अध्यायः 008
व्यासेन धृतराष्ट्रस्य शोकापनोदनम् ॥ 1 ॥
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अष्टमोऽध्यायः ॥ 8 ॥56
11-8-29 कालः संहारकारणादिति क.छ.ठ.पाठः ॥ 11-8-37 नारदेन समाख्यातमिति क.छ.ठ.पाठः ॥ 11-8-39 तदाऽशोचन्त पाण्डवा इति झ.पाठः ॥ 11-8-48 धर्मश्च सुमहास्तात तप्तस्य तपसश्चिरादिति क.छ.ठ.पाठः ॥
श्रीः
- 11-8-8 अष्टमोऽध्यायः ॥↩
-
[जनमेजय उवाच ।गते भगवति व्यासे धृतराष्ट्रो महीपतिः ।किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥तथैव कौरवो राजा धर्मपुत्रो महामनाः ।कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ॥अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः ।वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ॥वैशम्पायन उवाच ।हते दुर्योधने चैव हते सैन्ये च सर्वशः ।सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपस्थितः ॥6
- 11-9-4 विगता प्रज्ञा व्यासदत्तं दिव्यज्ञानं यस्य स विगतप्रज्ञः ॥↩
सञ्जय उवाच ।आगम्य नानादेशेभ्यो नानाजनपदेश्वराः ।पितृलोकं गता राजन्सर्वे तव सुतैः सह ॥याच्यमानेन सततं तव पुत्रेण भारत ।घातिता पृथिवी सर्वा वैरस्यान्तं विधित्सता ॥पुत्राणामथ पौत्राणां पितॄणां च महीपते ।आनुपूर्व्येण सर्वेषां प्रेतकार्याणि कारय ॥वैशम्पायन उवाच ।तच्छ्रुत्वा वचनं घोरं सञ्जयस्य महीपतिः ।गतासुरिव निश्चेष्टो न्यपतत्पृथिवीतले ॥तं शयानमुपागम्य पृथिव्यां पृथिवीपतिम् ।विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥उत्तिष्ठ राजन्किं शेषे मा शुचो भरतर्षभ ।एषा वै सर्वसत्वानां लोकेश्वर परा गतिः ॥अभावादीनि भूतानि भावमध्यानि भारत ।अभावनिधनान्येव तत्र का परिदेवना ॥न शोचन्मृतमन्वेति न शोचन्म्रियते नरः ।एवं सांसिद्धिके लोके किमर्थमनुशोचसि ॥अयुध्यमानो म्रियते युध्यमानस्तु जीवति ।कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥कालः कर्षति भूतानि सर्वाणि विविधानि च ।न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ॥यथा वायुस्तृणाग्राणि संवर्तपति सर्वतः ।तथा कालवशं यान्ति भूतानि भरतर्षभ ॥एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।यस्य कालः प्रयात्यग्रे तत्र का परिदेवना ॥यांश्चापि निहतान्युद्धे राजंस्त्वमनुशोचसि ।न शोच्या हि माहत्मानः सर्वे ते त्रिदिवं गताः ॥न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।तथा स्वर्गमुपायान्ति यथा शूरास्तनुत्यजः ॥सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः ।हूयमानाञ्शरांश्चैव सेहुरुत्तमपूरषाः ॥एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् ।न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः ।आशिषं परमां प्राप्ता न शोच्याः सर्व एव हि ॥आत्मनाऽऽत्मानमाश्वास्य मा शुचः पुरुषर्षभ ।नाद्य शोकाभिभूतस्त्वं कार्यमुत्स्नष्टुमर्हसि ॥ ॥इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि अध्यायः ॥
वैशम्पायन उवाच ।विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः ।युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत् ॥धृतराष्ट्र उवाच ।शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः ।वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः ॥strIB-11-8-11 शोकस्यातिगाढत्वात्पुनर्विदुरेणोक्तं अभावदीनीत्यादि ॥ strIB-11-8-15 संवर्तयति वर्तुलयति कम्पयति वा ॥ strIB-11-8-21 आचक्षे कथयामि ॥ strIB-11-8-23 कार्यं अवश्यकर्तव्यमुदकदानादि ॥
↩ - 11-9-4 विगता प्रज्ञा व्यासदत्तं दिव्यज्ञानं यस्य स विगतप्रज्ञः ॥↩