अध्यायः 019

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् ।
स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ॥
तमापतन्तं सहसा तव पुत्रं महारथम् ।
धर्मराजो द्रुतं विद््ध्वा तिष्ठतिष्ठेति चाब्रवीत् ॥
स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः ।
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् ॥
ततो युधिष्ठिरो राजन्स्वर्णपुङ्खाञ्शिलीमुखान् ।
दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ॥
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः ।
पञ्चमेन शिरः कायात्सारथेश्च समाक्षिपत् ॥
षष्ठेन तु ध्वजं राज्ञः सप्तमेन तु कार्मुकम् । अष्टमेन तथा खङ्गं पातयामास भूतले ।
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् ॥
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव ।
उत्तमं व्यसनं प्राप्तो भूमावेवावतिष्ठत ॥
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः ।
अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम् ॥
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् ।
अन्वयुः समरे राजंस्ततो युद्धमवर्तत ॥
ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे ॥
क्ष्वेलाः किलकिलाशब्दाः प्रादुरासन्महीपते ।
यत्राभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ॥
नरा नरैः समाजग्मुर्वारणा वरवारणैः ।
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः ॥
द्वन्द्वान्यासन्महाराज प्रेक्षणीयानि संयुगे ।
विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ॥
ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च ।
अयुध्यन्त महावेगाः परस्परवधैषिणः ॥
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः ।
न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन ॥
मुहूर्तमेव तद्युद्वमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥
रथी नागं समासाद्य दारयन्निशितैः शरैः ।
प्रेषयामास कालाय शरैः सन्नतपर्वभिः ॥
नागा हयान्समासाद्य विक्षिपन्तो बहून्रणे ।
दारयामासुरत्युग्रं तत्रतत्र तदातदा ॥
हयारोहाश्च बहवः परिवार्य हयोत्तमान् ।
तलशब्दरवांश्चक्रुः सम्पतन्तस्ततस्ततः ॥
धावमानांस्ततस्तांस्तु द्रवमाणान्महागजान् ।
पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः ॥
विद्राव्य च बहूनश्वान्नागा राजन्मदोत्कटाः ।
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ॥
साश्वारोहांश्च तुरगान्विषामैर्विव्यधू रुषा ।
अपरे चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तदा ॥
पादातैराहता नागा विवरेषु समन्ततः ।
चक्रुरार्तस्वरं घोरं दुद्रुवुश्च दिशो दश ॥
पदातीनां तु सहसा प्रद्रुतानां महाहवे ।
उत्सृज्याभरणं तूर्णमववव्रू रणाजिरे ॥
निमित्तं मन्यमानास्तु परिणाम्य महागजाः ।
जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च ॥
तांस्तु तत्र प्रसक्तान्वै परिन्वार्य पदातयः ।
हस्त्यारोहान्निजघ्नुस्ते महावेगा बलोत्कटाः ॥
अपरे हस्तिभिर्हस्तैः खं विक्षिप्ता महाहवे ।
निपतन्तो विषाणाग्रैर्भृशं विद्वाः सुशिक्षितैः ॥
अपरे सहसा गृह्य विषाणैरेव सूदिताः ।
सेनान्तरं समासाद्य केचित्तत्र महागजैः ॥
क्षुण्णगात्रा महाराज विक्षिप्य च पुनःपुनः ।
अपरे व्यजनानीव विभ्राम्य निहता मृधे ॥
पुरःसराश्च नागानामपरेषां विशाम्पते ।
शरीराण्यतिविद्वानि तत्रतत्र रणाजिरे ॥
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे ।
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ॥
निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः ।
रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि ॥
सहयाः सादिनस्तत्र तोमरेण महामृधे ।
भूमावमृद्रन्वेगेन सचर्माणं पदातिनम् ॥
चछा सावरणान्कांश्चित्तत्रतत्र विशाम्पते । रथान्नागाः समासाद्य परिगृह्य च मारिष ।
व्याक्षिपन्सहसा तत्र घोररूपे भयानके ॥
नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः ।
पर्वतस्येव शिखरं वज्ररुग्णं महीतले ॥
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि ।
केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह ॥
उद्यम्य च भुजानन्ये निक्षिप्य च महीतले ।
पदा चोरः समाक्रम्य स्फुरतोऽपाहरच्छिरः ॥
पततश्चापरो राजन्विजहारासिना शिरः ।
`मृतमन्यो महाराज पदा ताडितवांस्तदा' ॥
जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् । मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत ।
तथा केशग्रहश्चोग्रो बाहुयुद्धं च भैरवम् ॥
समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः ।
जहार समरे प्राणान्नानाशस्तैरनेकधा ॥
संसक्तेषु च योधेषु वर्तमाने च सङ्कुले ।
कबन्धान्युत्थितानि स्युः शतशोऽथ सहस्रशः ॥
शोणितैः सिच्यमानानि शस्त्राणि कवचानि च ।
महारागानुरक्तानि वस्त्राणीव चकाशिरे ॥
एवमेतन्महद्युद्वं दारुणं शस्त्रसङ्कुलम् ।
उन्मत्तगङ्गाप्रतिमं शब्देनापूरयज्जगत् ॥
नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः ।
योद्वव्यमिति युध्यन्ते राजानो जयगृद्विनः ॥
स्वान्स्वे जघ्नुर्महराज परांश्चैव समागतान् ।
उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ॥
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः ।
हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ॥
अगम्यरूपा पृथिवी क्षणेन समपद्यत ।
क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी ॥
पाञ्चालानहतत्कर्णस्त्रिगर्तांश्च धनञ्जयः ।
भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ॥
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः ।
अपराह्णे गते सूर्ये काङ्क्षतां विपुलं यशः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकोनविंशोऽध्यायः ॥ 19 ॥

8-19-24 आभरणमववव्रुः अवगत्य वृतवन्तः ॥ 8-19-25 निमित्तं जयहेतुम् । महान्ता गजा येषां ते महागजा गजारोहा जगृहुर्हस्तिभिर्ग्राहयामासुः । परिणाम्य हस्तिनमिति शेषः । बिभि दुश्च शत्रून्गजैरेव ॥ 8-19-31 प्रतिमानेषु गजदन्तान्तरालेषु । प्रासैः कुम्भेषु तोमरैर्दन्तवेष्टेषु शक्तिमिश्च निगृहीताः । प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोरिति मेदिनी ॥ 8-19-19 एकोनविंशोऽध्यायः ॥

श्रीः