अध्यायः 001

सञ्जयेन पुत्रादीन्प्रति शोचतो धृतराष्ट्रस्य समाश्वासनम् ॥ 1 ॥

श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
जनमेजय उवाच ।
हते दुर्योधने चैव हते सैन्ये च सर्वशः ।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने ॥
तथैव कौरवो राजा धर्मपुत्रो महामनाः ।
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥
अश्वत्थाम्नः कृतं कर्म शापश्चान्योन्यकारितः ।
वृत्तान्मुत्रं ब्रूहि यदभाषत सञ्जयः ॥
वैशम्पायन उवाच ।
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् ।
पुत्रशोकाभिसन्प्तं धृतराष्ट्रं महीपतिम् ॥
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम् ।
सञ्जयो जयतां श्रेष्ठ राजानं वाक्यमब्रवीत् ॥
किं शोचसि महाराज नास्ति शोके सहायता । अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते ।
निर्जितेयं वसुमती शून्या स्थास्यति केवलम् ॥
नानादिग्भ्यः समागम्य नानाजात्या नराधिपाः ।
सहितास्व पुत्रेण सर्वे वै निधनं गताः ॥
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा । गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः ।
प्रेतकार्याणि सर्वाणि कारयस्व नराधिप ॥
वैशम्पायन उवाच ।
तच्छ्रुत्वा करुणं पुत्रपौत्रवधार्दितः ।
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः ॥
धृतराष्ट्र उवाच ।
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः ।
दुःखं नूनं गमिष्यामि विचरन्पृथिवीमिमाम् ॥
किन्नु बन्धुविहीनस्य जीवितेन ममाद्य वै ।
लूनपक्षस्य इव मे वैनतेयस्य सञ्जय ॥
हृतराज्यो हतसुहृद्वतपुत्रश्च वै तथा ।
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान् ॥
न कृतं सुहृदां वाक्यं जामद्ग्न्यस्य च ॥ सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम ।
अलं वैरेण ते राजन्पुत्रः संगृद्यतामिति ।
तच्च वाक्यमकृत्वाऽहं भृशं तप्यामि दुर्मतिः ॥
न हि श्रोताऽस्मि भीष्मस्य शर्मयुक्तं प्रभाषितम् ॥
दुर्योधनस्य च तथा वृषभस्येव नर्दतः । दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम् ।
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते ॥
न स्मराम्यात्मनः किञ्चित्पुरा सञ्जय दुष्कृतम् ।
यस्येदं फलमद्येह मया मूढेन भुज्यते ॥
नूनं व्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु ।
येन मां दुःखभागेषु धाता कर्मसु युक्तवान् ॥
परिणामश्च वयसः सर्वबन्धुक्षयश्च मे ।
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः ॥
कोन्वस्ति दुःखिततरो मत्तोऽन्यो हि पुमान्भुवि ॥
तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः ।
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम् ॥
वैशम्पायन उवाच ।
तस्य लालप्यमानस्य बहु शोकं विचिन्वतः ।
शोकापहं नरेन्द्रस्य सञ्जयो वाक्यमब्रवीत् ॥
शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः ।
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम ॥
सृञ्जये पुत्रशोकार्ते यदूर्चुर्मुनयः पुरा ।
यथा यौवनजं दर्पमास्थिते ते सुते नृप ॥
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम् ।
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना ॥
असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम् ।
प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः ॥
यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान् ।
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः ॥
अनल्पं येन वै सर्वं शल्यभूतं कृतं जगत् ।
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च ॥
द्रोणस्य च महाराज कृपस्य च शरद्वतः ।
कृष्णस्य च महाबाहो नारदस्य च धीमतः ॥
ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः । न कृतं तेन वचनं तव पुत्रेण भारत ।
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः ॥
अधर्मसंयुतं किञ्चिन्नित्यं युद्धमिति ब्रुवन् ।
मध्यस्थो हि त्वमप्यासीर्न क्षमं किञ्चिदुक्तवान् ॥
धूर्धरेण त्वया भारस्तुलया न समं धृतः ॥
आदावेव मनुष्येण वर्तितव्यं यथाक्रमम् ।
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ॥
पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षितम् ।
पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि ॥
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति ।
स भ्रष्टोमधुलोभेन शोचत्येव यथा भवान् ॥
अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम् ।
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते जयम् ॥
स्वयमुत्पादयित्वाऽग्निं परीतस्तेन योऽग्निना ।
दह्यमानः पुनस्तापं भजते न स पण्डितः ॥
त्वयैव ससुतेनायं वाक्यवायुसमीरितः ।
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः ॥
तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः ।
तान्केशवाग्निनिर्दग्धान्न त्वं शोचितुमर्हसि ॥
यच्चाश्रुपातकलिलं वदनं वहसे नृप ।
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः ॥
विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान् ।
जहीहि मन्युं बुद्ध्या वै धास्यात्मानमात्मना ॥ 41 ॥
वैशम्पायन उवाच ।
एवमाश्वासितं तेन सञ्जयेन महात्मना ।
विदुरो भूय एवाह बुद्धिपूर्वं परन्तप ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

