अध्यायः 035

शल्येन कर्णंप्रति हंसकाकीयाख्यानकथनम् ॥ 1 ॥

सञ्जय उवाच ।
मारिषाधिरथेः श्रुत्वा वाचो युद्धाभिनन्दिनः ।
शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् ॥
जातोऽहं यज्वनां वंशे सङ्ग्रामेष्वनिवर्तिनाम् ।
राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः ॥
यथैव मत्तो मद्येन त्वं तथा लक्ष्यसे वृष ।
तथाऽद्य त्वां प्रमाद्यन्तं चिकित्सेयं सुहृत्तया ॥
इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे ।
श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन ॥
नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे ।
येन मां त्वं महाबाहो हन्तुमिच्चस्यनागसम् ॥
अवश्यं तु मया वाच्यं बुद्ध्वा तव हिताहितम् ।
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ॥
समं च विषमं चैव रथिनश्च बलाबलम् ।
श्रमः खेदश्च सततं हयानां रथिना सह ॥
आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् ।
सारं चैवाप्यासरं च शल्यानां च प्रतिक्रिया ॥
अस्त्रयोगं च युद्वं च निमित्तानि तथैव च । सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना ।
अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ॥
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् ।
यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ॥
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः ।
राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ॥
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् ।
काको बहूनामभवदुच्छिष्टकृतभोजनः ॥
तस्मैसदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः ।
मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी ॥
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः ।
सदृशान्पक्षिणो दृप्तः श्रेयससश्चावमन्यते ॥
अथ हंसाः समुद्रान्ते प्रजग्मुरतिपातिनः ।
गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ॥
कुमरारकास्तदा हंसान्दृष्ट्वा काकमथाब्रुवन् ।
भवानेव विशिष्टोऽसि पतत्रिभ्यो विहङ्गम ॥
एतेऽतिपातिनः पश्य विहङ्गान्वियदाश्रितान् ।
एहि त्वमपि शक्तो हि कस्मान्न पतितं त्वया ॥
प्रतार्यमाणस्तैः सर्वैरल्पबुद्धिभइरण्डजः ।
तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च जज्ञिवान् ॥
तान्सोनुपत्य जिज्ञासुः क एषां श्रेष्ठभागिति ।
उच्छिष्टदर्पितः काको बहूनामेकपातिनाम् ॥
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् । स तमाह्वत दुर्बुद्धिः पताव इति पक्षिणम् ।
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः ॥
भाषतो बहु काकस्य बालिश्यात्पततां वराः ।
इदमूचुः स्म चक्राङ्गावचः काकं विङ्गमाः ॥
हंसा ऊचुः ।
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः ।
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥
कथं हंसं नु बलिनं चक्राङ्गं दूरपातिनम् । काको भूत्वा निपतने समाह्वयसि दुर्मते ।
कथं त्वं पतिता काक सहास्माभिर्ब्रवीहि तत् ॥
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः ।
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ॥
काक उवाच ।
शतमेकं च पातानां पतिताऽस्मि न संशयः ।
शतयोजनमेकैकं विचित्रं विविधं तथा ॥
उड्डीनमवडीनं च प्रडीनं डीनमेव च ।
निडीनमथ संडीनं तिर्यक््डीनगतानि च ॥
विडीनं परिडीनं च पराडीनं सुडीनकम् ।
अभिडीनं महाडीनं निर्डीनमतिडीनकम् ॥
अवडीनं प्रडीनं च संडीनं डीनडीनकम् ।
संडीनोड्डीनडीनं च पुनर्डीनविडीनकम् ॥
संपातं समुदीषं च ततोऽन्यद्व्यतिरिक्तकम् । गतागतं प्रतिगतं बह्वीश्च निकुलीनकाः ।
