अध्यायः 007
द्रौणिना शिवस्तुतिः ॥ 1 ॥ द्रौणेः पुरतः
काञ्चनवेद्यामग्न्युद्भवः ॥ 2 ॥ द्रौणेः समीपे नानाविधभीषणभूतगणानामागमनम् ॥ 3 ॥ शिवेन आत्मनो हविष्ट्वकल्पनपूर्वकमग्नौ प्रविष्टाय द्रौणये खङ्गदानपूर्वकं
तच्छरीरप्रवेशः ॥ 4 ॥ पुनरश्वत्थाम्नः शिबिरगमनम् ॥ 5 ॥
एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशाम्पते ।
अवतीर्य रथोपस्थाद्दध्यौ स प्रयतः स्थितः ॥
द्रौणिरुवाच ।
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरम् ।
गिरिशं वरदं देवं भवभावनमव्ययम् ॥
शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥
श्मशानवासिनं दृप्तं महागणपतिं विभुम् ।
खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥
मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा ।
अद्य भूतोपहारेण यक्ष्ये त्रिपुराघातिनम् ॥
xxतुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम् ।
विलोहितं नीलकण्ठमसह्यं दुर्निवारणम् ॥
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च ।
व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम् ॥
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् ।
धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम् ॥
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् ।
कुत्तिवाससमत्युग्रमातोषणतत्परम् ॥
परं परेभ्यः परमं परं यस्मान्न विद्यते ।
इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम् ॥
हिरण्यकवचं देवं चन्द्रमौलिविभूषणम् ।
प्रपद्ये शरणं देवं परमेण समाधिना ॥
इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम् ।
सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ॥
इति तस्य व्यवसितं ज्ञात्वा योगात्सुकर्मणः ।
पुरस्तात्काञ्चनी वेदी प्रादुरासीन्महात्मनः ॥
तस्यां वेद्यां तदा राजंश्चित्रभानुरजायत ।
स दिशो विदिशः खं च ज्वालाभिरिव पूरयन् ॥
दीप्तास्यनयनाश्चात्र नैकपादशिरोधराः ।
[रत्नचित्राङ्गदधराः समुद्यतकरास्तथाः ॥]
द्विपाः शैलप्रतीकाशाः प्रादुरासन्महागणाः ।
श्ववराहोष्ट्ररूपाश्च हयगोमायुगोमुखाः ॥
ऋक्षमार्जारवदना व्याघ्रद्वीपिमुखास्तथा ।
काकवक्त्राः प्लुवमुखाः शुकवक्त्रास्तथैव च ॥
महाजगरवक्त्राश्च हंसवक्त्राः शितप्रभाः ।
दार्वाघाटमुखाश्चापि चाषवक्त्राश्च भारत ॥
कूर्मनक्रमुखाश्चैव शिंशुमारमुखास्तथा ।
महामकरवक्त्राश्च तिमिवक्त्रास्तथैव च ॥
हरिवक्त्राः क्रौञ्चमुखाः कपोताभमुखास्तथा ।
पारावतमुखाश्चैव मद्गुवक्त्रास्तथैव च ॥
पाणिकर्णाः सहस्राक्षास्तथैव च महोदराः ।
निर्मांसाः काकवक्त्राश्च श्येनवक्त्राश्च भारत ॥
तथैवाशिरसो राजन्नृक्षवक्त्राश्च भीषणाः ।
