अध्यायः 045

कुमारोत्पत्तिवर्णनम् ॥ 1 ॥

जनमेजय उवाच ।
सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम ।
कुमारस्याभिषेकं तु ब्रह्मन्नाख्यातुमर्हसि ॥
यस्मिन्देशे च काले च यथा च वदतां वर ।
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ॥
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् ।
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ॥
वैशम्पायन उवाच ।
कुरुवंशस्य सदृशं कौतूहलमिदं तव ।
हर्षमुत्पादयत्वेव वचो मे जनमेजय ॥
हन्त ते कथयिष्यामि शृण्वानस्य नराधिप ।
अभिषेकं कुमारस्य प्रभावं च महात्मनः ॥
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा ।
तत्सर्वं भगवानग्निर्नाशकद्धर्तुमक्षयम् ॥
तेन सीदति तेजस्वी दीप्तिमान्हव्यवाहनः ।
न चैवं धारयामास ब्रह्मणे उक्तवान्प्रभुः ॥
स गङ्गामुपसगम्य नियोगाद्ब्रह्मणः प्रभुः ।
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ॥
अथ गङ्गापि तं गर्भमसहन्ती विधारणे उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ॥
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः ।
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ॥
शरस्तम्बे महात्मानमनलात्मजमीश्वरम् ।
ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचुक्रुशुः ॥
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः ।
प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ॥
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः ।
परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ॥
यत्रोत्सृष्टश्च गर्भः स गङ्गया निरिमूर्धनि ।
स शैलः काञ्चनः सर्वः सम्बभौ मेरुवत्तदा ॥
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता ।
अतश्च सर्वे संवृत्ता गिरयः काञ्चनात्मकाः ॥
कुमारः सुमहावीर्यः कार्तिकेय इति स्मृतः ।
गाङ्गेयः पूर्वमभवन्महाकायो बलान्वितः ॥
शमेन तपसा चैव वीर्येण च समन्वितः । ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः ।
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः ।
स्तयमानः सदा शेते गन्धर्वैर्मुनिभिस्तथा ॥
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः ।
दिव्यवादित्रनृत्यज्ञाः स्तुवन्त्यश्चारुदर्शनाः ॥
अन्वयुश्चाग्नयः सर्वे गङ्गा च सरितां वरा । दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् ।
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः ।
वेदश्चैनं चतुर्मूर्तिरपतस्थे कृताञ्जलिः ॥
धनुर्वेदश्चतुष्पादः सास्त्रग्रामः ससङ्ग्रहः ।
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ॥
स ददर्श महात्मानं देवदेवमुमापतिः ।
शैलपुत्र्या समागम्यभूतसङ्घशतैर्वृतः ॥
निकाया भूतसङ्घानां परमाद्भुतदर्शनाः ।
विकृता विकृताकारा विकृताभरणध्वजाः ॥
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः ।
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ॥
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः ।
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ॥
श्वाविच्छल्यकगोधानामजैडकगवां तथा ।
सदृशानि वपूंष्यन्ये तत्रतत्र व्यधारयन् ॥
केचिच्छेलाम्बुदप्रख्याश्चक्रालातगदायुधाः ।
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ॥
सप्तमातृगणाश्चैव समाजग्मुर्विशाम्पते ।
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ॥
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः ।
ब्रह्मा स्वयम्भूर्भगवान्सपुत्रः सहविष्णुना ॥
शक्रस्तथाऽभ्ययाद्द्रष्टुं कुमारममितप्रभम् ।
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ॥
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः । पितरो जगतः श्रेष्ठा देवानामपि देवताः ।
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ॥
स तु बालोऽपि बलवान्महायोगबलान्वितः ।
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ॥
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् ।
युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ॥
कं नु पूर्वमयं बालो गौरवादभ्युपैष्यति ।
अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ॥
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः ।
युगपद्योगमास्थाय ससर्ज विविधास्तनूः ॥
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः ॥
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः ।
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ॥
विशाखस्तु ययौ देवीं ततो गिरिवरात्मजाम् ।
शाखो ययौ स भगवान्दिव्यमूर्तिर्विभावसुम् ॥
नैगमेयोऽगमद्गङ्गां कुमारः पावकप्रभः ॥
सर्वे भासुरदेहास्ते चत्वारः समरूपिणः ।
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ॥
हाहाकारो महानासीद्देवदानवरक्षसाम् ।
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ॥
ततो रुद्रश्च देवी च पावकश्च पितामहम् ।
गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ॥
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव ।
इदमूचुर्वचो राजन्कार्तिकेयप्रियेप्सया ॥
अस्य बालस्य भगवन्नाधिपत्य यथेप्सितम् ।
अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ॥
ततः स भगवान्धीमान्सर्वलोकपितामहः ।
मनसा चिन्तयामास किमयं लभतामिति ॥
ऐश्वर्याणि च सर्वाणि देवगन्धर्वरक्षसाम् ।
भूतयक्षविहङ्गानां पन्नगानां च सर्वशः ॥
सर्वमेवादिदेशासौ कौरवेय महात्मनः ।
समर्थं च तमैश्वर्ये महामतिरमन्यत ॥
ततो मुहूर्तं स ध्यात्वा देवानां स्रेयसि स्थितः ।
सैनापत्यं ददौ तस्मै सर्व भूतेषु भारत ॥
सर्वदेवनिकायानां ये राजानः परिश्रुताः ।
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ॥
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः ।
अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ॥
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् ।
समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ॥
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते ।
निषेदुर्देवगन्धर्वाः सर्वे सम्पूर्णमानसाः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

9-45-6 तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयमिति झ.पाठः ॥ 9-45-7 तेनासीदति तेजस्वी इति झ.ङ.पाठः ॥ 9-45-25 बिडालवृषदंशौ मार्जारजातिभेदौ तत्सदृशाननौ ॥ 9-45-27 श्वानशल्यकगोधानामिति क.पाठः ॥ 9-45-37 तस्य स्कन्दस्य पृष्ठतः पश्चात् शाखविशाखनैगमेयाः आसन् । ते स्कन्देन सह चत्वारः ॥ 9-45-39 वायुमूर्तिर्विभावसुमिति झ.पाठः ॥ 9-45-42 अद्भुतमदृष्टपूवम् ॥ 9-45-45 पञ्चचत्वारिंशोऽध्यायः ॥

श्रीः