनेन ।
तदर्जुनास्त्रं व्यधमद्दहन्तं
पार्थं च बाणैर्निशितैरविध्यत् ॥
ततो विमर्दः सुमहान्बभूव
तत्रार्जुनस्याधिरथेश्च राजन् ।
अन्योन्यमासादयतोः पृषत्कै--
र्विषाणघातैर्द्विपयोरिवाजौ ॥
ततोऽस्त्रसङ्घातसमावृतं तदा
बभूव राजंस्तुमुलं रणाजिरम् ।
यत्कर्णपार्थौ शरवृष्टिसङ्घै--
र्निरन्तरं चक्रतुरम्बरं तदा ॥
[ततो जालं बाणमयं महान्तं
सर्वेऽद्राक्षुः कुरवः सोमकाश्च ।
नान्यं च भूतं ददृशुस्तदा ते
बाणान्धकारे तुमुलेऽथ किञ्चित् ॥
तौ सन्दधानावनिशं च राजन् ।
समस्यन्तौ चापि शराननेकान् ।
सन्दर्शयेतां युधि मार्गान्विचित्रा--
न्धनुर्धरौ तौ विविधैः कृतास्त्रैः ॥
तयोरेवं युध्यतोराजिमध्ये
सूतात्मजोऽभूदधिकः कदाचित् ।
पार्थः कदाचित्त्वधिकः किरीटि
वीर्यास्त्रमायाबलपौरुषेण ॥
दृष्ट्वा तयोस्तं युधि सम्प्रहारं
परस्परस्यान्तरमीक्षमाणयोः ।
घोरं तयोर्दुर्विषहं रणेऽन्यै--
र्योधाः सर्वे विस्मयमभ्यगच्छन् ॥
ततो भूतान्यन्तरिक्षस्थितानि
तौ कर्णपार्थौ प्रशशंसुर्नरेन्द्र ।
भोः कर्ण साध्वर्जुन साधु चेति
वियत्सु वाणी श्रूयते सर्वतोपि ॥
तस्मिन्विमर्दे रथवाजिनागै--
स्तदाऽभिघातैर्दलिते हि भूतले ।
ततस्तु पातालतले शयानो
नागोऽश्वसेनः कृतवैरोऽर्जुनेन ॥
राजंस्तदा खाण्डवदाहमुक्तो
विवेश कोपाद्वसुधातले यः ।
अथोत्पपातोर्ध्वगतिर्जवेन
सन्दृश्य कर्णार्जुनयोर्विमर्दम् ॥
अयं हि कालोस्य दुरात्मनो वै
पार्थस्य वैरप्रतियातनाय ।
सञ्चिन्त्य तूर्णं प्रविवेश चैव
कर्णस्य राजन्शररूपधारी ॥
ततोस्त्रसङ्घातसमाकुलं तदा
बभूव जन्यं विततांशुजालम् ।
तत्कर्णपार्थो शरसङ्घवृष्टिभि--
र्निरन्तरं चक्रतुरम्बरं तदा ॥
तद्बाणजालैकमयं महान्तं
सर्वेऽत्रसन्कुरवः सोमकाश्च ।
नान्यत्किञ्चिद्ददृशुः सम्पतद्वै
बाणान्धकारे तुमुलेऽतिमात्रम् ॥
ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ ।
त्यक्तप्राणौ रणे वीरो युद्धश्रममुपागतौ ॥
समुत्क्षेपैर्वीक्षमाणौ सिक्तौ चन्दनवारिणा ।
सवालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः ।
शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखावुभौ ॥
कर्णोऽथ पार्थं न विशेषयद्यदा
भृशं च पार्थेन शराभितप्तः ।
ततस्तु वीरः शरविक्षताङ्गो
दध्रे मनो ह्येकशयस्य तस्य ॥]
ततो रिपुघ्नं समधत्त कर्णः
सुसञ्चितं सर्पमुखं ज्वलन्तम् ।
रौद्रं शरं सन्नतमुग्रधौतं
पार्थार्थमित्येव चिराभिगुप्तम् ॥
सदार्चितं चन्दनचूर्णशायितं
सुवर्णतूणीरशयं महार्चिषम् ।
आकर्णपूर्णं विचकर्ष कर्णो
विमोक्तुकामः शरमुग्रवेगम् ॥
प्रदीप्तमैरावतवंशसम्भवं
शिरो जिहीर्षुर्युधि सव्यसाचिनः ।
ततः प्रजज्वाल दिशो नभश्च