प्रदीप्तनेत्रजिह्वाश्च ज्वालावर्णास्तथैव च ॥
ज्वालाकेशाश्च राजेन्द्र ज्वलद्रोमचतुर्भुजाः ।
मेषवक्त्रास्तथैवान्ये तथा छागमुखा नृप ॥
शङ्खाभाः शङ्खवक्त्राश्च शङ्खवर्णास्तथैव च ।
शङ्खमालापरिकराः शह्खध्वनिसमस्वनाः ॥
जटाधराः प़ञ्चशिखास्तथा मुण्डाः कृशोदराः ।
चतुर्दंष्ट्राश्चतुर्जिह्वाः शङ्कुकर्णाः किरीटिनः ॥
मौञ्जीधराश्च राजेन्द्र तथा कुञ्चितमूर्धजाः ।
उष्णीषिणः कुण्डलिनश्चारुवक्त्राः स्वलङ्कृताः ॥
पद्मोत्पलापीडधरास्तथा मुकुटधारिणः ।
महात्म्येन च संयुक्ताः शतशोऽथ सहस्रशः ॥
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः ।
भुशुण्डीपाशहस्ताश्च दण़्डहस्ताश्च भारत ॥
पृष्ठेषु बद्धेषुधयश्चित्रबाणोत्कटास्तथा ।
सध्वजाः सपताकाश्च सघण्टाः सपरश्वथाः ॥
महापाशोद्यतकरास्तथा लगुडपाणयः ।
स्थूणाहस्ताः खङ्गहस्ताः सर्पोच्छ्रितकिरीटिनः ॥
महासर्पाङ्गदधराश्चित्राभरणधारिणः ।
रजोध्वजाः पङ्कदिग्धाः सर्वे चित्राम्बरस्रजः ।
नीलाङ्गाः पिङ्गलाङ्गाश्च मुण्डवक्तास्तथैव च ॥
भेरीशङ्खमृदङ्गांश्च झर्झरानकगोमुखान् ।
अवादयन्पारिषदाः प्रहृष्टाः कनकप्रभाः ॥
गायमानास्तथैवान्ये संहृष्टाः पुरुषर्षभाः ।
लङ्घयन्तः प्लुवन्तश्च वल्गन्तश्च महारथाः ॥
धावन्तो जवनाश्चण्डाः पावकोद्वूतमूर्धजाः ।
मत्ता इव महानागा विनदन्तो मुहुर्मुहुः ॥
सुभीमा घोररूपाश्च शूलपट्टसपाणयः ।
नानाविरागवसनाश्चित्रमाल्यानुलेपनाः ॥
रत्नचित्राङ्गदधराः समुद्यतकरास्तथा ।
हन्तारो द्विषतां शूराः प्रसह्यासह्यविक्रमाः ॥
पातारोऽसृग्वसाज्यानां मांसान्त्रकृतभोजनाः ।
चूडालाः कर्णिकाराश्च प्रहृष्टाः पिठरोदराः ॥
अतिहस्वातिदीर्घाश्च प्रलम्बाश्चातिभैरवाः ।
विकटाः काललंबोष्ठा बृहच्छेफाण्डपिण्डिकाः ॥
महार्हनानाविकटा मुण्डाश्च जटिलाः परे ।
सार्केन्दुग्रहनक्षत्रां द्यां कुर्युस्ते महीतले ॥
उत्सहेरंश्च ये हन्तुं भूतग्रामं चतुर्विधम् ।
ये च वीतभया नित्यं हरस्य भ्रुकुटीसहाः ॥
कामकारकरा नित्यं त्रैलोक्यस्येश्वरेश्वराः ।
नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥
प्राप्याष्टगुणमैश्वर्यं ये न यास्यन्ति वै स्मयम् ।
येषां विस्मयते नित्यं भगवान्कर्मभिर्हरः ॥
मनोवाक्कर्मभिर्युक्तैर्नित्यमाराधितश्च यैः ।
मनोवाक्कर्मभिर्भक्तान्पाति पुत्रानिवौरसान् ॥
पिबन्तोऽसृग्वसाश्चान्ये क्रुद्धा ब्रह्मद्विषां सदा ।
चतुर्विधात्मकं सोमं ये पिबन्ति च सर्वदा ॥
श्रुतेन ब्रह्मचर्येण तपसा च दमेन च ।
ये समाराध्य शूलाङ्कं भवसायुज्यमागताः ॥
यैरात्मभूतैर्भगवान्पार्वत्या च महेश्वरः ।
महाभूतगणैर्भुङ्क्ते भूतभव्यभवत्प्रभुः ॥
नानावादित्रहसितक्ष्वेडितोत्कृष्टगर्जितैः ।
सन्त्रासयन्तस्ते विश्वमश्वत्थामानमभ्ययुः ॥