कर्ताऽस्मि मिषतां वोऽद्य ततो द्रक्षयथ मे बलम् ॥
तेषामन्यतमेनाहं पतिष्यामि विहायसम् ।
प्रदिशध्वं यथान्यायं केन हंसाः पताम्यहम् ॥
ते वै ध्रुवं विनिश्चित्य सम्पतध्वं मया सह ।
पातैरेभिः खलु खगाः पतितुं खे निराश्रये ॥
एवमुक्ते तु काकेन प्रहस्यैको विहंगमः ।
उवाच काकं राधेय वचनं तन्निबोध मे ॥
हंस उवाच ।
शतमेकं च पातानां त्वं काक पतिता ध्रुवम् । एकमेव तु यं पातं विदुः सर्वे विहङ्गमाः ।
तमहं पतिता काक नान्यं जानामि कञ्चन ॥
काक उवाच ।
पत त्वमपि तत्राशु येन पातेन मन्यसे ॥
अथ काकं प्रजहसुर्ये तत्रासन्समागताः । कथमेकेन पातेन हंसः पातशतं जयेत् ।
एकेन वायस त्वैनं पातेनाभिभविष्यति ॥
हंसश्चोत्पतितः काको बलवानाशुविक्रमः । प्रपेततुः स्पर्धया च ततस्तौ हंसवायसौ ।
उपर्युपरि वेगेन समुद्रं मकरालयम् ॥
हंसस्त्वेकेन पातेन काकः पातशतेन च ।
स्पर्धिनौ सहितौ तूर्णं खमास्थाय तरस्विनौ ॥
हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे ।
पूर्वमेव तु वै काकः स तं तूर्णं प्रचक्रमे ॥
नात्यहीयत काकश्च मुहूर्तमिव सूतज ॥
काकोपि हंसं चापल्याच्छीघ्रतां प्रतिदर्शयन् ।
वेगेनातीत्य तरसा पुनरेति मुहुर्मुहुः ॥
तुण्डेनाभ्यहनच्चैनं कुर्वन्नामापसव्यतः । रोरूयन्निव चाप्येनं समाह्वयति वै मुहुः ।
विसिस्मापयिषुः पातैर्दर्शयन्नात्मनः क्रियाम् ॥
अथ तानि विचित्राणि पतितानीतराणि च ।
दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैः स्वरैः ॥
हंसाश्चापहसन्ति स्म प्रवदन्ति प्रियाणि च ।
कुर्वाणा विविधान्रावानिच्छन्तो जयमात्मनः ॥
उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च ।
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च ॥
अवमत्य च हंसं तमिदं काकोऽब्रवीद्वचः ।
योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते ॥
अथ हंसस्तु तच्छ्रुत्वा भाषितं पततांवरः ।
विगाह्य हंसो विक्षोभ्य प्रापतत्पश्चिमां दिशम् ॥
उपर्युपरि वेगेन सागरं मकरालयम् ।
बहुसत्वसमाकीर्णं वीचीभिर्भीमदर्शनम् ॥
अथाचिरेण राधेय काको वेगादहीयत ।
ततोऽतीव परिश्रान्तः कथञ्चिद्वंसमन्वगात् ॥
भीश्चैनमाविशत्तीव्रं काकं कर्ण विचेतसम् । द्वीपान्द्रुमान्वितान्पश्यन्विश्रमार्थं श्रमातुरः ।
निपतेयं क्कनु श्रान्त इति तस्मिञ्जलार्णवे ॥
अवगाह्य समुद्रोऽपि बहुसत्वगणालयः ।
महान्भूतशतोद्भूसी नभसस्तु विशिष्यते ॥
गाम्भीर्यार्द्वि समुद्रस्य न विशेषं कुलाधम । दिशश्च नाम्भसां कर्ण समुद्रस्था विदुर्जनाः ।
विपश्चितोप्यपारत्वात्किं पुनः कर्ण वायसः ॥
अथ हंसोप्यतिक्रामन्मुहूर्तमिव दूरतः ।
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥
शनकैः परिहीनं तं परिश्रान्तमचेतसम् ।
अवेक्षमाणस्तं काकं प्रत्यागम्य हसन्निव ॥
तं प्रहस्य च चक्राङ्गः काकं मन्दगतिं तदा । हीयमानमथो दृष्ट्वा हंसः प्राह यथार्थवत् ।
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ॥
बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः ।
पतस्यव्याहरन्खेदं ततो गर्ह्यं प्रभाषसे ॥
जलं नाम पतितं काक यत्त्वं पतसि साम्प्रतम् ।
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ॥
प्रब्रूहि कतमोऽयं ते पातो वर्तति वायस ।
एह्येहि काक शीघ्रं त्वमेष त्वां परिपालये ॥
स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा ।
काको दृढं परिश्रान्तः सहसा निपपात ह ॥
सागराम्भसि तं दृष्ट्वा पततन्तं दीनचेतसम् ।
म्रियमाणमिदं वाक्यं हंसः काकमुवाच ह ॥
शतमेकं च पातानां पताम्यहमिति स्म ह ।
श्लाघन्नात्मानमद्य त्वं काक भाषितवानसि ॥
स त्वमेकशतं पातं पतन्नभ्यधिको मया ।
कथमेवं परिश्रान्तः पतितोऽसि महार्णवे ॥
प्रत्युवाच ततः काकः सीदमान इदं वचः ।