उल्काश्च घोराः शतशः प्रपेतुः ॥
तस्मिंस्तु नागे धनुषि प्रयुक्ते
हाहाकृता लोकपालाः सशक्राः ॥
स सूतपुत्रस्तमपाङ्गदेशे
अवाङ्मुखं सन्धयति स्म रोषात् ।
न तं स्म जानाति महानुभाव--
मपाङ्गदेशेऽभिनिविष्टमाजौ ॥
[न चापि तं बुबुधे सूतपुत्रो
बाणे प्रविष्टं योगबलेन नागम् ।
दशशतनयनोऽहिं दृश्य बाणे प्रविष्टं
निहत इति सुतो मे स्रस्तगात्रो बभूव ।
जलजकुसुमयोनिः श्रेष्ठभावो जितात्मा
त्रिदशपतिमवोचन्मा व्यथिष्ठा जये श्रीः ॥
ततोऽब्रवीन्मद्रराजो महात्मा
दृष्ट्वा कर्णं प्रहितेषु तमुग्रम् ।
ग्रीवायतः कर्ण न संहितोऽयं
समीक्ष्य सन्धत्स्व शरं परघ्नम् ॥
अथाब्रवीत्क्रोधसंरक्तनेत्रो
मद्राधिपं सूतपुत्रो मनस्वी ।
न सन्धत्ते द्विः शरं शल्य कर्णो
न मादृशा जिह्मयुद्वा भवन्ति ॥
इतीदमुक्त्वा विससर्ज तं शरं
प्रयत्नतो वर्षगणाभिपूजितम् ।
हतोसि रे फल्गुन इत्यधिक्षिप--
न्नुवाच चोच्चैर्निरमूर्जितां वृषः ॥
स सायकः कर्णभुजप्रसृष्टो
हुताशनार्कप्रतिमः सुघोरः ।
गुणच्युतः कर्णधनुःप्रमुक्तो
वियद्गतः प्राज्वलदन्तरिक्षे ॥
तमापतन्तं ज्वलितं निरीक्ष्य
वियद्गतं वृष्णिकुलप्रवीरः ।
रथस्य चक्रं सहसा निपीड्य
पञ्चाङ्गुलं मज्जयति स्म वीरः ॥
ततोऽन्तरिक्षे सुमहान्निनादः
सम्पूजनार्थं मधुसूदनस्य ।
[दिव्याश्च वाचः सहसा बभूवु--
र्दिव्यानि पुष्पाण्यथ सिंहनादाः ।
तस्मिंस्तथा वै धरणीं निमग्ने
रथे प्रयत्नान्मधुसूदनस्य ॥]
ततः किरीटं बहुरत्नचित्रं
जघान नागोऽर्जुनमूर्धतो बलात् ।
गिरेः सुजाताङ्कुरपुष्पितद्रुमं
महेन्द्रवज्रं शिखरं यथोत्तमम् ॥
ततः किरीटं तपनीयचित्रं
पार्थोत्तमाङ्गादहरत्तरस्वी ।
तद्धेमजालावनतं सुघोरं
सम्प्रज्वलत्तन्निपपात भूमौ ॥
ततोऽर्जुनस्योत्तमगात्रभूषणं
सुवर्णमुक्तामणिवज्रचित्रितम् ।
धरावियद्द्योसलिलेषु विश्रुतं
बलं निसर्गोत्तममन्युधिः सदा ॥
शरेण मूर्ध्नि प्रजहार सूतजो
दिवाकरेन्दुज्वलनग्रहत्विषम् ।
सुवर्णमुक्तामणिवज्रभूषणं
पुरन्दरार्थं तपसा प्रयत्नतः ॥
स्वयं कृतं यद्विधिना स्वयम्भुवा
महार्हरूपं द्विषतां भयङ्करम् ।
निजघ्नते देवरिपून्सुरेश्वरः
स्वयं ददौ यद्धि मुदाऽर्जुनाय ॥
हरिप्रचेतोहरिवित्तगोप्तृभिः
पिनाकपाशाशनिदण्डधारिभिः ।
सुरोत्तमैरप्यविषह्यमर्दितुं
प्रसह्य नागेन जहार तद्वृषा ॥
तदुत्तमेषून्मथितं विषाहिना
प्रदीप्तमर्चिष्मदतीव सुन्दरम् ।
पपात पार्थस्य किरीटमुत्तमं
दिवाकरोस्तादिव पर्वताज्ज्वलन् ॥
महीवियद्द्योसलिलानि वायुना
प्रसह्य रुग्णानि विघूर्णितानि वा ।
इतीव शब्दं भुवनेषु तत्तथा
जना व्यवस्यन्ति दिशश्च विह्वलाः ॥
विना किरीटं* शुशुभे स पार्थः
