अध्यायः 061

भीमे अपनयबुद्ध्या क्रुद्धेन बलरामेण लाङ्गलमुद्यम्य तम्प्रत्यभिगमनम् ॥ 1 ॥ कृष्णेन तत्सान्त्वनं ततो बलस्य द्वारकागमनम् ॥ 2 ॥ युधिष्ठिरस्य कृष्णेन भीमेन च संलापः ॥ 3 ॥

धृतराष्ट्रा उवाच ।
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः ।
किमब्रवीत्तदा सूत बलदेवो महाबलः ॥
गदायुद्धविशेषज्ञो गदायुद्धविशारदः ।
कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् ।
रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ॥
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः ।
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ॥
अहो धिग्यदधो नाभेः प्रहृतं धर्मविग्रहे ।
नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ॥
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः ।
अयं तु शास्त्रमुत्सृज्य स्वच्छन्दात्सम्प्रवर्तते ॥
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् । [ततो राजानमालोक्य रोषसंरक्तलोचनः ।
बलदेवो महाराज ततो वचनमब्रवीत् ॥
न चैष पतितः कृष्ण केवलं मत्समोऽसमः । आश्रितस्य तु दौर्बल्यादाश्रयः परिभर्त्स्यते ॥]
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ॥
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः ।
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ॥
`भ्रातृभिः सहितो वीरैः सार्जुनैरस्त्रकोविदैः ।
न विव्यथे महाराज दृष्ट्वा हलधरं बली' ॥
अथ रामं निजग्राह केशवो विनयान्वितः ।
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ॥
सितासितौ यदुवरौ शुशुभातेऽधिकं तदा । `सङ्गताविव राजेन्द्र कैलासाञ्जनपर्वतौ ।
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ॥
उवाच चैनं संरब्धं शमयन्निव केशवः ॥
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा ।
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ॥
आत्मन्यपि च मित्रे च विपरीतं यदा भवेत् ।
तदा विद्यान्मनोग्लानिमाशु शान्तिकरो भवेत् ॥
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः ।
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ॥
प्रतिज्ञापालनं धर्मः क्षत्रियस्येति वेत्थ तत् ॥
सुयोधनस्य गदया भक्ताऽस्म्यूरू महाहवे ।
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ॥
मैत्रेयेणाभिशप्तश्च पूर्वमेव महार्षिणा । ऊरू ते भेत्स्यते भीमो गदयेति परन्तप ।
अतो दोषं न पश्यामि मा क्रुध्यस्व प्रलम्बहन् ॥
यौनः स्वैः सुखहार्दैश्च सम्बन्धः सह पाण्डवैः ।
तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधः पुरुषर्षभ ॥
वासुदेववचः श्रुत्वा सीरभृत्प्राह धर्मवित् ॥
धर्मश्च धारितः सद्भिः स च द्वाभ्यां नियच्छति ।
अर्थश्चाप्यतिलुब्धस्य कामश्चातिप्रसङ्गिणः ॥
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् ।
धर्मार्थकामान्योऽभ्येति सोत्यन्तं सुखमश्नुते ॥
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् ।
भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम् ॥
कृष्ण उवाच ।
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः ।
भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ॥
प्राप्तं कलियुगं विद्वि प्रतिज्ञां पाण्डवस्य च । आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः ।
`ततः पुरुषशार्दूलो हत्वा नैकृतिकं रणे ॥
निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे ।
अधर्मो विद्यते नात्र यद्भीमो हतवान्रिपुम् ॥
युध्यमानं रणे वीरं कुरुवृष्णियशस्करम् ।
अनेन कर्णः सन्दिष्टः पृष्ठतो धनुरच्छिनत् ॥
ततः सञ्छिन्नधन्वानं विरथं पौरुषे स्थितम् ।
व्यायुधीकृत्य बहवः सौभद्रमपलायिनम् ॥
जन्मप्रभृति लुब्धश्च पापात्मा चैष दुर्मतिः ।
निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः ॥
प्रतिज्ञां भीमसेनेन त्रयोदशसमार्जिताम् ।
किमर्थं नाभिजानाति युध्यमानो हि शत्रुभिः ॥
ऊर्ध्वमाक्रम्य वेगेन जिघांसन्तं वृकोदरः ।
बिभेद गदया चोरू न स्थाने न च मण्डले' ॥
सञ्जय उवाच ।
धर्मच्छलमिमं श्रुत्वा केशवात्स विशाम्पते ।
नैव प्रीतमाना रामो वचनं प्राह संसदि ॥
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम् ।
जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ॥
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् ।
ऋजुयोधी हतो राजा धर्मराष्ट्रो नराधिपः ॥
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च । हुत्वाऽऽत्मानममित्राग्नौ प्राप चावभृथं यशः ।
`स्वर्गं गन्ता महाराजः ससुहृज्ज्ञातिबान्धवः' ॥
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् ।
श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ॥
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशाम्पते ।
रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ॥
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् ।
शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् ॥
वासुदेव उवाच ।
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे ।
हतबन्धोर्यदेतस्य पतितस्य विचेतसः ॥
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा ।
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ॥
युधिष्ठिर उवाच ।
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः ।
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ॥
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् ।
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिता वयम् ॥
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते ।
इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ॥
तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम् ।
लभतां पाण़्डवः कामं धर्मोऽधर्मोऽथवा कृतः ॥
सञ्जय उवाच ।
इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे । वासुदेवो महाबाहुर्युधिष्ठिरमभाषत ।
काममस्त्वेतदिति वै कृच्छ्राद्यदुकुलोद्वहः ॥
इत्युक्त्वा वासुदेवोऽपि वायुपुत्रप्रियेप्सया ।
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ॥
`अर्जुनोऽपि महाबाहुरप्रीतेनान्तरात्मना ।
नोवाच किञ्चिद्वचनं भ्रातरं साध्वसाधु वा' ॥
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः ।
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः ॥
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् ।
हर्षादुत्फुल्लनयनो जितकाशी विशाम्पते ॥
तवाद्य पृथिवी सर्वा क्षेमा निहतकण्टका ।
तां प्रशाधि महाराज स्वधर्ममनुपालय ॥
यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः ।
सोऽयं विनिहतः शेते पृथिव्यं पृथिवीपते ॥
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः ।
राधेयः शकुनिश्चैव हताश्च तव शत्रवः ॥
सेयं रत्नसमाकीर्णा मही सवनपर्वता ।
उपावृत्ता महाराज त्वामद्य निहतद्विषम् ॥
युधिष्ठिर उवाच ।
गतो वैरस्य निधनं हतो राजा सुयोधनः ।
कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा ॥
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः ।
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥

9-61-15 आत्मवृद्धिः शत्रुक्षयः स्वमित्रस्य वृद्धिः शत्रुमित्रस्य क्षयः स्वमित्रमित्रस्य वृद्धिः शत्रुमित्रमित्रस्य क्षयः एवं षड्विधा आत्मनो वृद्धिः ॥ 9-61-16 यदि चोदात्मनो ग्लानिस्तदा शान्तिकर इति क.पाठः ॥ 9-61-19 भक्ता भङ्क्ष्ये ॥ 9-61-21 यौनः योनिनिमित्तः सम्बन्धः । अस्माकं पितामहः पाण्डवानां मातामहश्चैक इति यौनसम्बन्धः ॥ 9-61-22 सीरभृत् रामः ॥ 9-61-23 धर्मइति । नियच्छति नियममेति अर्थकामाभ्यां धर्मः सङ्कोचमेतीत्सर्थः ॥ 9-61-24 धर्मार्थौ कामे नापीडयन् धर्मकावर्थेनापीडयन् कामार्थौ धर्मेण चापीडयन्नित्यर्थः ॥ 9-61-25 कामं यथेष्टं त्वं मां प्रति उक्तवानसि नतु धर्म्ये ॥ 9-61-27 कलियुगारम्भे एतावत्पापं नातीव खेदावहमिति भावः ॥ 9-61-41 अधर्ममनुपश्यसीति क.छ.पाठः ॥ 9-61-46 धर्मोऽधर्मे च वा कृते इति झ.पाठः ॥ 9-61-62 एकषष्टितमोऽध्यायः ॥

श्रीः