अध्यायः 030

शल्येन सारथीभूयाधिष्ठितं रथमधिष्ठाय कर्णस्य रणाय निर्याणम् ॥ 1 ॥

दुर्योधन उवाच ।
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति ।
कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः ॥
यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः ।
शल्यस्तथा तवाद्यायं संयन्ता रथवाजिनाम् ॥
योधे त्वयि रथस्थे च मद्रराजे च सारथौ ।
रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थानभिभविष्यति ॥
सञ्जय उवाच ।
ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् ।
उवाच राजन्सङ्ग्रामेऽध्युषिते पर्युपस्थिते ॥
कर्णस्य यच्छ सङ्ग्रामे मद्रराज हयोत्तमान् ।
त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम् ॥
इत्युक्तो रथमास्थाय तथेति प्राह भारत ।
शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत् ॥
त्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ॥
ततो जैत्रं रथवरं गन्धर्वनगरोपमम् ।
विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत् ॥
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि ।
सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा ॥
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् ।
समीपस्थं मद्रराजमारोह त्वमथाब्रवीत् ॥
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् ।
आरुरोह महातेजाः शल्यः सिंह इवाचलम् ॥
ततः शल्याश्रितं दृष्ट्वा कर्णः स्वं रथमुत्तमम् ।
अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः ॥
तावेकरथमारूढावादित्याग्निसमत्विषौ ।
अभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ॥
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तमौ ।
ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्यरे ॥
स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितो बभौ ।
धनुर्विष्फारयन्घोरं परिवेषीव भास्करः ॥
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् ।
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ॥
तं रथस्थं महाबाहुं युद्वायामिततेजसम् ।
दुर्योधनस्तु राधेयमिदं वचनमब्रवीत् ॥
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे ।
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ॥
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ ।
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ॥
ताभ्यां यदकृतं वीर वीरकर्म महामृधे ।
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ॥
गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् ।
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ॥
जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ ।
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ॥
ततस्तूर्यसहस्राणि भेरीणामयुतानि च ।
वाद्यमानान्यरोचन्त मेघशब्दो यथा दिवि ॥
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथरुत्तमः ।
अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ॥
चोदयाश्वान्महाबाहो यावद्वन्मि धनञ्जयम् ।
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ॥
अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः ।
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ॥
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् ।
पाण्डवानां विनाशाय दुर्योधनजयाय च ॥
सञ्जय उवाच ।
एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत् ।
कथं नु तान्महावीर्यान्पाण्डवानवमन्यसे ॥
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेन महाबलान् । अनिवर्तिनो महाभागानजय्यान्सत्यविक्रमान् ।
अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः ॥
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः ।
राधेय पार्थधनुषस्तदा नैवं वदिष्यसि ॥
यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे ।
विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि ॥
यदा द्रक्ष्यसि सङ्ग्रामे धर्मपुत्रं यमौ तथा ।
शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे ॥
अस्यतः क्षिण्वतश्चारीँल्लघुहस्तान्दुरासदान् ।
पार्थिवागपि चान्यांस्त्वं तदा नैवं वदिष्यसि ॥
सञ्जय उवाच ।
अनादृत्य तु तद्वाक्यं मद्रराजे भाषितम् ।
द्रक्ष्यस्यद्येत्यवोचत्तं शल्यं कर्णो जनेश्वर ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

8-30-2 हरिहयैरिन्द्रतुरगैर्युक्तं रथम् ॥ 8-30-4 अध्युषिते प्रातःकाले ॥ 8-30-30 त्रिंशोऽध्यायः ॥

श्रीः