श्यामो युवा शैल त्रिशृङ्गैः ॥
ततः समुद्ग्रथ्य सितेन वाससा
स्वमूर्धजनाव्यथितस्तदाऽर्जुनः ।
बभौ सुसम्पूर्णमरीचिनेन्दुना
शिरोगतेनोदयपर्वतो यथा ॥
स चापि राधेयभुजप्रमुक्तो
हुताशनार्कप्रतिमद्युतिर्महान् ।
महोरगः कृतवैरोऽर्जुनेन
किरीटमाहृत्य समुत्पपात ॥
तमुत्पतन्तं द्विपदां वरिष्ठो
दृष्ट्वा वचः पार्थमुवाच कृष्णः ।
महोरगं पाण्डव पश्यपश्य
प्रयोजितं त्वन्निधनार्थमुग्रम् ॥
स एवमुक्तो मधुसूदनेन
गाण्डीवधन्वा हरिमुग्रवाचा ।
उवाच को न्वेष ममाद्य नागः
क्षयाय नागाद्गरुडस्य वक्रम् ॥
कृष्ण उवाच ।
योऽसौ त्वया खाण्डवे चित्रभानुं
सन्तर्पयाणेन धनुर्धरेण ।
वियद्गतो जननीगुप्तदेहो
मत्वैकरूपं निहताऽस्य माता ॥
स एष तद्वैरमनुस्मरन्वै
त्वां प्रार्थयत्यात्मवधाय नूनम् ।
नभश्चुतां प्रज्वलितामिवोल्कां
पश्यैनमायान्तममित्रसाह ॥
सञ्जय उवाच ।
ततः स जिष्णुः परिवृत्य रोषा--
च्चिच्छेद षड्भिर्निशितैः सुधारैः ।
नागं वियत्तिर्यगिवोत्पततं
स च्छिन्नगात्रो निपपात भूमौ ॥
[गते च तस्मिन्भुजगे किरीटिना
स्वयं विभुः पार्थिव भूतलादथ ।
समुज्जहाराशु पुनः पतन्तं
रथं भुजाभ्यां पुरुषोत्तमस्ततः ॥]
तस्मिन्मुहूर्ते दशभिः पृषत्कैः
सिलाशितैर्बर्हिणबर्हवाजितैः ।
विव्याध कर्णः पुरुषप्रवीरो
धनञ्जयं तिर्यगवेक्षमाणः ॥
ततोऽर्जुनो द्वादशभिः सुमुक्तै--
र्वराहकर्णैर्जिशितैः समर्प्य ।
नाराचमाशीविषतुल्यवेग--
माकर्णपूर्णायतमुत्ससर्ज ॥
स चित्रवर्मेषुवरो विदार्य
प्राणान्निरस्यन्निव साधुमुक्तः ।
कर्णस्य पीत्वा रुधिरं विवेश
वसुन्धरां शोणितदिग्धवाजः ॥
ततो वृषो बाणनिपातकोपितो
महोरगो दण्डविघट्टितो यथा ।
तदाऽऽशुकारी व्यसृजच्छरोत्तमान्
महाविषः सर्प इवोत्तमं विषम् ॥
जनार्दनं द्वादशभिः पराभिन--
न्नवैर्नवत्या च शरैस्तथाऽर्जुनम् ।
शरेण घोरेण पुनश्च पाण्डवं
विदार्य कर्णो व्यनदज्जहास च ॥
तमस्य हर्षं ममृषे न पाण्डवो
बिभेद मर्माणि ततोऽस्य मर्मवित् ।
परःशतैः पत्रिभिरिन्द्रविक्रम--
स्तथा यथेन्द्रो बलमोजसा रणे ॥
ततः शराणां नवतिं तदाऽर्जुनः
ससर्ज कर्णेऽन्तकदण्डसन्निभाम् ।
तैः पत्रिभिर्विद्धतनुः स विव्यथे
तथा यथा वज्रविदारितोऽचलः ॥
मणिप्रवेकोत्तमवज्रहाटकै--
रलङ्कृतं चास्य वराङ्गभूषणम् ।
प्रविद्धमुर्व्यां निपपात पत्रिभि--
र्धनञ्जयेनोत्तमकुण्डलेपि च ॥
महाधनं शिल्पिवरैः प्रयत्नतः
कृतं यदस्योत्तमवर्म भास्वरम् ।
सुदीर्घकालेन ततोऽस्य पाण्डवः
क्षणेन बाणैर्बहुधा व्यशातयत् ॥
`तस्येषुभिः खण्डितकुण्डलोऽन्तः
परिक्षतश्चाभ्यधिकं तदानीम् ।
स लोहिताङ्गश्रवणश्चकाशे
सलोहिताङ्गश्रवणो यथा दिवि' ॥
स तं विवर्माणमथोत्तमेषुभिः
