अध्यायः 057

भीमदुर्योधनयोर्वीरवादः ॥ 1 ॥

वैशम्पायन उवाच ।
ततो वाग्युद्धमभवत्तुमुलं जनमेजय ।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी ।
एकादशचमूभर्ता यत्र पुत्रो ममानघ ॥
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुन्धराम् ।
गदामादाय चैकाकी पदातिः प्रस्थितो रणम् ॥
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः ।
गदामुद्यम्य यो याति किमन्यद्भागधेयतः ॥
अहो दुःखं महत्प्राप्तं पुत्रेण मम स़ञ्जय ।
एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ॥
सञ्जय उवाच ।
स मेघनिनदो हर्षान्निनदन्निव गोवृषः ।
आजुहाव तदा पार्थं युद्धाय युधि वीर्यवान् ॥
भीममाह्वयमाने तु कुरुराजे महात्मनि ।
प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ॥
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च ।
बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ॥
महास्वनाः सुनिर्वातास्तुमुला रोमहर्षणाः ।
पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलात् ॥
राहुश्चाग्रसदादित्यमपर्वणि विशाम्पते ।
चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ॥
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करकर्षिणः ।
गिरीणां शिखराण्येव न्यपतन्त महीतले ॥
मृगा बहुविधाकाराः सम्पतन्ति दीशो दश ।
दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ॥
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः ।
दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ॥
उदपानगताश्चापो व्यवर्धन्त समन्ततः ।
अशरीरा महानादाः श्रूयन्ते स्म भयानकाः ॥
एवमादीनि दृष्ट्वा स निमित्तानि वृकोदरः ।
उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ॥
एष शक्यो मया जेतुं मन्दात्मा च सुयोधनः ॥
अद्य क्रोधं विमोक्ष्यामि निगूढं हृदयेशयम् ।
सुयोधने कौरवेन्द्रे खाण्डवेऽग्निमिवार्जुनः ॥
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।
निहत्य गदया पापमिमं कुरुकुलान्तकम् ॥
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि ।
हत्वेमं पापकर्माणं गदया रणमूर्धनि ॥
अद्योरुगदया राजन्भेत्ताऽस्मि समरेऽनया ।
नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ॥
सर्पोत्सर्गस्य शयने विषदानस्य भोजने ।
प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ॥
सभायामवहासस्य सर्वस्वहरणस्य च ।
वर्षमज्ञातवासस्य वनवासस्य चानघ ॥
अद्यान्तमेषां दुःखानां गन्ताऽहं भरतर्षभ ।
एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ॥
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः ।
समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ॥
अद्य सौख्यं तु राजेन्द्र कुरुराजस्य दुर्मतेः ।
समाप्तं च महाराज नारीणां दर्शनं पुनः ॥
अद्यायं कुरुराजस्य शन्तनोः कुलपांसनः ।
प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ॥
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं निपातितम् ।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् ।
अभ्यतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ॥
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः ।
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला ।
द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ॥
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् । विराटनगरे चैव योन्यन्तरगतैरिव ।
तत्सर्वं पातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ॥
त्वत्कृतेऽसौ हतः शेते शरतल्पे पितामहः ।
गाङ्गेयो रथिनां श्रेष्ठो रथिना याज्ञसेनिना ॥
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् ।
वैराग्नेरादिकर्तासौ शकुनिः सौबलो हतः ॥
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ।
भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ॥
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः ।
त्वामद्य निहनिष्यामि गदया नात्र संशयः ॥
इत्येवमुच्चै राजानं भाषमाणं वृकोदरम् ।
उवाच गतभी राजन्पुत्रस्ते सत्यविक्रमः ॥
किं कत्थनेन बहुना युध्यस्वेह वृकोदर ।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ॥
इति दुर्यार्धेनोऽक्षुद्रस्त्वया क्षुद्रबलेन वै ।
शक्यस्रासयितुं वाचा न चान्यः प्राकृतो यथा ॥
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम ।
त्वया सह गदायुद्धं त्रिदशैरुपपादितम् ॥
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते ।
वाणी सङ्कोच्यतामेषा कर्मणा मा चिरं कृथाः ॥
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् ।
राजानः सोमकाश्चैव ये तत्रासन्समागताः ॥
ततः सम्पूजितः सर्वैः सम्प्रहृष्टतनूरुहः ।
भूयो धीरां मतिं चक्रे युद्धाय कुरुनन्दनः ॥
तं मत्तमिव मातङ्गं तलशब्दैर्नराधिपाः ।
भूयः संहर्षयांचक्रुर्दुर्योधनममर्षणम् ॥
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः ।
अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ॥
बृंहन्ति कुञ्चरास्तत्र हया हेषन्ति चासकृत् । शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणां ॥

इति श्रीमन्महाभारते शल्यपर्वणि कदायुद्धपर्वणि सप्तपञ्चाशत्तमोऽध्यायः ॥ 57 ॥

9-57-16 नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधन इति झ.पाठः ॥ 9-57-41 वाणी सम्पद्यतामिति झ.पाठः ॥ 9-57-57 सप्तपञ्चाशत्तमोऽध्यायः ॥

श्रीः