अध्यायः 029
दुर्योधनप्रार्थितेन शल्येन समयकरणपूर्वकं
कर्णरथसारथ्यस्वीकरणम् ॥ 1 ॥
एवं स भगवान्देवः सर्वलोकपितामहः ।
सारथ्यमकरोत्तत्र ब्रह्मा रुद्रोऽभवद्रथी ॥
रथिनोऽभ्यधिको वीर कर्तव्यो रथसारथिः ।
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ॥
यथा देवगणैस्तत्र वृतो यत्नात्पितामहः ।
तथाऽस्माभिर्भवान्यत्नात्कर्णादभ्यधिको वृतः ॥
यथा देवैर्महाराज ईश्वरादधिको वृतः ।
तथा देवैर्महाराज क्षिप्रं रुद्रस्यव पितामहः ।
नियच्छ तुरगान्युद्वे राधेयस्य महाद्युते ॥
शल्य उवाच ।
मयाप्येतन्नरश्रेष्ठ बहुशो नरसिंहयोः ।
कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम् ॥
यथा च चक्रे सारथ्यं भवस्य प्रपितामहः ।
यथाऽसुराश्च निहता इषुणैकेन भारत ॥
कृष्णस्य चापि विदितं सर्वमेतत्पुरा ह्यभूत् ॥
यथा पितामहो जज्ञे भगवान्सारथिस्तदा ।
अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः ॥
एतदर्थं विदित्वाऽपि सारथ्यमुपजग्मिवान् ।
स्वयम्भूरिव रुद्रस्य कृष्णः पार्थस्य भारत ॥
यदि हन्याच्च कौन्तेयं सूतपुत्रः कथञ्चनः ।
दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः ॥
शङ्खचक्रगदापाणिर्धक्ष्यते तव वाहिनीम् ।
न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः ।
स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव ॥
सञ्जय उवाच ।
तं तथा भाषमाणं तु मद्रराजमरिन्दमः ।
प्रत्युवाच महाबाहुरदीनात्मा सुतस्तव ॥
मावमंस्था महाबाहो कर्णं वैकर्तनं रणे ।
सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपरागम् ॥
यस्य ज्यातलनिर्घोषं श्रुत्वा भयकरं महत् ।
पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश ॥
प्रत्यक्ष ते महाबाहो यथा रात्रौ घटोत्कचः ।
मायाशतानि कुर्वाणो हतो मायापुरस्कृतः ॥
न चातिष्ठत बीभत्सुः प्रत्यनीके कथञ्चन ।
एतांश्च दिवसान्सर्वान्भयेन महता वृतः ॥
भीमसेनश्च बलवान्धनुष्कोट्याभिचोदितः ।
उक्तश्च संज्ञया राजन्मूढ औदरिको यथा ॥
माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे ।
कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष ॥
येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः ।
निर्जित्य समरे शूरो विस्थश्च बलात्कृतः ॥
सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः ।
असकृन्निर्जिताः सङ्ख्ये स्मयमानेन संयुगे ॥
तं कथं पाण्डवा युद्वे विजेष्यन्ति महारथम् ।
यो हन्यात्समरे क्रुद्वो वज्रहस्तं पुरन्दरम् ॥
त्वं च सर्वास्त्रविद्वीरः सर्वविद्यास्त्रपारगः ।
बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन ॥
त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे ।
ततस्त्वमुच्यसे राजञ्शल्य इत्यरिसूदन ॥
तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः ।
तव बाहुबलाद्राजन्किं नु कृष्णो बलाधिकः ॥
यथा हि कृष्णेन बलं धार्यं वै फल्गुने हते ।
तथा कर्णात्ययीभावे त्वया धार्यं महद्बलम् ॥
किमर्थं समरे सैन्यं वासुदेवो न्यवारयत् ।
किमर्थं च भवान्सैन्यं न हनिष्यति मारिष ॥
त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष ।
सोदराणां च वीराणां सर्वेषां च महीक्षिताम् ॥
शल्य उवाच ।
यन्मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद ।
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः ।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति ।
उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ ॥
सञ्जय उवाच ।
तथेति राजन्पुत्रस्ते सह कर्णेन मारिष ।
अब्रवीत्मद्रराजानं सर्वक्षत्रस्य सन्निधौ ॥
सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा ।
दुर्योधनस्तदा हृष्टः कर्णं तमभिषस्वजे ॥
अब्रवीच्च पुनः कर्णं स्तूयमानः सुतस्तव ।
जहि पार्थान्रणे सर्वान्महेन्द्रो दानवानिव ॥
स शल्येनाभ्युपगते हयानां सन्नियच्छने ।
कर्णो हृष्टमना भूयो दुर्योधनभाषत ॥
नातिहृष्टमना ह्येष मद्रराजोऽभिभाषते ।
राजन्मधुरया वाचा पुनरेनं ब्रवीहि वै ॥
ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली ।
दुर्योधनोऽब्रवीच्छल्यं मद्रराजं महीपतिम् ॥
पूरयन्निव घोषेण मेघगम्भीरया गिरा ।
शल्य कर्णोऽर्जुनेनाद्य योद्वव्यमिति मन्यते ॥
तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ।
कर्णो हत्वेतरान्सर्वान्फल्गुनं हन्तुमिच्छति ।
तस्याभीषुग्रहे राजन्प्रयाचे त्वां पुनः पुनः ॥
पार्थस्य सचिवः कृष्णो यथाऽभीषुग्रहो वरः ।
तथा त्वमपि राधेयं सर्वतः परिपालय ॥
सञ्जय उवाच ।
ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् ।
दुर्योधनममित्रघ्नं प्रीतो मद्राधिपस्तदा ॥
शल्य उवाच ।
एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन ।
तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् ॥
यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् ।
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यं परन्तप ॥
यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रिये ।
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ॥
कर्ण उवाच ।
ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः ।
तथा नित्यं हिते युक्तो मद्रराज भवस्व नः ॥
शल्य उवाच ।
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥
यत्तु विद्वन्प्रवक्ष्यामि प्रxxxxयार्थमहं तव ।
आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् ॥
अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो ।
अप्रमादात्प्रयोगाच्च ज्ञानविद्याचिकित्सनैः ॥
ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ ।
वाहयिष्यामि तुरगान्विज्वरो भव सूतज ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥
8-29-5 नरसिंहयोः कृष्णार्जुनयोः । अतस्तयोः साम्यं मम
कीर्तिकरमेवेति भावः । सुरसिंहयोरिति पाठे रुद्रपितामहयोः ॥ 8-29-26 किमर्थमिति ।
सारथ्यामात्रं प्रतिज्ञाय प्रातिभट्यं चेत्कृष्णः कुर्यात्तर्हि त्वं युध्यन्
तद्वन्मिथ्याप्रतिज्ञो न भविष्यसीति भावः ॥ 8-29-27 पदवीमानृण्यम् ॥ 8-29-42
वक्ष्ये वोढास्मि ॥ 8-29-45 आत्म निन्दापरस्तवावपि श्रेयस । निन्द्यौ
किमुतात्मपूजापरनिन्दे । तदुभयमहं करोमीति भावः ॥ 8-29-47 अप्रमादोऽवधानम् ।
प्रयोगोऽश्वप्रेरणम् । ज्ञानमागामिदोषावेक्षणम् । विद्या तत्परिहारज्ञानम् ।
चिकित्सनं दोषपरिहारसामर्थ्यम् ॥ 8-29-29 एकोनत्रिंशोऽध्यायः ॥
श्रीः