अध्यायः 010
दैवादुर्वरितेन दृष्टद्युम्नसारथिना युधिष्ठिराय रात्रौ
वृत्तशिबिरवृत्तान्तविनेदनम् ॥ 1 ॥ तच्छ्रवणेन द्रौपद्यानयनाय नकुलभादिश्य
शिबिरभुवमुपागतवता युधिष्ठिरेण गृतनिजजनावलोकनेन परिदेवनम् ॥ 2 ॥
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः ।
गत्वा शशंस पाण्डुभ्यः सौप्तिके कदनं कृतम् ॥
सूत उवाच ।
द्रौपदेया हता राजन्द्रुपदस्वात्मजैः सह ।
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥
गौतमेन नृशंसेन भोजेन कृतवर्मणा ।
अश्वत्थान्ना च पापेन हतं वः शिबिरं निशि ॥
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वयैः ।
सहस्रामि विकृन्द्भिर्निः शेषं शिबिरं कृतम् ॥
`xxxxxxविहगफलभारनतस्य ह ।'
xxxxxxxमहतो वनस्येव परश्वथैः ।
xxxxxxxx सुमहाञ्शब्दो बलस्य तव भारत ॥
महमेकोऽबशिष्टस्तु तस्मात्सैन्यामहीपते ।
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्राच्च कृतवर्मणः ॥
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः ।
पपात मह्यां धर्मात्मा पुत्रशोकसमन्वितः ॥
पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा ।
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत् ॥
`अगम्या गतिरर्थानां कर्मणामीश्वरस्य च' ।
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः ।
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान् ।
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥
अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः ।
जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥
यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः ।
कथं मन्येत विजयं ततो जिततरः परैः ॥
येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः ।
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥
कर्णिनालीकदंष्ट्रस्य स्वङ्गजिह्वस्य संयुगे ।
चापव्यात्तास्यरौद्रस्य ज्यातलस्वननादिनः ॥
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः ।
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः ॥
रथहदं शरवर्षोर्मिमन्तं
रत्नाचितं वाहनयोधबृन्दम् ।
शक्त्यृष्टिमीनध्वजनागनक्रं
शरासनावर्तमहेषुफेनम् ॥
सङ्ग्रामचन्द्रोदयवेगवेलं
द्रोणार्णवं ज्यातलनेमिघोषम् ।
ये तेरुरुच्चावचशस्त्रनौभि--
स्ते राजपुत्रा निहताः प्रमादात् ॥
न हि प्रमादात्परमस्ति कश्च--
द्वधो नराणामिह जीवलोके ।
प्रमत्तमर्था हि नरं समन्ता--
त्त्यजन्त्यनर्थाश्च समाविशन्ति ॥
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं
शरार्चिषं दीप्तमहापताकम् ।
महाधनुर्ज्यातलनेमिघोषं
तनुत्रनानाविधशस्त्रहोमम् ॥
महाचमूकक्षदवाभिपन्नं
महाहवे भीष्ममहादवाग्निम् ।
ये तेरुरुच्चावचशस्त्रवेगै--
स्ते राजपुत्रा निहताः प्रमादात् ॥
न हि प्रमत्तेन नरेण शक्य--
माप्तुं वसु श्रीर्विपुलं यशो वा ।
पश्याप्रमादेन निहत्य शत्रू--
न्सर्वान्महेन्द्रं सुखमेधमानम् ॥
इन्द्रोपमान्पार्थिवपुत्रपौत्रा--
न्पश्याविशेषेण हतान्प्रमादात् ।
तीर्त्वा समुद्रं जणिजः समृद्वा ।
मग्नाः कुनद्यामिव सीदमानाः ॥
अमर्षितैर्ये निहता नरेन्द्रा
निःसंशयं ते त्रिदिवं प्रपन्नाः ।
कृष्णां तु शोचामि कथं नु साध्वी
शोकार्णवं सा विषहिष्यतीति ॥
भातृंश्च पुत्रांश्च हतान्निशम्य
पाञ्चालसराजं पितरं च वृद्वम् ।
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां
सा शोष्यते शोककृशाङ्गयष्टिः ॥
तच्छोकजं दुःखमपारयन्ती
कथं भविष्यत्युचिता सुखानाम् ।
रोरूयते ज्ञातिवधाभितप्ता
प्रदह्वमानेव हुताशनेन ॥
इत्येवमार्तः परिदेवयन्स
राजाज कुरूणां नकुलं बभाषे ।
गच्छान्यैनामिह मन्दभाग्यां
समातृपक्षामिति राजपुत्रीम् ॥
माद्रीसुतस्तत्परिगृह्य वाक्यं
धर्मेण धर्मप्रथमस्य राज्ञः ।
ययौ रथेनालयमाशुदेव्याः
पाञ्चालराजस्य च यत्र दाराः ॥
प्रस्थाप्य माद्रीसुतमाजमीढः
शोकार्दितस्तैः सहितः सुहृद्भिः ।
रोरूयमाणः प्रययौ सुताना--
मायोधनं भूतगणानुकीर्णम् ॥
स तत्प्रविश्याशिवमुग्ररूपं
ददर्श पुत्रान्सुहृदः सखींश्च ।
भूमौ शयानान्रुधिरार्द्रगात्रा--
न्विभिन्नदेहान्प्रहृतोत्तमाङ्गान् ॥
स तांस्तु दृष्ट्वा भृशमार्तरूपो
युधिष्ठिरो धर्मभृतां वरिष्ठः ।
उच्चैः प्रचुक्रोश च कौरवाग्र्यः
पपात चोर्व्यां सगणो विसंज्ञः ॥ ॥
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि दशमोऽध्यायः ॥ 10 ॥
10-10-8 xxxxxxxxत्यक्त्वा पतन्तम् ॥ 10-10-10 अन्ये शत्रवः ।
जयमानाः जयन्तः । जितानां जयो जयतां पराजयः फलतोऽभूदिति महदाश्चर्यमित्यर्थः ॥ 10-10-13 पश्चात्स पाप इव दुर्मतिरिति क.पाठः ॥ 10-10-16 व्यमुञ्चन्त मुक्ताः ।
कर्णस्य कर्णात् । प्रमादादस्मत्कृतादसान्निध्यात् ॥ 10-10-17 वाहनवाजियुक्तमिति
झ.पाठः ॥ 10-10-20 तनुत्राणि नानाषिधानि शस्कराणि च तेषां होमः प्रक्षेपो यत्र
तं तनुत्रनानाविधशस्त्रहोमम् ॥ 10-10-21 भीष्ममयं भीष्मप्रधानं अग्निदाहम् ।
भीष्मरूपेण अग्निना दाहमित्यर्थः ॥ 10-10-24 निहताः शयाना इति झ.पाठः ॥ 10-10-10 दशमोऽध्यायः ॥
श्रीः