संस्तुवन्तो महादेवं भाः कुर्वाणाः सुवर्चसः ।
विवर्धयिषवो द्रौणेर्महिमानं महात्मनः ॥
जिज्ञासमानास्तत्तेजः सौप्तिकं च दिदृक्षवः ।
भीमोग्रपरिघालातशूलपट्टसपाणयः ।
घोररूपाः समाजग्मुर्भूतसङ्घाः सहस्रशः ॥
जनयेयुर्भयं ये स्म त्रैलोक्यस्यापि दर्शनात् ।
न च तान्प्रेक्षमाणोऽपि व्यथामुपजगाम ह ॥
अथ द्रौणिर्धनुष्पाणिर्बद्धगोधाङ्गुलित्रवान् ।
स्वयमेवात्मनात्मानमुपहारमुपाहरत् ॥
धनूंषि समिधस्तत्र पवित्राणि सिताः शराः ।
हविरात्मवतश्चात्मा तस्मिन्भारत कर्मणि ॥
ततः सौम्येन मन्त्रेण द्रोणपुत्रः प्रतापवान् ।
उपहारं महामन्युरथात्मानमुपाहरत् ॥
तं रुद्रं रौद्रकर्माणं रौद्रैः कर्मभिरच्युतम् ।
अभिष्टुत्य महात्मानमित्युवाच कृताञ्जलिः ॥
द्रौणिरुवाच ।
इममात्मानमद्याहं जातमाङ्गिरसे कुले ।
स्वग्नौ जुहोमि भगवन्प्रतिगृह्णीष्व मां बलिम् ॥
भवद्भक्त्या महादेव पस्मेण समाधिना ।
अस्यामापदि विश्वात्मन्नुपाकुर्मी तवाग्रतः ॥
त्वयि सर्वाणि भूतानि सर्वभूतेषु चासि वै ।
गुणानां हि प्रधानानां कैवल्यं त्वयि तिष्ठति ॥
सर्वभूताश्रय विभो हविर्भूतमवस्थितम् ।
प्रतिगृहाण मां देव यद्यशक्याः परे मया ॥
इत्युक्त्वा द्रौणिरास्थाय तां देवीं दीप्तपावकाम् ।
सन्त्यज्यात्मानमारुह्य कृष्णवर्त्मन्युपाविशत् ॥
तमूर्ध्वबाहुं निश्चेष्टं दृष्ट्वा हविरुपस्थितम् ।
अब्रवीद्भगवान्साक्षान्महादेवो हसन्निव ॥
सत्यशौचार्जवत्यागैस्तपसा नियमेन च ।
क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा ॥
यथावदहमाराद्वः कृष्णेनाक्लिष्टकर्मणा ।
तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते ॥
कुर्वता तात सम्मानं त्वां च जिज्ञासता मया ।
पाञ्चालाः सर्वदा गुप्ता मायाश्च बहुशः कृताः ॥
कृतस्तस्यैव सम्मानं पाञ्चालान्रक्षता मया ।
अभिभूतास्तु कालेन नैषामद्यास्ति जीवितम् ॥
एवमुक्त्वा महात्मानं भगवानात्मनस्तनुम् ।
आविवेश ददौ चास्मै विमलं खङ्गमुत्तमम् ॥
अथाविष्टो भगवता भूयो जज्वाल तेजसा ।
वेगवांश्चाभवद्युद्धे देवसृष्टेन तेजसा ॥
तं दृष्ट्वा तानि भूतानि रक्षांसि च समाद्रवन् ।
अभितः शिबिरं यान्तं द्रोणपुत्रं महारथम् ।
देवदेवं हरं स्थाउं यान्तं साक्षादिवेश्वरम् ॥ ॥
इति श्रीमन्महाभारते सौप्तिकपर्वणि सप्तमोऽध्यायः ॥ 7 ॥
10-7-1 रथोपस्थाद्दध्यौ स प्रयतः स्थितः इति क.पाठः ॥ 10-7-5
सोऽहमात्मोपहारेणेति झ.पाठः ॥ 10-7-9 उमाभूषणतत्परमिति झ.पाठः ॥ 10-7-11
हिरण्यदण़्डकवचं चारुमौलिविभूषणमिति क.पाठः ॥ 10-7-17 प्लुवमुखाः
मण्डूकवक्ताः ॥ 10-7-18 दार्वाघाटः पक्षिविशेषः । महागजसवकाश्चेति क.पाठः ॥ 10-7-38 पिण़्डिका जानुनोरधः---पश्चाद्भागः ॥ 10-7-53 सौम्येन सोमदैवत्येन
मन्त्रेण ॥ 10-7-7 सप्तमोऽध्यायः ॥
श्रीः