शितैश्चतुर्भिः कुपितः पराभिनत् ।
स विव्यथेऽत्यर्थमरिप्रताडितो
यथाऽऽतुरः पित्तकफानिलज्वरैः ॥
महाधनुर्मण्डलनिःसृतैः शितैः
क्रियाप्रयत्नप्रहितैर्बलेन च ।
ततक्ष कर्णं बहुभिः शरोत्तमै--
र्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ॥
दृढाहतः पत्रिभिरुग्रवेगैः
पार्थेन कर्णो विविधैः शिताग्रैः ।
बभौ गिरिर्गैरिकधातुरक्तः
क्षरन्प्रपातैरिव रक्तमम्भः ॥
[ततोऽर्जुनः कर्णमवक्रगैर्नवैः
सुवर्णपुङ्खैः सुदृढैरयस्मयैः ।
यमाग्निदण्डप्रतिमैः स्तनान्तरे
पराभिनत्क्रौञ्चमिवाद्रिमग्निजः ॥
ततः शरावापमपास्य सूतजो
धनुश्च तच्छक्रशरासनोपमम् ।
ततो रथस्थः स मुमोह च स्खलन् ।
प्रशीर्णमुष्टिः सुभृशाहतः प्रभो ॥
न चार्जुनस्तं व्यसने तदेषिवा--
न्निहन्तुमार्यः पुरुषव्रते स्थितः ।
ततस्तमिन्द्रावरजः सुसम्भ्रमा--
दुवाच किं पाण़्डव हे प्रमाद्यसे ॥
नैवाहितानां सततं विपश्चितः
क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम् ।
विशेषतोऽरीन्व्यसनेषु पण्डितो
निहत्य धर्मं च यशश्च विन्दते ॥
तदेकवीरं तव चाहितं सदा
त्वरस्व कर्णं सहसाऽभिमर्दितुम् ।
पुरा समर्थः समुपैति सूतजो
भिन्धि त्वमेनं नमुचिं यथा हरिः ॥
ततस्तदेवेत्यभिपूज्य सत्वरं
जनार्दनं कर्णमविध्यदर्जुनः ।
शरोत्तमैः सर्वकुरूत्तमस्त्वरं--
स्तथा यथा शम्बरहा पुरा बलिम् ॥]
साश्वं तु कर्णं सरथं किरीटि
समाचिनोद्भारत वत्सदन्तैः ।
प्रच्छादयामास दिशश्च बाणैः
सर्वप्रयत्नात्तपनीयपुङ्खैः ॥
सवत्सदन्तैः पृथुपीनवक्षाः
समाचितः सोऽधिरथिर्विभाति ।
सुपुष्पिताशोकपलाशशाल्मलि--
र्यथाऽचलश्चन्दनकाननायुतः ॥
शरैः शरीरे बहुभिः समर्पितै--
र्विभाति कर्णः समरे विशाम्पते ।
महीरुहैराचितसानुकन्दरो
यथा गिरीन्द्रः स्फुटकर्णिकारवान् ॥
स वाणसङ्घान्बहुधा व्यवासृजन्
विभाति कर्णः शरजालरश्मिवान् ।
स लोहितो रक्तगभस्तिमण्डलो
दिवाकरोऽस्ताभिमुखो यथा तथा ॥
बाह्वन्तरादाधिरथेर्विमुक्तान्
बाणान्महाहीनिव दीप्यमानान् ।
व्यध्वंसयन्नर्जुनबाहुमुक्ताः
शराः समासाद्य दिशः शिताग्राः ॥
[ततः स कर्णः समवाप्य धैर्यं
बाणान्विमुञ्चन्कुपिताहिकल्पान् ।
विव्याध पार्थं दशभिः पृषत्कैः
कृष्णं च ष़ड्भिः कुपिताहिकल्पैः ॥
ततः किरीटि भृशमुग्रनिःस्वनं
महाशरं सर्पविषानलोपमम् ।
अयस्मायं रौद्रमहास्त्रसम्भृतं
महाहवे क्षेप्तुमना महामतिः ॥]
कालो ह्यदृश्यो नृप विप्रशापा--
न्निदर्शयन्कर्णवधं ब्रुवाणः ।
भूमिस्तु चक्रं ग्रसतीत्यवोच--
त्कर्णस्य तस्मिन्वधकाल आगते ॥
न चास्य घोरं प्रतिभाति चास्त्रं
यद्भार्गवोऽस्मै प्रददौ महात्मा ।
चक्रं च वामं ग्रसते भूमिरस्य