उपरीतं तदा हंसं प्रसमीक्ष्य प्रसादयन् ॥
उच्छिष्टान्नेन पुष्टोऽहं दर्पोत्सिक्तः कुसत्वतः ।
सुपर्ण इव चात्मानं ज्ञातवान्पुत्रलाघवात् ॥
शरणं त्वां प्रपन्नोऽहमुदकान्तमवाप्नुयाम् ।
हंसेदानीं परिश्रान्तमापदो मां समुद्वर ॥
यदि नाम पुनर्जीवन्गच्छेयं स्वं निवेशनम् ।
नैनं पुनर्हीनमपि क्षेप्ताऽहं खे विचारिणम् ॥
तमेवं करुणं दीनं विलपन्तमचेतसम् । काककाकेति वाशन्तं निमज्जन्तं महार्णवे ।
कृपयाऽभिपरीतो वै कृपां चक्रे दुरात्मनि ॥
अथ तं पततं दीनं जलक्लिन्नमचेतनम् ।
पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारो पयत्तदा ॥
स हंसः पृष्ठमारोप्य काकं कर्ण विचेतसम् । अविस्मयंस्तदा कर्ण पुनरेव समानयत् ।
तमेव देशं तरसा स्पर्धया पेततुर्यतः ॥
उत्सृज्य त्वब्रवीन्मैवं पुनः कार्यं त्वयेति ह । स्थाप्य चैनं पुनर्द्वीपे समाश्वस्य च विक्लवम् ।
गतो यथेप्सितं देशं हंसो मन इवाशुगः ॥
एवमुच्छिष्टपुष्टः स काकोऽहंसपराजितः ।
बलं वीर्यं महत्कर्ण त्यक्त्वा क्षान्तिमुपागतः ॥
उच्छिष्टभोजनः काको यथा वैश्यकुले पुरा ।
एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ॥
सदृशाञ्श्रेयसश्चापि सर्वान्कर्णावमन्यसे ।
द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः ॥
विराटनगरे पार्थमेकं किं नावधीस्तदा । यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना
सृगाला इव सिंहेन क्व ते वीर्यं तदा गतम् ॥
भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना ।
पश्यतां कुरवीराणां प्रथमं त्वं पलायितः ॥
तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतान् ।
कुरून्सदारानुत्सृज्य त्वमेवाग्रे पलायितः ॥
हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे ।
कर्ण दुर्योधनं पार्थः सभ्रातृकममोक्षयत् ॥
पुनः प्रभावः पार्थस्य पुराणः केशवस्य च ।
कथितः कर्ण रामेण सभायां कुरुसंसदि ॥
सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः ।
अवध्यौ वदतोः कृष्णौ सन्निधौ च महीक्षिताम् ॥
कियन्तं तत्र वक्ष्यामि येनयेन धनञ्जयः ।
त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ॥
इदानीमेव द्रष्टासि प्रधाने स्यन्दने स्थितौ ।
पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम् ॥
यथाऽश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः ।
तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनञ्जयम् ॥
यदा त्वं युधि विक्रान्तौ वासुदेवधनञ्जयौ ।
द्रष्टास्येकरथे कर्ण तदा नैवं वदिष्यसि ॥
यदा शरशतैः पार्थो दर्पं तव वधिष्यति ।
तदा त्वमन्तरं द्रष्टा आत्मनश्चार्जुनस्य च ॥
देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ ।
तौ मावमंस्था मौर्ख्यात्त्वं स्वद्योत इव रोचनौ ॥
सूर्याचन्द्रमसौ यद्वत्तद्वदजुनकेशवौ ।
प्रकाश्येनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ॥
एवं विद्वन्मावमंस्थाः सूतपुत्राच्युतार्जुनौ ।
नरसिंहौ नरश्वा त्वं जोषमास्स्व विकत्थसे ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥

8-35-8 रुतं जयपराजयसूचकम् ॥ 8-35-9 निमित्तानि दिव्यान्तरिक्षभौमानि ग्रहाद्यानुकूल्यप्रातिकूल्यादीति । निदर्शनं दृष्टान्तम् ॥ 8-35-15 अतिपातिनः गत्यतिशयगामिनः । चक्राङ्गाः मानसचारिणः ॥ 8-35-16 पतत्रिभ्योऽन्येभ्यः प्रतार्यमाणोऽन्यथाप्रत्याय्यमानः ॥ 8-35-19 श्रेष्ठभाक् श्रेष्ठं अङ्गं भजते ॥ 8-35-20 पताव गच्छावः ॥ 8-35-29 मिषतां पश्यताम् ॥ 8-35-30 केन पातेन ॥ 8-35-33 एकं मुख्यम् ॥ 8-35-35 कथमेकेन पातेन जयेम शतपातिनम् । एकेनैव स यात्वेनं पातेनाभिविष्यसि इति ट.पाठः ॥ 8-35-35 पञ्चत्रिंशोऽध्यायः ॥

श्रीः