अध्यायः 049

बलरामस्य बदरपाचनतीर्थगमनम् ॥ 1 ॥ श्रुतावत्यरुन्धत्योर्महिमानुवर्णनम् ॥ 2 ॥

वैशम्पायन उवाच ।
ततस्तीर्थवरं रामो ययौ बदरपाचनाम् ।
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता ॥
भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि ।
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी ॥
तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता ।
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी ॥
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह ।
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान् ॥
तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते ।
भक्त्या च भगवान्प्रीतः परया पाकशासनः ॥
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः ।
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः ॥
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम् ।
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत ॥
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा ।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत ।
शक्त्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन ॥
व्रतैश्च नियमैश्चैव तपसा च तपोधन ।
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः ॥
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम् ।
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत ॥
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते ।
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः ॥
तच्च सर्वं यथाभूतं भविष्यति वरानने ।
तपसा लभ्यते सर्वं यथाभूतं भविष्यति ॥
यथा स्थानानि दिव्यानि विबुधानां शुभानने ।
तपसा तानि प्राप्याणि तपोमूलं महात्सुखम् ॥
इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः ।
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम ॥
प़ञ्च चैतानि सुभगे बदराणि शुभव्रते ।
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः ॥
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः ।
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम् ॥
तच्च तीर्थं महाराज यत्र जप्यं जजाप सः ।
इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद ॥
तस्य जिज्ञासनार्थं स भगवान्पाकशासनः ।
बदराणामपचनं चकार विबुधाधिपः ॥
ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा । तत्परा शुचिसंवीता पावके समधिश्रयत् ।
अपचद्राजशार्दूल बदराणि महाव्रता ॥
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ ।
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात् ॥
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः ।
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत् ॥
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना ।
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ ॥
चरणे दह्यमाने च नाचिन्तयदनिन्दिता ।
दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया ॥
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत् ।
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता ॥
तच्चास्याः पचने यत्नं न न्यवर्तत भारत ।
सर्वथा बदराण्येव पक्तव्यानीति कन्यका ॥
सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा ।
अपचद्बदराण्येव न चापच्यन्त भारत ॥
तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम् ।
न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा ॥
अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः ।
ततः सन्दर्शयामास कन्यायै रूपमात्मनः ॥
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम् ।
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च ॥
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे ।
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि ॥
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति । सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम् ।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम् ॥
अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे ।
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम् ॥
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः ।
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल ॥
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने ।
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी ॥
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः ।
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा ॥
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम् ।
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा ॥
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः ।
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे ॥
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना ।
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय ॥
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते । इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया ।
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी ॥
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा ।
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी ॥
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः ।
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः ॥
ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात् ।
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः ॥
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन् ।
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च ॥
ततः सन्दर्शयामास स्वरूपं भगवान्हरः ।
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत् ॥
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम् ।
अस्यास्च यत्तपो विप्रा न समं तन्मतं मम ॥
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम् ।
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः ॥
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः ।
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि ॥
साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि ।
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम् ॥
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम् ।
तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः ॥
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम् ।
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम् ॥
सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा । ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम् ।
अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम् ॥
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया ।
यथा त्वया महाभागे मदर्थे संशितव्रते ॥
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः । तथा चेदं ददाम्यद्य नियमेन सुतोषितः ।
विशेषं तव कल्याणि प्रयच्छामि वरं वरे ॥
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना । तस्य चाहं प्रभावेन तव कल्याणि तेजसा ।
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि ॥
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः ।
सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान् ॥
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान् ।
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः ॥
गते वज्रधरे राजंस्तत्र वर्षं पपात ह ।
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम् ॥
दवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः ।
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते ॥
उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम् ।
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत ॥
जनमेजय उवाच ।
का तस्या भगवन्माता क्व संवृद्धा च शोभना ।
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे ॥
वैशम्पायन उवाच ।
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः ।
दृष्ट्वाऽप्सरसमायान्ती घृताचीं पृथलोचनाम् ॥
स तु जग्राह तद्रेतः करेण जपतां वरः ।
तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता ॥
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः ।
नाम चास्याः स कृतवान्भरद्वाजो महामुनिः ॥
श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि ।
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम् ॥
तत्राप्युपस्पृश्य महानुभावो वसूनि दत्त्वा च महाद्विजेभ्यः ।
जगाम तीर्थं सुसमाहितात्मा शक्रस्य वृष्णिप्रवरस्तदानीम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥

9-49-23 उपावर्तयत अग्रेऽग्रे प्रसारितवती ॥ 9-49-26 तच्चास्या वचनं नित्यमवर्तद्वृदि भारत इति झ.पाठः ॥ 9-49-49 एकोनपञ्चाशोऽध्यायः ॥

श्रीः