प्राप्ते तस्मिन्वधकाले नृवीर ॥
ततो रथो घूर्णितवान्नरेन्द्र
शापात्तदा ब्राह्मणसत्तमस्य ।
प्राप्तं वधं शंसति चाप्यथास्त्रं
प्रणश्यमानं द्विजमुख्यशापात् ॥
[ततश्चक्रमपतत्तस्य भूमौ
स विह्वलः समरे सूतपुत्रः ।
सवेदिकश्चैत्य इवातिमात्रः
सुपुष्पितो भूमितले निमग्नः] ॥
मग्ने रथे ब्राह्मणशापमूढो
ह्यस्त्रं च तं मोघमिषु च सर्पम् ।
अमृष्यमाणो व्यसनानि तानि
हस्तौ विधुन्वन्विजगर्ह धर्मम् ॥
धर्मप्रधानं किल पाति धर्म
इत्यब्रुवन्धर्मविदः सदैव ।
वयं च धर्मे प्रयताम नित्यं
चर्तुं यथाशक्ति यथाश्रुतं च ।
स चापि निघ्नाति न पाति भक्तान्
मन्ये न नित्यं परिपाति धर्मः ॥
एवं ब्रुवन्प्रस्खलिताश्वसूतो
विचाल्यमानोऽर्जुनबाणपातैः ।
मर्माभिघाताच्छिथिलः क्रियासु
पुनः पुनर्धर्ममसौ जगर्ह ॥
ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे ।
हस्ते कृष्णं तथा पार्थमभ्यविध्यच्च सप्तभिः ॥
ततोऽर्जुनः सप्तदश तिग्मवेगानजिह्मगान् ।
इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ॥
निर्भिद्य ते भीमवेगा ह्यपतन्पृथिवीतले ।
कम्पितात्मा ततः कर्णः शक्त्या चेष्टामदर्शयत् ॥
बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् ।
ऐन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाऽभ्युपमन्त्रयत् ॥
गाण्डीवं ज्यां च बाणांश्च सोऽनुमन्त्र्य परन्तपः ।
व्यसृजच्छरवर्षाणि वर्षाणीव पुरन्दरः ॥
ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः ।
प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ।
स कर्णोऽग्रसदस्यास्त्रं कुर्वन्मोक्षं महारथः ॥
ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते ।
विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् ॥
ततो ब्रह्मास्त्रमत्युग्रं सम्मन्त्र्य समयोजयत् ।
छादयित्वा ततो बाणैः कर्णं प्रत्यस्यदर्जुनः ॥
ततः कर्णः शितैर्बाणैर्ज्यां चिच्छेद सुतेजनैः ।
[द्वितीयां च तृतीयां च चतुर्थी पञ्चमीं तथा ॥
षष्ठीमथास्य चिच्छेद सप्तमीं च तथाऽष्टमीम् ।
नवमीं दशमीं चास्य तथा चैकादशीं वृषः ।
ज्याशतं शतसन्धानः स कर्णो नावबुध्यते ॥]
ततो ज्यां विनिधायान्यामभिमन्त्र्य च पाण्डवः ।
शरैरवाकिरत्कर्णं दीप्यमानैरिवाहिभिः ॥
तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे ।
नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ॥
अस्त्रैरस्त्राणि संवार्य प्रनिघ्नन्सव्यसाचिनः ।
चक्रे चाप्यधिकं पार्थात्स्ववीर्यमतिदर्शयन् ॥
ततः कर्णोऽर्जुनं दृष्ट्वा स्वस्यास्त्रेण च पीडितम् ।
अभ्यसेत्यब्रवीत्पार्थमातिष्ठास्त्रं व्रजेति च ॥