11-1-3 अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारित इति क.पाठः । अश्वत्थान्नः श्रुतं कर्म शापादन्योन्यकरितादिति झ.पाठः । तत्र अन्योन्यं कारितात्पाण्डवानां गर्भे ब्रह्मशिरोस्त्रं पतत्वित्यश्वत्थान्ना शापो दत्तः । सहस्रवर्षाणि गलत्कुष्ठो भविष्यसीत्यश्वत्थाम्नः कृष्णेन शापो दत्त इत्यर्थः ॥ 11-1-6 शून्या राजभिर्हीना ॥ 11-1-8 गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारयेति झ.पाठः । तत्र आनुपूर्व्येणेति । आदौ हतानामादावेव पश्चाद्धतानां पश्चादेवेति पौर्वापर्येण प्रेतानां परेतानां कार्याणि पारलौकिकानि कर्माणीत्यर्थः ॥ 11-1-15 श्रोतास्मि श्रुतवानस्मि ॥ 11-1-16 विपर्ययं विनाशम् ॥ 11-1-21 तन्मामिति । अद्यैव प्राणत्यागं करिष्यामीत्यर्थः ॥ 11-1-22 शोकं वितन्वत इति झ.पाठः । तत्र वितन्वतः विरचयत इत्यर्थः ॥ 11-1-23 अवृत्तेति च्छेदः ॥ 11-1-28 शल्यश्च येन वै सर्वं इति झ.पाठः । तत्र शल्यश्च मन्त्रीति पूर्वेणान्वयः ॥ 11-1-31 न धर्मः स कृतः कश्चिन्नित्यं युद्धमभीप्सता । अल्पबुद्धिरहकारी नित्यं युद्धमिति ब्रुवन् । क्रूरो दुर्मर्षणो नित्यमसन्तुष्टश्च वीर्यवान् । श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा । न मुह्यान्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः । न धर्मः सत्कृतः कश्चित्तव पुत्रेण मारिष । इति झ.पाठः । अत्र ब्रुवन् दुर्योधनं आसीदिति शेषः ॥ 11-1-32 दुर्धरेणेति झ.ट.पाठः ॥ 11-1-35 प्रपातं पर्वताग्राद्भ्रंशम् ॥ 11-1-41 जहि मन्यं स्वबुद्ध्या वै इति क.छ.ट.पाठः । दहन्ति शोका इत्यर्थात् । मन्युं दैन्यम् । मन्युर्दैन्ये क्रतौ क्रुधि इत्यमरः । आत्मानं चित्तं आत्मना धैर्येण धारय । प्राणान्मात्याक्षीरित्यर्थः ॥ 11-1-1 प्रथमोऽध्यायः ॥

श्रीः