अध्यायः 007

उभयसैन्यानां व्यूहरचनापूर्वकं द्वन्द्वीभूय युद्धाय निर्गमनम् ॥ 1 ॥

सञ्जय उवाच ।
व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा ।
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः ॥
राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः ।
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथा परे ॥
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः ।
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ॥
वादित्राणां च निनदः प्रादुरासीद्विशाम्पते ।
योधानां सैन्यमुख्यानामन्योन्यं प्रतिगर्जताम् ॥
ततो बलानि सर्वाणि हतशिष्टानि भारत ।
सन्नद्धानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम् ॥
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः ।
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः । कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः ।
अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः ॥
`अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः' ।
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः ॥
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् । स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः ।
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥
एवं ते समयं कृत्वा सर्वे तत्र महारथाः ।
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ॥
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे ।
अभ्ययुः कौरवान्युद्धे योत्स्यमानाः समन्ततः ॥
ततो बलं समभवत्क्षुब्धार्णवसमस्वनम् ।
समुद्भूतार्णवाकारमुदीर्णरथकुञ्जरम् ॥
धृतराष्ट्र उवाच ।
द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम् ।
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥
कथं रणे हतः शल्यो धर्मराजेन सञ्जय ।
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥
सञ्जय उवाच ।
क्षयं मनुष्यदेहानां तथा नागाश्वसङ्क्षयम् ।
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ॥
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा ॥
हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते ।
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥
तामाशां हृदये कृत्वा समाश्वस्य च भारत । मद्रराजं च समरे समाश्रित्य महारथम् ।
नाथवन्तं तदाऽऽत्मानममन्यत सुतस्तव ॥
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे ।
तदा राजन्धार्तराष्ट्रान्प्रविवेश महद्भयम् ॥
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् ।
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ॥
प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान् । विधून्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ।
रथप्रवरमास्थाय सैन्धवाश्वं महारथः ॥
तस्य सूतो महाराज रथस्थोऽशोभयद्रथम् । स तेन संवृतो वीरो रथेनामित्रकर्शनः ।
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः ।
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः ।
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ॥
अश्वत्थामा पृष्ठतोऽभूत्काम्भोजैः परिवारितः ।
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ॥
हयानीकेन महता सौबलश्चापि संवृतः ।
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः ।
त्रिधाभूता महाराज तव सैन्यमुपाद्रवन् ॥
धृष्टद्युम्नः शिखण्डी च सात्यकिस्च महारथः ।
शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे ॥
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः ।
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः ॥
हार्दिक्यं च महेष्वासमर्जुनः शत्रुपूगहा ।
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे ॥
गौतमं भीमसेनो वै सोमकाश्च महारथाः ।
अभ्यद्रवन्त राजेनद््र जिघांसन्तः परान्युधि ॥
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम् ।
ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे ॥
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे ।
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः ॥
धृतराष्ट्र उवाच ।
हते भीष्मे हमेष्वासे द्रोणे कर्णे जयद्रथे ।
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥
संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय ।
मामकानां परेषां च किं शिष्टमभवद्बलम् ॥
सञ्जय उवाच ।
यथा वयं परे राजन्युद्धाय समुपस्थिताः ।
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे ॥
एकादश सहस्राणि रथानां भरतर्षभ ।
दश दन्तिसहस्राणि सप्त चैव शतानि च ॥
पूर्णे शतसहस्रे द्वे हयानां तत्र भारत ।
पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ॥
रथानां षट््सहस्राणि षट्सहस्राश्च कुञ्जराः ।
दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥
एतद्बलं पाण्डवानामभवच्छेषमाहवे ।
एत एव समाजग्मुर्युद्वाय भरतर्षभ ॥
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः ।
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ॥
तथैव पाण़्डवाः शूराः समरे जितकाशिनः ।
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥
एवमेते बलौघेन परस्परवधैषिणः ।
उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ॥
ततः प्रववृते युद्धं घोररूपं भयानकम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

9-7-39 पत्तिकोटी इति द्विवचनम् ॥ 9-7-7 सप्तमोऽध्यायः ॥

श्रीः