अध्यायः 017
कृपकृतवर्मक्ष्यां धृष्टद्युम्नशिखण्डिनोः पराजयः ॥ 1 ॥
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे ।
यथा दृष्ट्वा वने सिंहं शरभो वारयेद्युधि ॥
निरुद्वः पार्षतस्तेन गौतमेन बलीयसा ।
पदात्पदं विचलितुं नाशकत्तत्र भारत ॥
गौतमस्य रथं दृष्ट्वा धृष्टद्युम्नरथं प्रति ।
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥
तदा जल्पन्ति पाण्डूनां रथिनः सादिनस्तथा ।
द्रोणस्य निधनान्नूनं सङ्क्रुद्वो द्विपदां वरः ॥
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः ।
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् ।
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥
यादृशं दृश्यते रूपमन्तकप्रतिमं रणे ।
गमिष्यत्यद्य पदवीं भारद्वाजस्य गौतमः ॥
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि ।
अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः ॥
पार्षतश्च महायुद्वे विमुखोऽद्याभिलक्ष्यते ।
इत्येवं विविधा वाचस्तावकानां परैः सह ।
व्यश्रूयन्त महाराज तयोस्तत्र समागमे ॥
विनिःश्वस्य ततः क्रोधात्कृपः शारद्वतो नृप ।
पार्षतं चार्दयामास निश्चेष्टं सर्वमर्मसु ॥
स हन्यमानः समरे गौतमेन महात्मना ।
कर्तव्यं न स्म जानाति मोहेन महता वृतः ॥
तमब्रवीत्ततो यन्ता कञ्चित्क्षेमं तु पार्षत ।
ईदृशं व्यसनं युद्धे न ते दृष्टं मया क्वचित् ॥
दैवयोगात्तु ते बाणा नापतन्मर्मभेदिनः ।
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वतः ॥
व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात् ।
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः ।
मुह्यते मे मनस्तात गात्रस्वेदश्च जायते ॥
वेपथुश्च शरीरे मे रोमहर्षश्च सारथे ।
वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽर्जुनः ॥
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे ।
क्षेममद्य भवेन्मह्यमिति मे नैष्ठिकी मतिः ॥
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् ।
यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥
प्रद्रुतं च रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष ।
किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥
शङ्खं च पूरयामास मुहुर्मुहुररिन्दमः ।
पार्षतं त्रासयामास महेन्द्रो नमुचिं यथा ॥
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् ।
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥
शिखण्डी तु समासाद्य हृदिकानां महारथम् ।
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समाहनत् ॥
कृतवर्मा तु सङ्क्रद्धो भित्त्वा षष्ट्या पतत्रिभिः ।
धनुरेकेन चिच्छेद हसन्राजन्महारथः ॥
अथान्यद्वनुरादाय द्रुपदस्यात्मजो बली ।
तिष्ठतिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत ॥
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् ।
प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥
वितथांस्तान्समालक्ष्य पतितांश्च महीतले ।
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे भृशम् ॥
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् ।
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत् ॥
कृतवर्मा तु सङ्क्रुद्धो मार्गणैः क्षतविक्षतः ।
ववाम रुधिरं गात्रैः कुम्भवक्रादिवोदकम् ॥
रुधिरेण परिक्लिन्नः कृतवर्मा त्वराजत ।
वर्षेण क्लेदितो राजन्यथा गैरिकपर्वतः ॥
अथान्यद्वनुरादाय समार्गणगुणं प्रभुः ।
शिखण्डिनं बाणगणैः स्कन्धदेशे व्यताडयत् ॥
स्कन्धदेशस्थितैर्बाणैः शिखण्डी तु व्यराजत ।
शाखाप्रशाखाविपुलः सुमहान्पादपो यथा ॥
तावन्योन्यं भृशं विद्व्वा रुधिरेण समुक्षितौ ।
`पोप्लुयमानौ हि यथा महान्तौ शोणितहदे ।
तद्वद्विरेजतुर्वीरौ शोणितेन परिप्लुतौ ॥
यथा च किंशुकौ फुल्लौ पुष्पमासे समागते ।
रुधिरोक्षितसर्वाङ्गौ रक्तचन्दनरूषितौ ।
भुजगाविव सङ्क्रुद्धौ रेजतुस्तौ नरोत्तमौ ॥
तावुभौ शरवनुन्नाङ्गौ परस्परशरक्षतौ' ।
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ ।
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥
कृतवर्मा महाराज पार्षतं निशितैः शरैः ।
रणे विव्याध सप्तत्या स्वर्णपुङ्गैः शिलाशितैः ॥
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः ।
जीवितान्तकरं घोरं व्यसृजत्त्वरयाऽन्वितः ॥
स तेनाभिहतो राजन्मूर्च्छामाशु समाविशत् ।
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥
अपोवाह रणात्तूर्णं सारथी रथिनां वरम् ।
हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनःपुनः ॥
पराजिते ततः शूरे द्रुपदस्यात्मजे प्रभो ।
व्यद्रवत्पाण्डवी सेना व्यधमाना समन्ततः ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे सप्तदशोऽध्यायः ॥ 17 ॥
8-17-1 शरभोऽष्टपादः सिंहघाती पशुपक्षिशरीरो नृसिंहवत्
द्व्यात्मा ॥ 8-17-12 ईदृशं व्यसनं यद्धेन मे दृष्टं कदाचन । दैवयोगादिमे बाणा न
जघ्नर्मम चाहवे इति क.ख.ट.पाठः ॥ 8-17-13 ईदृशं व्यसनं यद्धेन मे दृष्टं कदाचन ।
दैवयोगादिमे बाणा न जघ्नर्मम चाहवे इति क.ख.ट.पाठः ॥ 8-17-25 अभ्रश्यन्त
भ्रष्टाः । वर्म न चिच्छिदुरित्यर्थः ॥ 8-17-28 ववाम वान्तवान् ॥ 8-17-36
पार्षतं शिखंडिनं ॥ 8-17-17 सप्तदशोऽध्यायः ॥
श्रीः