ततोऽग्निसदृशं घोरं शरं सर्पविषोपमम् ।
अश्मसारमं दिव्यमभिमन्त्र्यं परन्तपः ।
रौद्रमस्त्रं समाधाय क्षेप्तुकामः किरीटिने ॥
ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप ॥
[ततोऽवतीर्य राधेयो रथादाशु समुद्यतः ।
चक्रं भुजाभ्यामालम्ब्य समुत्क्षेप्तुमियेष सः ॥
सप्तद्वीपा वसुमती सशैलवनकानना ।
गीर्णचक्रा समुत्क्षिप्ता कर्णेन चतुरङ्गुलम् ॥
ग्रस्तचक्रस्तु राधेयः क्रोधादश्रूण्यवर्तयत् ।
अर्जुनं वीक्ष्य संरब्धमिदं वचनमब्रवीत् ॥
भोभो पार्थ महेष्वास मुहुर्तं परिपालय ।
यावच्चक्रमिदं ग्रस्तमुद्धरामि महीतलात् ॥
सव्यं चक्रं महीग्रस्तं दृष्ट्वा दैवादिदं मम ।
पार्थ कापुरुषाचीर्णमभिसन्धिं विसर्जय ॥
न त्वं कापुरुषाचीर्णं मार्गमास्थातुमर्हसि ।
ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु ।
विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव ॥
प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ ।
शरणागते न्यस्तशस्त्रेयाचमाने तथाऽर्जुन ॥
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा ।
न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः ॥
त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव ।
अभिज्ञो युद्धधर्माणां तस्मात्क्षम मुहूर्तकम् ॥
दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि ।
यावच्चक्रमिदं ग्रस्तमुद्वरामि महाभुज ॥
न मां रथस्थो भूमिष्ठं विकलं हन्तुमर्हसि ।
न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् ॥
त्वं हि क्षत्रियदायादो महालकुलविवर्धनः ।
अतस्त्वां प्रबवीम्येष मुहूर्तं क्षम पाण़्डव ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तनवतितमोऽध्यायः ॥ 97 ॥
8-97-16 बाणजालैकमयं दृष्ट्वेति शेषः ॥ 8-97-30 पदा
विनिष्पिष्य रथोत्तमं स प्रावेशयत्पृथिवीं किञ्चिदेव । क्षितिं गता जानुभिस्तेऽथ
वाहा हेमच्छन्नाश्चन्द्रमरीचिवर्णाः इति झ.पाठः ॥ 8-97-48 गते गमिते । विभुः
समर्थः ॥ 8-97-49 बर्हिणानां बर्हा एव वाजाः पक्षाः सञ्जाता येषां
तैर्बर्हिणबर्हवाजितैः ॥ 8-97-62 अग्निजः कार्तिकेयः ॥ 8-97-64 ईषिवान् मनसि
कृतवान् ॥ 8-97-78 चैत्यः सवेदिको ग्रामसूचको महाद्रुमः ॥ 8-97-89
प्रत्यस्यत्प्रतिप्राक्षितत् ॥ 8-97-95 अभ्यस पुनः पुनः अस्त्रं आतिष्ठ वज
प्रेरयेत्यब्रवीदिति योजना । ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेण च पीडितम्
इति झ.पाठः ॥ 8-97-96 क्षेप्तुकामः किरीटवान् इति झ. पाठः ॥ 8-97-97
सप्तनवतितमोऽध्यायः ॥ 8-97-* एतदारभ्य गरुडस्य वक्रं इत्यन्तानां चतुर्णां
श्लोकानां स्थाने अधोदृश्यमाना एकादश श्लोका झ.पुस्तके विद्यन्ते 8-97-2
गोकर्णा मुकुटं जहारेत्यन्वयः । अर्जुनस्य मुकुटहरणमपि महत्कर्मेति सूचयन्मुकुटं
विशिनष्टि । गवि चक्षुषि कर्णो यस्याः सा गोकर्णा चक्षुःश्रवाः सर्पिणी अर्जुनेन
खाण्डवे निहता सती इह निमित्तभूता तस्य मुकुटमेव हृतवती नतु शिरः । अथं हताया
हनननिमित्तत्वमत आह । सुमुखी कृतेन इषुणा मोपुत्रसम्प्रेषिता ।
सन्धिरविवक्षितत्वान्न भवति । शोभनं पुत्रजीवकरं मुखं यस्याः सा सुमुखी । सा हि
पुत्रं निगीर्य दह्यमानात् खाण़्वादुत्पतन्ती शिरोदेशे अर्जुनेन च्छिन्ना सती
स्वयं मृतां पुत्रं च रक्षितवतीत्यादिपर्वण्युपाख्यायते । कृतेन स्वयं निर्मितेन
पुत्रेण त्रातेन इषुणा इथुभावं गतेन । आत्मा वै पुत्रनामासीति
श्रुतेरिष्वाकारपुत्ररूपेण सम्पन्ना सती । गोमतो रश्मिमतोऽर्कस्य पुत्रेण कर्णेन
प्रेषिता । इषुणेतीत्थम्भावे तृतीया । गोपुत्रेति मतुब्लोप आर्षः । किङ्कृत्वा
मुकुटं जहारेत्यत आह । सुव्यक्तगोऽसुप्रभं गोगतकं दृष्ट्वा सुव्यक्ताः
अतिशयेनाविर्भूता गावो रश्मयस्तेज इति यावत् । सुव्यक्तैर्गोभिरसुभिश्च
प्रकर्षेण भासमानं प्रदेशो लक्ष्यते । तत्र गतं विद्यमानं कं शिरो यस्य तम् ।
अर्जुनस्य ग्रीवादेशं कर्णेन लक्षीकृतं विज्ञाय भगवता स्वभारेणाश्वेषु
जानुभ्यामवनीं गमितेषु रश्मिभिः समसूत्रदेशेऽर्जुनस्य शिरो दृष्ट्वापि
वेगातिशयात्स्वयं नीचीभवितुमशक्ता सती तद्देशस्थं मुकुटं जहारेत्यर्थः ।
गोशब्दात्मजभूषणं सुविहितमिति । गौः पृथिवी तया शब्द्यते गोशब्दा अदितिः । इयं वा
अदितिरिति पृथिव्या अदितेर्निर्देशात् । तस्या आत्मजस्येन्द्रस्य भूषणं सुविहितं
वेधसेति शषः । तथाचात्रैवोक्तम् । पुरन्दरार्थं तपसा प्रयत्नतः स्वयं कृतं
यद्विधिना स्वयम्भुवेति । कीदृशं मुकुटम् । वै निश्चितं प्रसिद्धं वा ।
गोशब्दगोपूरि गोभि रश्मिभिः शब्द्यते रश्मिमानिति कथ्यत इति सूर्यस्तस्येव भुव
नगर्भव्यापिनो गावः किरणास्तैर्भुवनं पूरयितुं शीलमस्य तत्तथा ।
सूर्यसमप्रभमित्यर्थः । ननु चेतनाधिष्ठितो बाणः पुनरेत्या र्जुनं कुतो न
हतवानित्यत आह । गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशमिति । गोकर्णं सर्पं
पुनरर्जुनं हन्तुमिच्छन्तमसनेन बाणक्षेपेण मर्दयति यः स तथाभूतोऽर्नुनश्च तमेव
सर्पमनवाप्य मृत्योर्वशं न ययौ । सर्पस्य पुनरागमनं वधश्चात्रैव कीर्त्यते ।
गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयो । स्त्री तु स्याद्दिशि भारत्यां भूमौ
च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमस्विति कोशः ॥
श्रीः